श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रम्

श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रम्

श्रीदत्तषट्चक्रस्तोत्रम् अजपाजपस्तोत्रं च । श्रीगणेशाय नमः । श्री गुरवे नमः । अथ ध्यानम् । दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदां च । पद्मासनस्थं ऋषिदेववन्दितं दत्तात्रेयध्यानमभीष्टसिद्धिदम् ॥ ॐ मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के) वंशंषंसं वर्णविशालं सुविशालम् । रक्तं वर्णं श्रीगणनाथं भगवन्तं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ १॥ (मूलाधार) स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे बालान्तेतद्वर्णविशालं सुविशालम् । (वादिं लान्तं वर्णविशेषं सुविशेषम् ।) पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ २॥ (स्वाधिष्ठान) नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे) लक्ष्मीकान्तं गरुडारूढं नरवीरम् । (मणिपूरे ।) नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ३॥ (मणिपूर) हृत्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे) शम्भोशैवं पूर्णमयन्तं शशिवर्णम् । (शम्भोशेशं जीवविशेषं स्मरयन्तम् ।) (सृष्टिस्थित्तं कुरुवन्तं शिवशक्तिं अनाहतांते वृषभारूढं शिवरूपम् ।) स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ४ ॥ (अनाहत) कण्ठस्थाने चक्रविशुद्धे कमलान्ते चन्द्राकारे षोडशपत्रे स्वरवर्णे । मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ५॥ (विशुद्ध) आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते (अग्निश्चक्रे) हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः । (हं क्षं, गुरूमूर्तिं) विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ६॥ (आज्ञा) मूर्ध्निस्थाने वारिजपत्रे शशिबीजं शुभ्रं वर्णं पत्रसहस्रं सुविशालम् । (ललनाख्ये ।) हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ७॥ (सहस्रार) ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् । (ज्ञानमयं) (सत्यं ज्ञानं सत्यमनन्तं भगरूपम् ।) ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ८॥ (पूर्णब्रह्मस्वरूप) शान्ताकारं शेषशयानं सुरवन्द्यं कान्तानाथं कोमलगात्रं कमलाक्षम् । चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं) दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ९॥ चितओंकारं ध्वनिनादे च स्वच्छन्दे आकारान्तेऽक्षरवणीते गुणरूपे । वेदान्तार्थं ज्ञानस्वरूपं निजबोधं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ९॥ इति श्री अजपातन्त्रे दत्तात्रेयस्तोत्रं सम्पूर्णम् । शुभं भवतु । (इति श्रीमद्शङ्कराचार्यविरचितं श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रं सम्पूर्णम् ।) श्रीदत्तषट्चक्रस्तोत्रम् । अजपाजपस्तोत्रम् Based on the variations and composition consistency, we are not sure if this is correctly attributed to Shankaracharya. It is not found in his well established complete works. Encoded and proofread by Dinkar Deshpande, Sunder Hattangadi, NA
% Text title            : datta aShTachakrabIja
% File name             : dattAShTachakrabIja.itx
% itxtitle              : dattAtreya aShTachakrabIjastotram athavA shrIdattaShaTchakrastotram athavA ajapAjapastotram (shaNkarAchAryavirachitam)
% engtitle              : Dattatreya aShTachakrabIjastotram
% Category              : deities_misc, dattatreya, stotra, shankarAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinkar Deshpande
% Proofread by          : Dinkar Deshpande
% Indexextra            : (Manuscripts 1, 2)
% Latest update         : April 25, 2010, April 2, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org