श्रीमद् दासबोधतत्त्वस्तवः

श्रीमद् दासबोधतत्त्वस्तवः

दासस्त्वं भव रामस्य भवपारं स नेष्यति । भवसेतुरिवाभाति दासबोधः प्रबोधयन् ॥ १॥ सर्वं हि पूरयत्येष श्रीरामो दासवाञ्छितम् । चिन्तामणिरिवाभाति दासबोधः प्रबोधयन् ॥ २॥ सर्वम्प्रकारं दास्यं रामदास्येन नश्यति । स्वातन्त्रभाः प्रभातीत्थं दासबोधः प्रबोधयन् ॥ ३॥ पापं तापं च दैन्यं च रामदास्येन नश्यति । इत्येवं बोधयन् भाति दासबोधः प्रबोधयन् ॥ ४॥ प्रपञ्चः परमार्थश्च रामदास्येन सिध्यति । देहलीदीपवद्भाति दासबोधः प्रबोधयन् ॥ ५॥ वासनाजालनिर्मोकः रामदास्येन सम्भवेत् । भवाब्धिनौरिवाभाति दासबोधः प्रबोधयन् ॥ ६॥ स्वाराज्यं च स्वराज्यं च रामदास्येन लभ्यते । भातीत्थं बोधयन् नित्यं दासबोधः सुरद्रुमः ॥ ७॥ श्रीसमर्थसमस्त्वंस्या रामदास्येन पावनः । स्पर्शोपल इवाभाति दासबोधः प्रबोधयन् ॥ ८॥ तवात्मा ब्रह्मरामोऽयं सा त्वमेव त्वमेव सः । महावाक्यमिवाभाति दासबोधः प्रबोधयन् ॥ ९॥ दासोऽपि रामदास्येन रामस्त्वं त्वमृतो भवेः । इति प्रबोधयन् भाति दासबोधः प्रबोधयन् ॥ १०॥ दासबोधश्चिदादित्यो यत्र कुत्रापि वा स्थितः । अज्ञानतिमिरं शीघ्रं नाशयन् काशतेऽनिशम् ॥ ११॥ इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितः श्रीमद्दासबोधतत्त्वस्तवः सम्पूर्णः ॥ बुधवार फाल्गुन शुक्ल पौर्णिमा, शके १८७९, लोणावळें, दि. ५ मार्च १९५८
% Text title            : Shrimad Dasabodhatattva Stavah
% File name             : dAsabodhatattvastavaH.itx
% itxtitle              : dAsabodhatattvastavaH (shrIdharasvAmIvirachitaH)
% engtitle              : dAsabodhatattvastavaH
% Category              : deities_misc, gurudev, advice, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Stotra praising principles presented in Dasabodha
% Indexextra            : (Collection 1, 2)
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org