श्रीचक्रराज मङ्गळम्
मङ्गळं चक्रराजाय महनीय गुणाब्धये
पद्मनाभ करांभोज परिष्काराय मङ्गळम् ॥ १॥
काशी विप्लोषकाराय कल्याणगुण शालिने ।
मालि प्रमथनायास्तु महाधीराय मङ्गळम् ॥ २॥
गजेंद्रार्ति हरायास्थु ग्राह द्वेधाद्वकारिणे ।
दिनाधीश तिरोधान कर्त्रे दीप्ताय मङ्गळम् ॥ ३॥
चित्राकार स्वचाराय चित्त निर्वृति कारिणे ।
नरकासुर संहर्त्रे नानारूपाय मङ्गळम् ॥ ४॥
चण्डास्त्राञ्चित दोर्दण्ड खण्डितामरशत्रवे ।
चामीकर निभाङ्गाय चारुनेत्राय मङ्गळम् ॥ ५॥
चैत्यासुर शिरोहर्त्रे चन्द्राह्ळाद कराय ते ।
श्रीमते चक्रराजाय श्रितार्तिघ्नाय मङ्गळम् ॥ ६॥
॥ श्री चक्रराज मङ्गळम् समाप्तम् ॥
॥ श्रीमते सुदर्शनाय नमः ॥
Encoded and proofread by Usha K.Iyer iyerku at gmail.com