श्रीदत्तात्रेयस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीसरस्वत्यै नमः । श्री गुरुभ्यो नमः ।
ॐ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य नारदऋषिः ।
दत्तात्रेयो देवता । अनुष्टुप्छन्दः ।
सकलकामनासिद्ध्यर्थे जपे विनियोगः ॥
नारद उवाच -
अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ १॥
मुण्डनं कौपिनं भस्मं योगपट्टं च धारयन् ।
शैली शृङ्गी तथा मुद्रा दण्ड पात्र जिनासनम् ॥ २॥
कन्थादो पञ्च आधारी कण्ठमालां च पादुकाम् ।
कर्णकुण्डलधारी च सिद्धोही भ्रमते महिम् ॥ ३॥
दत्तात्रेयो महादेवो विष्णुरूपो महेश्वरा ।
स्मरणात् सर्वपापानि नश्यन्ते नात्र संशयः ॥ ४॥
मातापूरनिवासी च देवो दत्तात्रेयो मुनिः ।
नित्य स्नानं प्रकुरुते भागीरथ्यां दिने दिने ॥ ५॥
दत्तात्रेयो हरिः साक्षात् वसन्ते सह्यपर्वते ।
भक्तानां वरदो नित्यं सः देवश्चिन्तितं मया ॥ ६॥
नागहार धरो देवो मुकुटादि समन्विता ।
पुष्पमालाधरो देवो सः देवो वरदो मम ॥ ७॥
अत्रिजो देवदेवेषो मातुर्लिङ्गधर प्रभु ।
सर्वसौभाग्ययुक्तश्च भक्तानां वरदः सदा ॥ ८॥
इति श्रीनारदोक्तं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ॥