दयानन्दऋषिस्तवः
एकोऽपिसन्निनिर्भयवीरवर्यः समस्तपाखण्डमखण्डयद्यः ।
सत्यव्रतश्रेष्ठममुं महान्तं वयं दयानन्दमृषिं नमामः ॥ १॥
विषं प्रदायाप्यपकारकर्त्रे योऽदाद्धनन्तस्यहि रक्षणार्थम् ।
प्रेम्णा स्वशत्रूनपि मोहयन्तं तं श्रीदयानन्दमृषिं नमामः ॥ २॥
न यं कृतान्तोऽप्यशकद्विजेतुं यस्याग्रतोबद्धकरः सतस्थौ ।
योगाग्निनादग्धसमस्तदोषं तं श्रीदयानन्दमृषिं नमामः ॥ ३॥
यद्यङ्गुलीरप्यरयादहेयुस्तथापियास्यामिन तत्रचिन्ताम् ।
इत्यादि वाक्यं समुदाहरन्तं तं श्रीदयानन्दमृषिं नमामः ॥ ४॥
दयाया यः सिन्धुर्निगमविहिताचारनिरतो
विलुप्तंसद्धर्मं पुनरपि समुद्धर्तुमनिशम् ।
दिवारात्रं येते यतिवरगुणग्रामसहिता
दयनन्दो योगी विमलचरितोऽसौ विजयते ॥ ५॥
यदीयं वैदुष्यं श्रुतिविषयकं लोकविदितं,
यदीयं योगित्वं कलियुग जनेष्वस्त्यनुपमम् ।
हितार्थं सर्वेषामिह निजसुखंयोऽपि विजहौ
दयानन्दोयोगी विमल चरितोऽसौ विजयते ॥ ६॥
जनाःसर्वेनूनं भुवनजनितुः पुत्रसदृशाः,
अतोऽन्योऽन्यंस्नेहः सकलमनुजानां समुचितः ।
न कोऽप्यस्पृश्योना इतिविमलभावं प्रचुरयन्
दयानन्दोयोगी सरलहृदयोऽसौ विजयते ॥ ७॥
स्वराज्यं सर्वेभ्यः परमसुखदं शान्तिजनकं
स्वदेशीयो धार्यः सकल सुजनैर्वस्त्रनिवहः ।
सुराष्ट्रीयान् भावान् दिशिदिशि दिशन् भीतिरहितो
दयानन्दो योगी विमलचरितोऽसौ विजयते ॥ ८॥
इति पं. धर्मदेवः सिद्धान्तालङ्कारो विद्यावाचस्पतिः
विरचितः दयानन्दऋषिस्तवः सम्पूर्णः ।