दशश्लोकीस्तवराजः
यो देवः प्रथमो विधीशहरिमुख्यानां पुरो नाकिनां
यः शुण्डापरिशोभिलम्बिजठरो यो नालिकेरप्रियः ।
मूलाधारचतुर्दलाब्जविलसच्छ्रीवल्लभानायको
विघ्नान् नो विधुनोतु मोदककृतानन्दः स विघ्नेश्वरः ॥ १॥
यः शूरं सिंहवक्त्रं निखिलसुररिपुं तारकं चापि युद्धे
संहृत्याशेषदेवानपरिमितकृपापूर्णदृष्ट्या जुगोप ।
साक्षाच्छ्रीशिवशक्त्यभिन्नमहसा सञ्जामूर्त्युज्ज्वलः
सोऽस्मान् पातु षडाननः प्रतिदिनं नानाविपद्वृन्दतः ॥ २॥
भ्राजद्रत्नमयाकृतेरिह महामेरोः समन्तात् सदा
प्रादक्षिण्यवशात् तमः परिहरन् यः पाति लोकानिमान् ।
तेजोराशिरपारभूरिकरुणश्छन्दोमयो भास्करः
सोऽस्मान् पातु विधूय रोगमखिलं छायाविलासप्रियः ॥ ३॥
धनुर्बाणौ वज्रायुधमपि कराब्जैरनुदिनं
चतुर्भिर्भूषाढ्यैः स्रवदमृतसम्पूर्णकलशम् ।
वहन्तं शुभ्राभं विधिहरिगिरीशात्मकतनुं
भजेऽहं कल्पद्रु हृदि निजपरानन्दजनकम् ॥ ४॥
शङ्खं चक्रमथाङ्कुशं च दधतीं भ्राजत्कपालं चतु-
र्बाह्वग्रैः शरदिन्दुकुन्दधवलां मर्त्याननां सुन्दरीम् ।
नानारत्नविभूषणाम्बरधरां सञ्चिन्तकानां नृणा-
मिच्छाकामफलप्रदां भगवतीं श्रीकामधेनुं भजे ॥ ५॥
श्रीमत्कल्पकशाखिमूलविलसच्छ्रीकामधेन्वन्तिके
श्रीमच्छेषफणासहस्रमणिभिर्भास्वत्तनोः शार्ङ्गिणः ।
या वक्षःस्थलवासिनी भगवती सौदामिनीवाभ्रगा
नित्यं भाति ममालये वसतु सा क्षीराब्धिकन्यान्वहम् ॥ ६॥
पञ्चाशद्वर्णरूपा निखिलनिगमशास्त्रादिविद्यास्वरूपा
साक्षाच्छ्रीचतुराननाङ्कनिलया या ज्ञप्तिमात्रात्मिका ।
शुभ्राङ्गी सितवस्त्रपुष्पविलसन्मूर्तिर्मदीये सदा
जिह्वाग्रेऽस्तु सरस्वती भगवती सा पुस्तकाद्युज्ज्वला ॥ ७॥
या सृष्ट्यादिकपञ्चकृत्यनिरतस्यार्धेन्दुचूडामणेः
साहाय्यं कुरुते सदापि युवतिर्भ्राजत्कपर्दामला ।
सा गौरी परसच्चिदात्मकतनुच्छायोत्थविश्वाकृतिः
सूर्येन्द्रग्निविलोचना वसतु मे हृत्पुण्डरीकान्तरे ॥ ८॥
स्वाभिन्नात्मकमायया शबलितो यो ब्रह्मविष्ण्वीशता-
मासाद्याथ गुणत्रयात्मकमहालीलाविभूत्या मुहुः ।
सृष्ट्वैतत् परिपाल्य कृत्स्नमुपसंहृत्यावसाने जगत्
स्वीयेऽचिन्त्यमहिम्नि सुस्थिततनुः पायादपायात् स माम् ॥ ९॥
यत् सच्चित्सुखरूपमद्वयमनासक्तं मृषामात्रके
विश्वेऽस्मिन्नबुधैरशास्त्रगुरुभिर्भ्रान्त्या समूरीकृते ।
तत् साक्षात् परतत्त्वसान्ज्ञकमखण्डानन्दपीयूषनिः-
ष्यन्दैकाकृति वस्तु मेऽस्तु सततं प्रत्यङ्मुखे चेतसि ॥ १०॥
स्वाभीष्टदेवतावर्गस्तुतिध्यानस्वरूपिणीम् ।
दशश्लोकीमिमां वीक्ष्य सन्तः कुर्वन्त्वनुग्रहम् ॥ ११॥
इति श्रीदशश्लोकीस्तवराजः समाप्तः ।
दशश्लोकी स्तवराजाभिप्रायसारसर्वस्वमपि सङ्गृह्यैकश्लोकेनोच्यते-
चिन्ताया मणिरूपतामुपगतो ये योगिनां ब्रह्मना-
ड्युन्मेषे सति सद्गुरूदितरहस्यार्थोपदेशादिभिः ।
भोगासक्तिमतां च चिन्तितमनोभावार्थदायी च यः
सोऽग्रे मेऽस्त्विह भोगमोक्षफलदश्चिन्तामणिश्चिन्मयः ॥
स्तोत्रसमुच्चयः २ (९३)
Proofread by Rajesh Thyagarajan