श्रीचन्द्रशेखरेन्द्रसरस्वतीप्रपत्तिः
यःकाञ्चिपुर्यामिह कामकोटी
पीठेभिषिक्तश्शशिशेखराख्यः ।
पुनातिलोकान्गुरुराट् सशिष्यः
तं देशिकेन्द्रं शरणं प्रपद्ये ॥ १॥
यत् पादपद्ममकरन्दरसं पिबन्तः
मुक्ताश्चरन्ति भुवने बहवो महान्तः ।
त्वत् पादपद्ममकरन्दरसं पिबामि
बालेन्दुशेखरगुरो भगवन्प्रपद्ये ॥ २॥
यं धर्मकामार्थ विमुक्ति कामाः
भजन्ति कामेश कलावतार ।
श्री कामकोट्याश्चपते यतीन्द्र
त्वामेव नित्यं शरणं प्रपद्ये ॥ ३॥
ग्रन्थाश्च मे रचयितु भवतः प्रसादात्
आसीत् प्रसक्तिरधुना भगवन्मठेश ।
तस्मात् त्वमेवशरणं मम दीनबन्धो
काश्चीमठेश चरणौ शरणं प्रपद्ये ॥ ४॥
स्वामिन्विहाय शिबिकां च गजाश्ववाहान्
पद्भ्यां सदापि चरतां पदयोर्नखाग्रम् ।
रक्तं त्वदीयमभवत् ननु देशिकेन्द्र
रक्तोऽहमद्य पदयोः शरणं प्रपद्ये ॥ ५॥
नराश्च नार्यश्च शिशवश्च नित्यं
द्रष्टुं समायान्ति महेशमेव ।
प्रणम्य लब्ध्वा भवतः प्रसाद
गच्छन्ति ते त्वं शरणं प्रपद्ये ॥ ६॥
स्वामिन्त्वदीय पदयोरभिषिक्त तीर्थं
लोकं पुनाति तुहिनाद्रि सुता यथैव ।
त्वत् पाद तीर्थभजनन्तु सदा ममास्तु
त्वामेव लोक गुरुराजमहं प्रपद्ये ॥ ७॥
यस्यात्रियुग्म हरिदश्व सहस्रदीप्त्या
ध्यातुस्तमांसि दुरितान्यपयान्ति दूरम् ।
तस्येन्दु शेखरगुरोश्चरणौ प्रपद्ये
व्यामोहजालमखिलं विलयं प्रयातु ॥ ८॥
इति श्रीचन्द्रशेखरेन्द्रसरस्वतीप्रपत्तिः समाप्ता ।
श्री गुरुभ्यो नमः ।