दत्तात्मपूजास्तोत्रम्
श्रीगणेशाय नमः ॥
अजितामृत योगनिद्रिताच्युत शक्तेः स्वकृतातिमोहित ।
द्युमुखे श्रुतिबन्दिगीततो भगवञ्जागृहि जागृहि त्र्यधीट् ॥ १॥
अथ ध्यानम् ।
यतोऽस्य जनताद्यज स्ववशमाय आद्यो विभुः
स्वराट् सकलविद्गुरुः स सुखसच्चिदात्मा प्रभुः ।
असंसृतिरूप उज्झितमलोऽमुमैक्याप्तये
निवर्त्य नयनं निषेधविधिवाक्यतश्चिन्तये ॥ २॥
कार्याक्षमान्वीक्ष्य पृथग्युतान्वा योऽनुप्रविश्यापि विभुर्निजांशात् ।
निन्ये प्रभुत्वं हि महन्मखांस्तमुपाह्वये त्रीशमवन्यचित्तः ॥ ३॥
अनोजज्जवीयो हृदोऽप्याप्नुवन्नो सुराः पूर्वमर्शत्पराञ्चोऽपि तिष्ठत् ।
परान्धावतोऽत्येति यद्व्यसनं ते त्र्यधीशाऽर्पितं चित्तमस्तान्यवृत्ति ॥ ४॥
राहोः शीर्षादौपचारिकभिदा विष्णो पदं त्रीश ते
प्रत्यक्त्वाच्च निसर्गशुद्धमपि सन् मायांशतोऽशुद्धवत् ।
भातं मूढधिया तदर्थममलं ज्ञानामृतं यत्नतो
ध्यामत्रेऽत्र हिरण्मये विनिहितं पाद्यं गृहाणात्मभ ॥ ५॥
देवाचार्यप्रसादप्रजनितसुरसम्पत्तिसद्रत्नजात-
श्रेण्याढ्ये मञ्जुलेऽस्मिन्नतितरविमले भाजने वै विशाले ।
धृतभजनजलाद्वेष्टृताद्यर्थजाले
स्वर्घ्यं सम्पादितं ते त्र्यधिप परम भोः स्वीकुरुष्वाप्तकाम ॥ ६॥
विधिवच्छ्रवणादि यत्कृतं ते त्र्यधिपा भव मे प्रसीद शम्भो ।
द्विदविधावरणाम्बु तेऽर्पितं सत्कृपयाऽऽचमनं कुरुष्व तेन ॥ ७॥
प्रवचनादिसुदुर्लभता श्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते ।
परमभक्तिसुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम् ॥ ८॥
यत्किञ्चिज्जगति त्रीश तत्त्वयाऽऽवास्यमीश ते ।
वस्त्रत्वेनार्पितं तेन परानन्दार्हतास्तु मे ॥ ९॥
यद्ब्रह्मसूत्रं त्रिवृतं कृत्वा समन्त्रं त्रिप सस्वन्त्रम् ।
दत्तं सुमित्रं भजते न चात्र सन्त्रसुपात्रं कुरुमाऽन्यतन्त्रम् ॥ १०॥
आह्लादनं चन्दनमुच्यते तत्सत्यर्तरूपं न ततः परं ते ।
प्रेष्ठं त्र्यधीशागुण तेन नूनमालेपनं ते प्रकरोमि भक्त्या ॥ ११॥
भगवंस्त्र्यधिप प्रददामि मुदे सुमनः सुमनः सकलार्थविदे ।
खलु तुभ्यममूल्यमघौघभिदे सुमनः सुमनस्कमनन्यहृदे ॥ १२॥
योगानलेऽत्र बलदर्पपरिग्रहाहङ्काराभिलाषममताप्रतिघांश्च दग्ध्वा ।
धूपोऽयमुत्तमतमोऽर्पित आर्यशान्तिद्वारा त्र्यधीश पदपर्यवसाय्यसौ ते ॥ १३॥
सोऽहम्भावप्रोज्वलज्ज्ञानदीपो मूलाज्ञानध्वान्तसम्पातहृत्यै ।
स्थेयान्भास्वाँश्छाश्वतस्त्रीश तुभ्यं स्वात्मज्योतिर्दत्त एतं गृहाण ॥ १४॥
यस्य ब्रह्मक्षत्रे मित्रे ग्रासो मृत्युर्लेह्यं पेयम् ।
क्वान्वेष्टव्यं तस्मै कस्मै नैवेद्यार्थं दत्तं द्वैतम् ॥ १५॥
त्रीश तेऽद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका ।
निर्विकल्पकसमाधितः पुरा रञ्जिकाऽस्तु भवभञ्जिका वरा ॥ १६॥
त्वं त्रीशाहमहं त्वमित्यवगते स्थेम्ने निदिध्यासना-
त्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम् ।
तद्ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन् व्याहरे-
त्तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम् ॥ १७॥
असकृदभिहिता तेऽनेकजन्माप्तपुण्यैः प्रणतिविततिरेषा द्वैतशेषा विशेषा ।
त्वयि विनिहितमेतन्मेज्ञ सर्वं स्वकीयं त्र्यधिप जयतु पूजा त्वद्यशोमालिनीयम् ॥ १८॥
यन्मे न्यूनं सम्मतं स्थूलदृष्ट्या भूमन् तेऽनुक्रोशपीयूषवृष्ट्या ।
नित्यं प्रेयः स्वप्रभं शालिनीयं तस्याभूत्सम्पूर्णता शालिनीयम् ॥ १९॥
रोधनं द्व्यात्मनः शोधनं द्व्यात्मनः पूजनं त्र्यात्मनो भोजनं स्वात्मनः ।
यत्र सैषाऽऽत्मपूजाऽस्तु कण्ठे सतां स्रग्विणी मा परा स्त्रीव कण्ठे सताम् ॥ २०॥
इति श्रीमद्वासुदेवानन्दसरस्वतीविरचिताऽऽत्मपूजास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com