श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्
वन्दे ब्रह्मण्यतीर्थं शुभतमचरितं सेवितश्रीसमेतम्
शान्तं दान्तं महान्तं गुरुगुणभरितं योगिसङ्घैरुपेतम् ।
कामक्रोधाद्यतीतं कुमतिभिरजितं कल्मषाम्भोधिपोतम्
धीरं भूदेवगीतं शुभजनमहितं धन्यमानं विनीतम् ॥ १॥
माद्यन्मायिगजेन्द्रपञ्चवदनः प्रख्यातकीर्तिर्महान्
श्रीमद्विट्ठलपादपद्ममधुपः सर्वेष्टचिन्तामणिः ।
निर्व्याजोरुदयाकटाक्षलसितो ज्ञानादिभाग्योज्वलः
श्रीब्रह्मण्ययतीन्द्र मस्तकमणिः पायादपायात्स माम् ॥ २॥
भिभ्रत्काषायचेलं विलसिततुलसीपङ्कजाक्षादिमालम्
धूताज्ञानाघजालं मृदुवचनकलं चारुसौन्दर्यशीलम् ।
आर्तत्राणैकलोलं प्रणतमुनिकुलं वैष्णवाग्र्यानुकूलम्
ब्रह्मण्यार्यं दयालुं स्मितमुखकमलं तं भजेलम् ॥ ३॥
यद्वृन्दावनदर्शनेन नितरां पापानि यान्ति क्षयम्
यद्वृन्दावनमृत्तिका सुविधृता तापत्र यध्वंसिनी ।
यद्वृन्दावनसेवया भुवि जनः प्राप्नोति विद्यां सुखम्
सर्वारिष्टनिवृत्तयेस्तु स च मे ब्रह्मण्यतीर्थो गुरुः ॥ ४॥
कुष्ठश्वेतोरुगुल्म क्षयकठिणतरव्याधिवैद्याधिनाथो
भूतप्रेतग्रहोच्चाटनकुशलमहामन्त्र मूर्तिर्मुनीन्द्रः ।
सर्वाभीष्टप्रदाता सरससुहृदयःपुण्यचारित्रनामा
भूयाद्ब्रह्मण्यतीर्थो गुरुकुलतिलको भूयसे श्रेयसे मे ॥ ५॥
इति श्रीमद्व्यासराजविरचितं
श्रीब्रह्मण्यतीर्थ पञ्चरत्नमालिकास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar