श्रीब्रह्मण्यतीर्थमङ्गलाष्टकम्

श्रीब्रह्मण्यतीर्थमङ्गलाष्टकम्

श्रीमानत्र दिवाकरः करुणया ब्रह्मौघवाञ्छाकृते श्रीमत्पूगवनान्ववायतिलकाद्रामार्यविप्रोत्तमात् । लब्ध्वाजन्म नृसिंहसेवनरतःक्षोणीसुचिन्तामणिः श्रीब्रह्मण्य इतीरितः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ १॥ पूर्वं शुभ्रतनुःकलानिधिरसौ लीढस्तमोजिह्वया मालिन्यस्य वशो यदीययशसां त्रैलोक्यगानां करैः । धावल्यं पुनराप्तवानपि ह्रसत्यन्यप्रभालाभतः श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम् ॥ २॥ यद्वादाभिधसिंहनादमतुलं वादीन्द्रदन्तावलाः श‍ृण्वन्तःकिल दूरतोऽपि चकिता दिक्कन्दरं प्राद्रवन् । सोयं श्रीयतिराजशूरमृगराट् वृन्दावने संवसन्ग् श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ३॥ यस्यश्रीकरपङ्कजादृतमहामन्त्राक्षतैःसाधिताः सर्वेभीष्टचयाःसुरद्रुमवरैर्दातुं न शक्या हि ते । यद्वृन्दावनमृत्तिकाधृतिरहो क्रूरग्रहोद्भञ्जिका श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ४॥ श्रीभास्वानपरोयमान्तरतमस्तोमस्य सम्भेदको गोभिश्चित्रसुवर्णरम्यतनुभिःसाध्वब्जसंहर्षकः । किञ्चातिग्मरुचिर्मनुष्यसुदृशां हर्षेण दृश्याकृतिः श्रीब्रह्मण्यवराभिदः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ५॥ संसाराम्बुनिधौ तरङ्गनिचयैःसन्ताडितानां सताम् नित्यं पारमितःपरं मृगयतामालम्बनापेक्षिणाम् । ज्ञानाभिख्यदृढोडुपेन विलसन् सन्तारको नाविकः श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ ६॥ यद्वृन्दावनमिन्दिरेशकरुणावृन्दस्य सन्दायकम् मन्दारद्रुमवज्जनेष्टनिचयं सम्पादयत्पावनम् । सान्द्रानन्दकदम्बमूर्तिरुचिरं सद्वृन्दसंसेवितम् श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ ७॥ सेव्या कण्चनदीपवित्रसलिलारामाप्रमेयो हरिः क्षेत्रं ज्ञानसुमण्टपाख्यमनिशं ह्यब्बूरुनाम्नास्तियत् । तद्रम्यस्थलभूषणं वरगुरुर्वृन्दावनं तद्गतः श्रीब्रह्मण्ययतीश्वरश्च भुवि नः कुर्यात्परं मङ्गलम् ॥ ८॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीनिवासोदितं सर्वाभीष्टकरं प्रभातसमये भक्त्या पठन् मानवः । माङ्गल्यादिशुभक्रियासु च वदन् ब्रह्मण्यकारुण्यतः सुज्जानं विविधार्थसिद्धिमपि स प्राप्नोत्यसौ मङ्गलम् ॥ ९॥ इति श्रीमद्व्यासराजगुरुवरविरचितं श्रीब्रह्मण्यतीर्थमङ्गलाष्टकं समाप्तम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Brahmanyatirtha Mangala Ashtakam
% File name             : brahmaNyatIrthamangalAShTakam.itx
% itxtitle              : brahmaNyatIrthamaNgalAShTakam (vyAsarAjaguruvaravirachitam)
% engtitle              : brahmaNyatIrthamangalAShTakam
% Category              : deities_misc, gurudev, aShTaka, mangala
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vyasaraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Description/comments  : PanchayatistutiH
% Indexextra            : (Scan)
% Acknowledge-Permission: C Narayanarao
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org