भगवत्भक्तिपद्यम् १
%१२१
पद्यम् (चाल - जमका अजब तडाका)
भगवन् भक्तिरसं देहि स्याद्धन्यो येन तु देही ॥ ध्रु ॥
सकामधर्मं हृदापि नेच्छोऽनर्थकरेऽस्मिन् तुच्छे ।
निरास्पदेऽनिलहतनार्वीव स्वार्थं को वाऽन्विच्छेत् ॥ १॥
अखण्डभगवद्भजनविघ्नकृन्नियते कर्मण्यपि मे ।
सदानादरस्त्वद्भजनादरः परास्तु नाऽन्येच्छा मे ॥ २॥
ननु स्वधर्मत्यागे भजतां कृतार्थता चेद्दिष्ट्या ।
येन यदि वाऽतो भ्रश्येद्वाऽपक्वः किं स न साधुः ॥ ३॥
न भक्तिरसिकोऽनर्थं याति क्वापि समर्थः ।
भक्तिवासनासद्भाग्यान्नो हीनोऽपि भजेत्स्वार्थम् ॥ ४॥
भजतो जन्मान्तरेऽप्यभद्रं नीचगतो लभेत्कि ।
स्वधर्मनिरतो चेद्भक्तो भद्रं क्वापि लभेत्किम् ॥ ५॥
यद्यपि धर्मादुपरि सुखं स्यात्तदर्थयत्नो व्यर्थः ।
सुखानि दैवाद् दुःखानीवाऽऽयान्ति क्वापि समर्थ ॥ ६॥
यदधोलभ्यं चोर्ध्वमलभ्यं तदेव देव प्रेष्ठ ।
त्वत्पदभजनं जनिमृतिभञ्जनं मे देह्यमरश्रेष्ठ ॥ ७॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं भगवत्भक्तिपद्यं सम्पूर्णम् ।