श्रीदेशिकाष्टकम्
श्रीगणेशाय नमः । श्री गुरुभ्यो नमः ।
विश्वदर्पणदृश्यतासमतामुपादिशदादरात्
विश्ववन्दितपादपङ्कजतत्त्वबोधनिदानवित् ।
विश्वदेशिकराजराण्मम मानसे परिवर्ततां
तं गुरुं कृतहन्तृताघनिवृत्तये स्मरतास्तिकाः ॥ १॥
योहिभट्टमुखेननाशितबौद्धवृन्दजगत् सुरै-
रर्थितोऽवततार वैदिकतत्त्वबोधविवृद्धये ।
लीलयाऽखिलवेदशास्त्रविदादिमाश्रमचर्यया
दीनपोषणमातृतोषण विस्मिताखिलपावनः ॥ २॥
साधुबोधितमातृसम्मतियोगसेवितयोगिराट्
नर्मदाझरनिग्रहग्रहदेशिकानुमतो गुरुः ।
गाङ्गरोधसि संवसन्मुनिमण्डलैः परिशीलयन्
सूत्रवेदशिरस्सुगीतसनत्सुजातसहस्रकम् ॥ ३॥
भाष्यभूषितमागताब्जपदादिनेयमबोधयत्
व्यासतोषणवादघोरणिरीशदत्तवरेड्यराट् ।
भट्टपादनिदेशमण्डनमिश्रवादविशारदो
भारतीमपि सञ्जयन्नमरूर्ग्जयन् नृहरिं स्तुवन् ॥ ४॥
शिष्यमण्डनखण्डिताखिलवादिवादविजृम्भणो
मूकमातृमुखालयाटनहस्तधात्रिनिषेवितः ।
ऋश्यशृङ्गपुरे वसन्नुरु शारदालयमातनोत्
पद्मपादहतार्थितोत्तमगात्रभैरवपूजनः ॥ ५॥
तोटकार्चितपादमर्दितपद्मगर्वसुजाह्नवी-
दर्शिताब्जपदागमोद्धृतभेदबुद्धिविनेयराट् ।
मातृसद्गतिसादरः कृतशापदायजनः श्रमात्
तीर्थयात्रसरोजपादसुकेरळेन्द्रमनःक्लमम् ॥ ६॥
सारगीर्भिरपास्य वीक्षितशिष्यकोटिकृतिक्रमः
सेतुकाञ्चिपुरादिसेवनशाक्तखण्डनदक्षधीः ।
अश्विबोधितपद्मधिक्कृतदुष्प्रयोगनिपीडनो
मोदमाननताङ्घ्रिदेशिकगौडपादनुमोदितः ॥ ७॥
पद्मदत्तकरावलम्बनमारुरोह स सर्ववि-
त्पीठमुत्तरदक्षिणो बहुवादिशारदयाऽऽदृतः ।
उष्णनद्यवगाहर्षितशिष्यपूजितपद्मभू -
नन्दिसेवितसोममूर्तिरुपाययौ रजतागमम् ॥ ८॥
देशिकाष्टकमष्टसिद्धिदमष्टमूर्तिकृतक्रमं
कष्टनाशनमिष्टदायकमष्टदिक्षु सुकीर्तिदम् ।
देशिकाय नमोऽस्तु ते मृतबालजीवदयाभुवे
कारणाय नमोऽस्तु ते परिपूरणाय नमोऽस्तु ते ॥
इति कृष्णराजपुरम् श्रीशङ्करदीक्षितैः प्रणीतं
श्रीदेशिकाष्टकं सम्पूर्णम् ।
Composed by Krishnarajapuram Shankara Deekshitar
as a summary of the life of Sri Adi Sankaracharya
Encoded by Aaditya Kalyanaraman
Proofread by Aaditya Kalyanaraman and Aruna Narayanan