भगवत्भक्तिपद्यम् २
%१२२
पद्यम् (चाल - जमका अजब तडाका॥)
भगवन्निर्विकार ईश त्वमसि सदोदित विगताश ॥धृ ॥
अपरोक्षस्त्वं नित्यप्राप्तः प्राप्तिस्त्वं कथमीश ।
स्वयञ्ज्योतिस्त्वमतो विकृतिर्नहि तव भवदवनाश ॥ १॥
मलिनो योऽसौ मलक्षालनाच्छुद्धो विकृतिं यातीश ।
अज्ञानमलाऽस्पृष्टोऽस्यमलाऽतस्ते विकृतिः क्वेश ॥ २॥
यो हि जायते सचोत्पत्तिना विक्रियते जगदीश ॥
त्वं तु सदाऽजस्तवाधोक्षज विकार उत्पत्तित ईश ॥ ३॥
आगमगेयस्त्वमप्रमेयः कथं घटेत त्रीश ।
ज्ञानलक्षणाऽतिशयाधानात्संस्कारस्तव धीश ॥ ४॥
त्वं देशाद्यैरपरिच्छिन्नो महानुभूति त्रीश ।
अस्तित्वाद्या विकृतिरविद्या कृता न तेऽस्ति परेश ॥ ५॥
त्वमेक एवाद्वितीय एवाखिलानुभूतिः स्वेश ।
विकारहेतोरभावतोऽतो न ते विकारोधीश ॥ ६॥
श्रुतिविषयस्य स्वयं प्रभावं तूक्तिविरामेधीश ।
त्वदीषिता वाङ्मुखाशचरन्ति वृत्तिव्याप्तिः सुमतेश ॥ ७॥
(अस्य श्लोकः भागवते)
एष स्वयञ्ज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः ।
एकोऽद्वितीयो वचसां विरामे एनेषिता वागसवश्चरन्ति ॥ १॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं भगवत्भक्तिपद्यं सम्पूर्णम् ।