श्रीब्रह्मण्यतीर्थमङ्गलाष्टकम्
श्रीमानत्र दिवाकरः करुणया ब्रह्मौघवाञ्छाकृते
श्रीमत्पूगवनान्ववायतिलकाद्रामार्यविप्रोत्तमात् ।
लब्ध्वाजन्म नृसिंहसेवनरतःक्षोणीसुचिन्तामणिः
श्रीब्रह्मण्य इतीरितः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ १॥
पूर्वं शुभ्रतनुःकलानिधिरसौ लीढस्तमोजिह्वया
मालिन्यस्य वशो यदीययशसां त्रैलोक्यगानां करैः ।
धावल्यं पुनराप्तवानपि ह्रसत्यन्यप्रभालाभतः
श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम् ॥ २॥
यद्वादाभिधसिंहनादमतुलं वादीन्द्रदन्तावलाः
शृण्वन्तःकिल दूरतोऽपि चकिता दिक्कन्दरं प्राद्रवन् ।
सोयं श्रीयतिराजशूरमृगराट् वृन्दावने संवसन्ग्
श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ३॥
यस्यश्रीकरपङ्कजादृतमहामन्त्राक्षतैःसाधिताः
सर्वेभीष्टचयाःसुरद्रुमवरैर्दातुं न शक्या हि ते ।
यद्वृन्दावनमृत्तिकाधृतिरहो क्रूरग्रहोद्भञ्जिका
श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ४॥
श्रीभास्वानपरोयमान्तरतमस्तोमस्य सम्भेदको
गोभिश्चित्रसुवर्णरम्यतनुभिःसाध्वब्जसंहर्षकः ।
किञ्चातिग्मरुचिर्मनुष्यसुदृशां हर्षेण दृश्याकृतिः
श्रीब्रह्मण्यवराभिदः स भुवि नः कुर्यात्परं मङ्गलम् ॥ ५॥
संसाराम्बुनिधौ तरङ्गनिचयैःसन्ताडितानां सताम्
नित्यं पारमितःपरं मृगयतामालम्बनापेक्षिणाम् ।
ज्ञानाभिख्यदृढोडुपेन विलसन् सन्तारको नाविकः
श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ ६॥
यद्वृन्दावनमिन्दिरेशकरुणावृन्दस्य सन्दायकम्
मन्दारद्रुमवज्जनेष्टनिचयं सम्पादयत्पावनम् ।
सान्द्रानन्दकदम्बमूर्तिरुचिरं सद्वृन्दसंसेवितम्
श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम् ॥ ७॥
सेव्या कण्चनदीपवित्रसलिलारामाप्रमेयो हरिः
क्षेत्रं ज्ञानसुमण्टपाख्यमनिशं ह्यब्बूरुनाम्नास्तियत् ।
तद्रम्यस्थलभूषणं वरगुरुर्वृन्दावनं तद्गतः
श्रीब्रह्मण्ययतीश्वरश्च भुवि नः कुर्यात्परं मङ्गलम् ॥ ८॥
इत्येतद्वरमङ्गलाष्टकमिदं श्रीनिवासोदितं
सर्वाभीष्टकरं प्रभातसमये भक्त्या पठन् मानवः ।
माङ्गल्यादिशुभक्रियासु च वदन् ब्रह्मण्यकारुण्यतः
सुज्जानं विविधार्थसिद्धिमपि स प्राप्नोत्यसौ मङ्गलम् ॥ ९॥
इति श्रीमद्व्यासराजगुरुवरविरचितं
श्रीब्रह्मण्यतीर्थमङ्गलाष्टकं समाप्तम् ।
Encoded and proofread by Krishnananda Achar