श्रीदत्तप्रार्थना

श्रीदत्तप्रार्थना

(पृथ्वीवृत्तम्) श्वेतं कथमहो न मे हृदयदारकं रोदनं दायाब्धिरपि सर्वविद्द्रवसि नो कथं हे प्रभो । अहं विरहकातरो भवभयातुरः प्रार्थये द्युतिस्वभक्तभवनाशनो द्युतमते न किं धावसि ॥ १॥ न किं हरिहरादयः शरणभक्तचित्तार्थदाः किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् । त्रिमूर्तिरपि भो यतस्त्वमिह तत्प्रसिद्धं भुवि गुरो श‍ृणु भवार्थिहन्कुरु कृपां च मामुद्धर ॥ २॥ स्वरूपमिति भावनं त्वयि यतस्त्रयाणामपि तवाङ्घ्रिभजनाद्विधेर्हरिरथो हरः शर्मदाः । तव त्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ ३॥ उपाधिपदलाञ्छनाद्बहु विलज्जितैस्तैस्त्रिभि- र्यदा प्रकटिता निजस्थितिरथावतारस्तव । त्रिमूर्तिनिजरूपतो विमलरूपमादर्शय- त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ ४॥ असङ्गमतिनिर्मलं जगति निर्गुणं ब्रह्मय- त्रिमूर्तिपदमद्वयं प्रकटितं यदासीत्त्वया । तदेव सकलस्तवा मम च शुद्धरूपं यतो गुरो तव पदं विना मम न कोऽपि चाऽत्राश्रयः ॥ ५॥ न जीवजगदीश्वराः किल तथैव योषित्पुमा- नहं प्रतितनौ च यत्स्फुरति भूमरूपं शिवम् । असङ्गमतिनिर्मलं सुखघनं परं ब्रह्मत- द्गुरो तव मुखात्कदा भवति तत्त्वमेतच्छ्रुतम् ॥ ६॥ त्रिमूर्तिपदमद्वयं सुविमलं स्वरूपं पुरा स्वभक्तभवमुक्तये जगति दत्तवांस्त्वं यतः । स्वदत्त इति नाम ते भवति किं मृषा तद्भुवि स्वरूपमपि दातुमत्र न च किं किलागम्यते ॥ ७॥ महेन्द्रविधिचक्रधृग्भवपदानि नो याच्यते विषं मम तु तत्सुखं तनुहृदिन्द्रियैर्यद्भवेत् । अहो भवभयात्मकं भ्रममयं तनोर्वैभवं रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ ८॥ गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा । त्वदीयकृपया बली निजपदं वितन्वन्भुवि कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ ९॥ गुरो न तव दर्शनं विपुलदीर्घकालो गतः कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् । अयोग्यमपि पाहि मां करुणयाऽतिदीनोऽस्म्यहं गुरोतिदयया युतो झटिति दर्शनं देहि मे ॥ १०॥ यथैव रघुनाथसच्चरणतस्त्वहल्या सती नवोढभविताऽमलोऽहमपि तेङ्घ्रिपद्मात्तथा । प्रभो प्रणतदुःखहन्करुणसागरस्त्वं यतः स्वभक्तजनपावनं चरणदर्शनं देहि मे ॥ ११॥ गुरो ह्यतनुरेव भोस्त्वमपि नामरूपं न ते उपासकविमुक्तये जगति रूपदृक्त्वं विभो । विना सगुणरूपतस्तव किमस्ति जीवोन्नति- र्न मुक्तिरथ नो तथा विरतिरेष बोधोदयः तृषार्तजनजीवनं क्षुधितषड्रसान्नं शुभम् ॥ १२॥ मुमूर्ष्वमृतमेव मे किल दरिद्रिणस्त्वं निधिः । त्वमन्धनयनं तथा जरठहस्तयष्टिश्च मे सुतप्तभुवि वृष्टिवत्तव हि दर्शनं प्रार्थये ॥ १३॥ स्फुटं स्तवनतोऽपि मे तव च वाक्परत्वं गुरो तथैव तव चिन्तने तव च हृत्परत्वं स्मृतम् । स्वरूपममलं ततं न तव विस्मृतिं यात्रया तथापि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ १४॥ अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचि- द्यदेक परमाऽद्वयं त्वदसि मायिकं न त्वयि । किमेवमतिदुःखिनं त्वदनुस्वरूपं वदे- त्सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ १५॥ न रूपधरणं तवास्ति खलु बाधकं सद्गुरो ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः । वपुरहमिति स्फुरेद्यदि भवेत्स बद्धो भवे- न्निजात्मपदवीं ददत्किमिति देहरूपो भवेः ॥ १६॥ जलं न च हिमेन वा न कटकैः सुवर्णं तथा विभिन्नमुपलश्च नो मृदपि चन्दनं मूर्तितः । विनष्टमपि हन्त नो विकृतिमत्प्रसिद्धं भुवि परन्तु जगतोऽमुना बहु विशेषकार्यं खलु ॥ १७॥ तवास्ति ननु बाधकं हि यदि रूपदॄक्त्वं गुरो कथं जगति विश्रुतोऽसि भगवन्त्वमत्रेः सुतः । विलोभय न मां जडं खलु गुरोऽत्रमे त्वं गतिः प्रभो चिरय मा द्रुतं चरणदर्शनं देहि मे ॥ १८॥ तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं त्वदीयवदनप्रभा खलु निदर्शयेद्ब्रह्म तत् । सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं त्वदीयकरुणार्द्रदृक्सपदि मायिकं संहरेत् ॥ १९॥ यथा तृषितचातको जलददर्शनं काङ्क्षति यथैव विधुदर्शने कृतमतिश्चकोरः सदा । क्षुधार्दितशिशुर्यथा जगति मातरं वाञ्छति तथा विरहकातरश्चरणदर्शनं प्रार्थये ॥ २०॥ निराकृतिरहं कथं नु तनुधृग्भवेयं वद शरीरधरणेऽक्षमोऽहमिति मा गुरो वञ्चय । कदापि भवसीह भो न च विकारयुक्तं वपु- र्नचेदवतरेः स्वयं कथमिति स्वरूपं दिशेः ॥ २१॥ न भूरिति न वा जलं न च तथाऽनलोवाऽनिलो न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् । न पिण्डमपि विश्वको न च विराण्ण विश्वं ध्रुवं न जीव इति वासना रतिरथो न नारी नरः ॥ २२॥ न सा प्रकृतिरप्यहो त्वयि पुमान्जगत्सर्जनं चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् । न सूक्ष्मवियदादिकं न च तथा त्वपञ्चीकृतं न लिङ्गमपि नो महन्न च हिरण्यगर्भोऽपि वा ॥ २३॥ निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे न कारणमपीह तन्न च तथा तदव्याकृतम् । महेश इति जीवको किल न मायिको विद्यते स्वमातृपरमेऽखिलं कथमिदं च सम्भाव्यते ॥ २४॥ न बन्ध इति वामला अपि गुणा अविद्या तथा न कार्यमविकारणं जगदिदं न मायाऽपि वा । गुरोस्य तु विभावनं त्वयि यथैव रज्वामहे- र्न खं जलमुचा कृतिस्त्वमपि नैव प्रायाकृतिः ॥ २५॥ त्वया त्वदविकृत्पदं न च विदर्शितं वा यदा कथं नु विदितं भवेदिति च कोऽन्य एवाऽदिशेत् । तव स्मृतिरियं हि भोस्तव तनुर्न भेदोऽस्ति वा- मतो मम हृदीप्सितं कुरु च दर्शनं देहि मे ॥ २६॥ अहो घटयते गुरो घटितमेव माया तु या निरूपयितुमास्पदं न खलु सातिशङ्कात्मिका । सुविस्मयतनुश्च या भवति हन्त सत्यासती त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ २७॥ अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो मनस्तु बहु चञ्चलं भ्रमति दिग्वटे दुर्दमम् । न वज्रवपुरप्यहो भवति दुश्चरं नो तपो न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ २८॥ न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं न संस्कृतमथापि वा ललितवाङ्मयं प्राकृतम् । न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा गुरोऽतिजडबुद्धितोऽपि न च वेद्मि किं त्वत्प्रियम् ॥ २९॥ ऋतं हि कथयामि ते तनुसुखाय लुब्धोऽस्म्यहं भवेत्कथमुपोषणं व्रतमपि च कृच्छ्रादिकम् । अतीव किल दुर्बलो मम न निग्रहोऽस्ति क्वचि- दहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ ३०॥ गुणेन रहितोऽस्म्यहं किमपि ते भवेत्तुष्टये न कोऽपि खलु मत्समः सकलहीनदीनोऽस्म्यहम् । विलोक्य बत मां तथा त्यजसि चेत्कुतोऽन्याश्रय- स्त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ ३१॥ समर्थ इति विश्रुतोऽसि भुवि किं न शक्यं तव विनैव हि परीक्षणं करुणयैह मामुद्धर । अहं यदि समुद्धृतः किमपि नो भवं दुर्घटं सुसाध्यमखिलं ततः कुरु दयां सुकीर्तिं भज ॥ ३२॥ अतीव विनतोऽस्म्यहं विषयमोहपाशार्दितः क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो । जलाद्बहिरितस्ततो भवति किं सुखी मत्स्यक- स्तथैव बहिरागतो बत तव स्थितेरस्म्यहम् ॥ ३३॥ उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं त्वयैव निरुपाधिकः सुविमलो भवेयं गुरो । असङ्गमभिविद्य भोः सततमत्र मामुद्धर यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ ३४॥ स्वदैन्यमपि दर्शितं किल तथावयोर्नान्तरं त्वयाऽऽवरणनाशनं तदपि चात्मसम्बन्धतः । न किं भवसि गोचरो किमति कार्यमेवं पुनः न वेद्मि कृपयाऽऽदिश त्वमसि भो दयाब्धिः सदा ॥ ३५॥ प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि अशक्त इति निर्घृणोऽसि बत तेऽपकीर्तिर्भवेत् । मदीयमपि जीवनं भवति गर्हितं लौकिकै- र्जहीहि न च मां गुरो करुणयैव चाङ्गीकुरु ॥ ३६॥ वदेयमिति किं प्रभो सकलहृद्गतं वेत्सि यत् स्तुवे किमधिकं स्तुतेः श्रुतिरहो गुरो त्वां सदा । अनेकसुगुणैर्वृता मदधिकाश्च भक्तास्तव त्वमेव भुवि केवलो मम तु कोऽपि नान्याश्रयः ॥ ३७॥ विचार्य सकलं प्रभो कुरु तथा यथा त्वन्मति- र्बलात्किमिह शक्यते सविनयेन भोः प्रार्थये । अनाथमभिविद्य मां कुरु सनाथमस्मिञ्जने गुरोऽतिदययाशु ते चरणदर्शनं देहि मे ॥ ३८॥ सनातन इति श्रुतो भवति विश्वसेतुस्तु यः भवत्प्रभवपावनोऽपि भुवि नष्टकल्पोऽभवत् । समानगुणशीलयोर्भवति नौनहानं हितं यथाहमधुना तथैव बत सोऽपि धर्मो बलः ॥ ३९॥ यदाहमिति चोद्धृतो भवति सोऽपि सन्तारितः प्रभो करुणयाऽवयोः कुरु विचार्य संरक्षणम् । त्वदीयपददर्शनं हि तव शक्तिदानं बृह- त्त्वदीय करुणाबलं जगति तेऽवतारो ध्रुवम् ॥ ४०॥ न वेदविधिराश्रमो विमलकर्मवर्णोऽथवा विधर्मवशवर्तिनं तु बहुमान्यतेऽत्राधुना । सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ ४१॥ स्वभक्तजनदुर्दशा कथमियं च सह्या तव मुमुक्षुजनजीवनं बहुविधैव विघ्नावृतम् । विलोक्य परमार्थिनं बत हसन्ति निन्दन्ति च सुरा अपि चलन्ति भो बहुबलाच्च कामादिभिः ॥ ४२॥ अतीव खलु दुर्जया सततदूषिता दुश्चरा सदैव सुसमाहिता विषयवासनाऽऽयोजने । अहो दुरितरूपिणी तनुमतिस्त्वविद्या प्रभो तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ ४३॥ कलौ तु परमार्थिनां जगति जीवनं कष्टदं अहं खलु न तत्सहे तव तदर्थमेवाश्रयः । परस्वहितकारिणस्त्वमिह मे सहायो भव गुरोतिदयया युतस्तव पदाम्बुजं दर्शय ॥ ४४॥ स्वयं हि न सहायकृद्धवसि साधकानां यदि वृथा किमिति राजसे त्वमिह दत्तनाम्ना भुवि । अनन्तसुखरूपिणः पतितपावनस्य प्रभोः किमीप्सितसुखं च ते जगति जीवमोक्षादृते ॥ ४५॥ क्षमस्व दयया युतो यदि भवेद्दुरुक्तिर्मम क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि । न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां त्वमेव मम जीवनं गतिरपीह चात्मा ध्रुवम् ॥ ४६॥ दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः स्वतन्त्रसकलार्थवित्सुनिपुणो जगत्पावनः । तवात्र जगतीतले प्रकटितं च यत्स्वेञ्च्छया स्वभक्तजनमुक्तये स्फुटमिदं हि दत्त प्रभो ॥ ४७॥ विलम्बय जगद्गुरो क्षणमपीह मा धावने त्वदीयपददर्शनाज्जगति मां सनाथं कुरु । अपावृणु विमोहनं सकलमायिकं बन्धनं त्वदीयसकलात्मके स्थिरपदे च मां स्थापय ॥ ४८॥ त्वदीयपददर्शनात्सकलदुःखशान्तिर्नृणां त्वदीयपदपङ्कजं दहति दुष्कृतं सञ्चितम् । कथं वसति तत्तृणं धगधगायमानेऽनले कथं स्थिरपदं तमो गगनमध्यसूर्यातपे ॥ ४९॥ किमर्थमिति विशङ्कसे न स किमर्थमायासि भो न जीवति सुदुष्कृतं किमपि चेत्तवाग्रे गुरो । किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो त्वमेव परमं बृहत्तव समो न को वाऽधिकः ॥ ५०॥ न देवरजनीचरौ मनुजवन्ययक्षादिका ः क्षमाश्च खलु वारणे मनसि चेत्तवास्ति प्रभो । विधेर्न च कुयोगतो न च भवेद्ग्रहादेस्तथा किमस्ति बत विघ्नकृत्तव न दर्शनं सद्गुरो ॥ ५१॥ न कर्मसचिवोऽसि भोः न घटिमीक्षसे चेत्प्रभो न योग इति वक्षि चेत्तदपि ते न युक्तं भवेत् । स्वतन्त्रनिरुपाधिकः सकलमङ्गलस्त्वं यतः विमोहय न मां गुरो सपदि दर्शनं देहि मे ॥ ५२॥ किमर्थमिति निर्घृणो भवसि भो दयाब्धे गुरो दयाब्धिरपि निर्दयो मम न वाग्वदेत्तत्त्वतः । किमर्थमतिदुर्लभं चरणदर्शनं ते वद निरूपयितुमप्यहोऽत्र तव हेतुमाया हि भो ॥ ५३॥ अहो न च निवारितो भवति संशयोऽयं यदा न सोऽहमिति वेद यः पशुसमः स वेदो वदत् । ऋतं हि कथयामि ते मम न विस्मृतं तन्मनाक् अहं त्वमिति निश्चयो मम न संशयोऽस्मिन् क्वचित् ॥ ५४॥ न मृत्युवशगो गुरोऽहमिति भेदभावेन भो न भीरपि भवेत्प्रभो भवति साद्वितीयाद्यतः । अहं त्वमिति चेत्कथं चिरयसेऽञ्जसा मां वद किमर्थमिति संशयो जहिहि ते पदं दर्शय ॥ ५५॥ अहो जगदिदं गुरो विविधनामरूपात्मकं तथापि निजमातृमेव हि सुवेद्यहं तद्यथा । तथैव तव दर्शनान्मम न भिन्नभावं क्वचित् तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ ५६॥ अधर्मपथगामिनो बहुमतास्त्विदानीन्तनैः अधर्मरुचयो जना हि बहुशो धुरीणाः प्रभो । अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो ध्रुवं हि पददर्शनं तव नवावतारो भुवि ॥ ५७॥ गुरो चिरय मा प्रभो त्वरय दर्शनं पाहि मां ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् । अतिप्रणतवत्सलोऽसि किल विश्वकल्याणकृत् मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ ५८॥ (शार्दूलविक्रीडितवृत्तम्) अज्ञानान्धनिवारणाम्बरमणिं कामद्विपारिं हरिं विघ्नव्यालकरालकालगरुडं दुर्दैवदावानलम् । हृद्भूमिस्थितवासनानगपविं तापत्रयेन्दुं शिवं सद्भक्तेप्सितकल्पवृक्षमचलं दत्तावधूतं भजे ॥ ५९॥ (वसन्ततिलकवृत्तम्) स्तोत्रं च यः पठति भक्तियुतो मनुष्यः नित्यं त्रिवारमपि दत्तमना विशुद्धः । तस्मै ददाति निजदर्शनमात्मनिष्ठां अह्नाय दत्तगुरुरत्र न चिन्तनीयम् ॥ ६०॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं दत्तप्रार्थनं सम्पूर्णम् । दत्तजयन्ति - रचनास्थानं काफि उद्यानं, चिक्कमगळूरु संवत्सरः - १९४३ Proofread by Manish Gavkar
% Text title            : Shri Datta Prarthana
% File name             : dattaprArthanA.itx
% itxtitle              : dattaprArthanA (shrIdharasvAmIvirachitA)
% engtitle              : dattaprArthanA
% Category              : deities_misc, shrIdharasvAmI, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org