भगवत्भक्तिपद्यम् ३
%१२५
(चाल - साध्य नसे मुनिकन्या)
भज भज भगवत्कायम् । तं विप्रं हापितमायम् ॥ध्रु०॥
समाधिसिद्ध्यै क्लेशविहत्यै कृतक्रियो यो विप्रः ।
कर्माशयहृत्तापातापकृन्मूलोत्पाटनविप्र ॥ १॥
सुखमपि दुःखं पश्यत्याखण्डिततुर्याऽवनिसंस्थः ।
विप्रो देवः साक्षादेव प्रभुः स किमुपरिस्थः ॥ २॥
अभ्यासहताविद्या ये तानर्चत नित्यं हि यतः ।
यदि ते कुपिता अप्यतिशान्ता शपन्ति मानातीताः ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं भगवत्भक्तिपद्यं सम्पूर्णम् ।