श्रीदत्तात्रेयस्तोत्रम् १०
%१२०
जन्माद्यस्य यतो यतो जगदिदं शास्त्रं च शास्त्रप्रमं
यत्तच्छास्त्रसमन्वितं मतिहितं वेद्यं विनष्टभ्रमम् ॥
दत्ताख्यं तदु माययाऽस्य तु मया शार्दूलविक्रीडितम्
प्रारब्धं रुरुणेव मन्दमतिना स्तोत्रं तदस्त्वीडितम् ॥ १॥
ईक्षापूर्वमचिन्त्यशक्तिरसृजद्विश्वं य एको विभुः ॥
साध्व्याः शापमृषेश्च लोकविपदो द्राग्वारयन्त्याः प्रभुः ॥
पत्न्या अत्रिमुनेस्तपस्विन इतस्त्रेधार्भतां निर्मलम् ।
दुर्वासःशशिदत्तसंज्ञित इनः कुर्यात्स नो मङ्गलम् ॥ २॥
कष्टाद्दीपकशिष्यवन्निजगुरुं श्रीवेदधर्माह्वयम् ॥
रुष्टं रुग्णमहो निषेव्य वरदं विश्वेशहर्याह्वयम् ॥
सोऽनादृत्य सुरद्वयं स्वगुरुतो वव्रे यशोस्यामलम् ।
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ३॥
प्रह्लादः क्षुधितातिथिद्विजनुषः शप्तोऽसुरत्वं गतः ॥
कृत्वाऽजेन रणं क्षणं हतमतिः सोऽनात्मवित्वाद्गतः ॥
यं भक्त्या शरणं यतोऽलभदिमामान्वीक्षिकीं निश्चलम् ।
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ४॥
यं साध्याभिधदेवता उपगतास्ताभ्यो जगादामृतं
यो दुःसङ्गनिवृत्तिपूर्वकमरं धैर्यं तितिक्षामृतम् ॥
शान्ति चापि तपोऽन्तरङ्गकतया मायानियन्ताऽचलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ५॥
यं वर्णाश्रमलिङ्गहीनममलं नग्नं स्थितं सावलं
नागः पिङ्गल ऊच आश्रममिदं किं ते वदेत्याह तम् ॥
योऽसौ पञ्चममाश्रमं समदृशः पूतस्य मे हीत्यलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ६॥
यो बुद्ध्याश्रितभूनगादिगुरुत आदेयहेयात्मकं
शान्त्यादिप्रदशिक्षणं च यदवे पृष्टो जगौ स्वार्जितम् ॥
आत्मैवात्मगुरुः किलेति च यतो योऽदर्शयद्व्यर्गलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ७॥
निष्ठां वीक्ष्य पुरा पुरारिरुभयीं योगर्द्धिमुच्चैर्ददौ
बाहूनां च सहस्रमाजिमरणं यश्चार्जुनायोद्गतिम् ॥
वन्दे भार्गवरामकामदमरं श्रीरेणुकाभीष्टदं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ८॥
रक्षः प्रत्युपकार्यदर्शयदहो त्रिर्विष्णुदत्ताय यं
दुर्दर्शोऽपि निमन्त्रितोऽग्निरवियुक् श्राद्धान्नभुक् सान्वयम् ॥
तं रक्षोऽप्यनयन्निजं पदमदो मोदात्मकं सोज्ज्वलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ९॥
भिक्षित्वान्नमुपादिशद्वरममूनन्वागतब्रह्मणे
यैः सप्तग्रहमुक्त आस मनुभिर्ब्रह्मात्मजो ब्रह्मणे ॥
तस्मै दुर्ग्रहनिग्रहाय महसे कुर्मो नमो मङ्गलम्
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ १०॥
आयुराजवरप्रदोऽपि नहुषो हुण्डेन मायाविना
तत्पोतं हृतमाशु हन्तुमजितो योऽरक्षदार्तिं विना ॥
पित्रोर्योगमकारयच्च जयिना तेनेष्टदोऽसावलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ११॥
भ्रात्राऽजौ विजितो विचित्रचरितस्वाम्बार्पितश्लोकत-
श्चालर्कः शरणं यमाप कृपया साष्टाङ्गयोगं सवित् ॥
तस्मै येन मदालसाभुव उपादिष्टो वरिष्ठोऽमलं
दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ १२॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।