श्रीदत्तात्रेयस्तोत्रं २
॥ ॐ ॥
दत्तात्रेयं प्रियदैवतं सर्वात्मकं विश्वंभरम् ।
करुणार्णवं विपदाहरं चिन्मयं प्रणमाम्यहम् ॥ १॥
बालरूपं हास्यवदनं शंखचक्रयुतं प्रभुम् ।
धेनुसहितं त्रिशुलपाणिं चिन्मयं प्रणमाम्यहम् ॥ २॥
षड्भुजं स्तवनप्रियं त्रिगुणात्मकं भवतारकम् ।
शिवकारकं सुरवंदितं चिन्मयं प्रणमाम्यहम् ॥ ३ ॥
प्रणवगायनतोषितं प्रणवपद्मैः पूजितम् ।
प्रणवात्मकं परमेश्वरं चिन्मयं प्रणमाम्यहम् ॥ ४॥
कोटिभास्करसदृशं तेजस्विनं तेजोमयम् ।
सद्गुरूं गुरूणां गुरूं चिन्मयं प्रणमाम्यहम् ॥ ५॥
विश्वनाटकचालकं ज्ञानगम्यं निर्गुणम् ।
भक्तकारणसंभूतं चिन्मयं प्रणमाम्यहम् ॥ ६॥
बालयोगिध्यानमग्नं त्रिविधतापनिवारकम् ।
दीननाथं सिद्धिदं चिन्मयं प्रणमाम्यहम् ॥ ७॥
जनकजननीबंधुसुहृदाः आप्तसर्वास्त्वं मम ।
एहि एहि स्मर्तृगामिन् चिन्मय प्रकटी भव ॥ ८॥
Encoded and proofread by
Dinkar Deshpande dinkar.deshpande@gmail.com
Sunder Hattangadi