चन्द्रशेखरगुरोर्दशकम्
श्रुतिस्मृतिपुराणोक्त धर्ममार्गरतं गुरुं
भक्तानां हित वक्तारं नमस्ये चित्तशुद्धये ॥ १॥
अद्वैतानन्दभरितं साधूनामुपकारिणं
सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये ॥ २॥
कर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणं
अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये ॥ ३॥
भगवत्पादपादाब्जविनिवेशितचेतसः
श्रीचन्द्रशेखरगुरोः प्रसादो मयि जायताम् ॥ ४ ॥
क्शेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः
चन्द्रशेखरवर्यो मे सन्निधत्तां सदा हृदि ॥ ५॥
पोषणे वेदशास्त्राणां दत्त चित्तमहर्निशं
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६॥
वेदज्ञान्वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७॥
मणि वाचक गोदादि भक्तिवागमृतैर्भृशं
बालानां भगवद्भक्तिं वर्धयन्तं गुरुं भजे ॥ ८॥
लघूपदेशैर्नास्तिक्यभावमर्दनकोविदं
शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९॥
विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो
मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः ॥ १०॥
इति श्रीशङ्करविजयेन्द्रसरस्वतिविरचितं श्रीचन्द्रशेखरगुरोर्दशकं सम्पूर्णम् ।