श्रीचन्द्रशेखरभारत्यष्टकम्
शिष्यवृन्दसेवितं समस्तदोषवर्जितं
भस्ममन्द्रराजितं पवित्रदण्डशोभितम् ।
नम्रलोकपूजितं सुराधिराजभावितं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ १॥
चन्द्रचूडपूजनप्रसक्तचित्तमानसं
सत्त्वबोधनास्तहृद्यशिष्यवर्गसाध्वसम् ।
पूर्णचन्द्रबिम्बकान्तिकान्तवक्त्रसारसं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ २॥
पादपद्मनम्रकामितार्थकल्पपादपं
सत्प्रसक्तिशुद्धचित्तभूमितापसाधिपम् ।
विस्मितात्महृत्तमिस्रवारणे दिनाधिपं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ३॥
प्राक्तनातिभाग्यराशिलब्धशैवतेजसं
शङ्करार्यसाम्प्रदायबोधनैकमानसम् ।
वेदशास्त्रभाष्यतत्त्ववेदिनं महौजसं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ४॥
शृङ्गशैलधर्मपीठशोभमानमूर्तिकं
शङ्करार्यशारदापदार्चकं सुबोधकम् ।
चक्रराजपूजकं किरीटचारुमस्तकं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ५॥
राजलक्ष्मलक्षितं समग्रराजपूजितं
सर्वशास्त्रपण्डितं स्वधर्मरक्षणीरतम् ।
अक्षमाल्यमन्दितं पयोधिजाकटाक्षितं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ६॥
गद्यपद्यवाक्ष्रवाहदेवतार्यसन्निभं
ज्ञानवार्धिकौस्तुभं सुकर्मनिष्ठवल्लभम् ।
दुष्टलोकदुर्लभं भवाब्धितारकं शुभं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ७॥
खण्डितान्यदर्शनं समर्थितात्मदर्शनं
पापतापमर्दनं सुपक्षसर्वसाधनम् ।
भूतजातवारणं निवासभूमिपावनं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ८॥
इति श्रीचन्द्रशेखरभारत्यष्टकं सम्पूर्णम् ।
Encoded by Vasanth gsathyaarumugam at gmail.com
Proofread by Vasanth, PSA Easwaran