दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्
%१३८
दत्तं वन्दे दशातीतं दयाब्धि दहनं दमम् ।
दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १॥
दातारं दारुणं दान्तं दास्यादं दानतोषणम् ।
दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥ २॥
दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् ।
दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३॥
दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुम् ।
दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥ ४॥
दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभञ्जनम् ।
दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥ ५॥
दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् ।
दूरं दूरतमं दूर्वाभं दूराङ्गं च दूरगम् ॥ ६॥
देवार्चयं देवपं देवं देयज्ञं देवतोत्तमम् ।
देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥ ७॥
दैन्यं दैन्यहरं दैवं दैन्यदं दैविकान्तकम् ।
दैत्यघ्नं दैवतं दैघ्र्यं दैवज्ञं दैहिकार्तिदम् ॥ ८॥
दोषघ्नं दोषदं दोषं दोषित्रं दोद्र्वयान्वितम् ।
दोषज्ञं दोहपं दोषेड्बन्धुं दोर्ज्ञं च दोहदम् ॥ ९॥
दौरात्म्यघ्नं दौर्मनस्य-हरं दौर्भाग्यमोचनम् ।
दौष्ट्य्त्रं दौष्कुल्यदोष-हरं दौर्हृद्यभञ्जनम् ॥ १०॥
दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् ।
दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्य्ज्ञं च दण्डदम् ॥ ११॥
अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम ।
वेदोऽपि चकितो यत्र नुर्वाघृद्दूर का कथा ॥ १२॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।