दत्तप्रबोधः
श्रीगणेशाय नमः ॥
नित्यो हि यद्य महिमा न हि मानमेति
स त्वं महेश भगवन्मघवन्मुखेड्य ।
उत्तिष्ठ तिष्टदमृतैरमृतैरिवोक्तै-
र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १॥
भक्तेषु जागृहि मुदा हिमुदारभावं
तल्पं विधाय सविशेषविशेषहेतो ।
यः शेष एष सकलः सकलः स्वगीतै-
स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २॥
दृष्ट्वा जनान् विविधकष्टवशान्दयालु-
स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः ।
अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं
बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३॥
आयात्यशेषविनुतोऽप्यवगाहनाय
दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् ।
क्षेत्रे तथैव कुरुसंज्ञक एत्य सिद्धा-
स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४॥
सन्ध्यामुपासितुमजोऽप्यधुना गमिष्य-
त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् ।
कृष्णातटेऽपि नरसिंहसुवाटिकायां
सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५॥
गान्धर्वसंज्ञकपुरेऽपि सुभाविकास्ते
ध्यानार्थमत्र भगवान्समुपैष्यतीति ।
मत्वास्थुराचरितसन्नियताप्लवाद्या
उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६॥
पुत्री दिवः खगगणान् सुचिरं प्रसुप्ता-
नुत्पातयत्यरुणगा अधिरुह्य तूषाः ।
काषायवस्त्रमपिधानमपावृणूद्य-
न्तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७॥
शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा-
भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः ।
अस्माभिरीश विदितो ह्युदितोऽयमेवं
चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८॥
द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः
प्रह्राद एष यदुरेष मदालसाजः ।
त्वां द्रष्ट्वकाम इतरे मुनयोऽपि चाह-
मुत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९॥
एवं प्रबुद्ध इव संस्तवनादभूत्स
मालां कमण्डलुमधो डमरुं त्रिशूलम् ।
चक्रं च शङ्खमुपरि स्वकरैर्दधानो
नित्यं स मामवतु भावितवासुदेवः ॥ १०॥
इति वासुदेवानन्दसरस्वतीविरचितो दत्तप्रबोधः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com