श्रीदत्तप्रार्थनाचतुष्कम्
श्रीगणेशाय नमः ॥
समस्तदोषशोषणं स्वभक्तचित्ततोषणं
निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् ।
त्रयीशिरोविमूषणं प्रदर्शितार्थदूषणं
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १॥
समस्तलोककारणं समस्तजीवधारणं
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् ।
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं
हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २॥
नमाम्यहं मुदास्पदं निवारिताखिलापदं
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरा मदं विहाय नित्यसम्मदं
प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३॥
प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने
स्वभक्तहृन्निकेतने सदाम्ब दुःखशातने ।
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता
त्वमेव मेऽखिलेहितार्थदोऽखिलार्तितोऽविता ॥ ४॥
इति श्रीमद्वासुदेवानन्दसरस्वतीविरचितं
श्रीदत्तात्रेयप्रार्थनाचतुष्कं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com