धर्मशास्तासहस्रनामस्तोत्रम्
ॐ पूर्णपुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ।
श्रीधर्मशास्तासहस्रनामस्तोत्रम् ।
अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य
अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता ।
ह्रां बिजं, ह्रीं शक्तिः, ह्रूं कीलकम् ।
श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥
अथाङ्गन्यासः ।
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥
ध्यानम् -
ध्यायेदुमापतिरमापतिभाग्यपुत्रं
वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकविश्ववपुषं मृगयाविनोदं
वाञ्छानुरूपफलदं वरभुतनाथम् ॥
आश्रयामकोमलविशालतनुं विचित्र-
वासो वसानमरुणोत्पलदामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
पञ्चोपचाराः ।
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ।
मूलमन्त्रः - ओं घ्रूं नमः पराय गोप्त्रे नमः ॥
ॐ नमो भगवते भूतनाथाय ।
ॐ शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रदश्शिवज्ञानी शैवधर्मसुरक्षकः ॥ १॥
शङ्खधारी सुराध्यक्षश्चन्द्रमौलिस्सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसंयुतः ॥ २॥
कल्याणः कोमलाङ्गश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ ३॥
जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादि शाक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ ४॥
जितेन्द्रियो जितक्रोधो जितदेवारिसञ्चयः ।
जैमिन्यादिर्षिसंसेव्यो जरामरणनाशकः ॥ ५॥
जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ ६॥
परमेष्ठी पशुपतिः पङ्कजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ ७॥
पवनादि सुरैः सेव्यः पञ्चब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ ८॥
ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ ९॥
गोरक्षको गोधनदो गजारुढो गजप्रियः ।
गजग्रिवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ १०॥
ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ ११॥
जटाधरो जलनिभो जैमिन्यादिर्षिपूजितः ।
जलन्धरनिहन्ता च शोणाक्षश्शोणवासकः ॥ १२॥
सुराधिपश्शोकहन्ता शोभाक्षस्सुर्यतैजसः ।
सुरार्चितस्सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ १३॥
सुज्योतिश्शरवीरघ्नः शरच्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ १४॥
हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः ।
हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥ १५॥
पावनः पावकनिभो भक्तपापविनाशनः ।
भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ १६॥
त्रिपुण्ड्रकस्त्रिनयनः त्रिपुण्ड्राङ्गितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ १७॥
देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ १८॥
धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः ॥ १९॥
स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसाम्पतिः ॥ २०॥
योगीश्वरो योगनिधिर्योगेशो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ २१॥
मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभश्च महावक्षा मनोहरमदार्चितः ॥ २२॥
महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ २३॥
मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥ २४॥
भिषग्भवानीपुत्रश्च भवतारणकारणः ।
नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ २५॥
नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ २६॥
राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो राजनीचरदारणः ॥ २७॥
ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ २८॥
हयप्रियोहयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ २९॥
वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशाम्पतिः ॥ ३०॥
वेणुनादो वरग्रिवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ ३१॥
वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदविधिर्वंशदेवो वराङ्गकः ॥ ३२॥
ह्रीङ्कारो ह्रीम्मना हृष्टो हिरण्यः हेमसम्भवः ।
हूताशो हूतनिष्पन्नो हूँकाराकृतिसुप्रभः ॥ ३३॥
हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ ३४॥
हंसमन्त्रश्च हुतभुक् हेमाम्बरस्सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ ३५॥
क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्ताभिषिक्तो मानी च मन्त्ररूपोः मृडो मनुः ॥ ३६॥
मेधावी मेदसो मुष्णुः मकरो मकरालयः ।
मार्त्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ ३७॥
श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥ ३८॥
सुदन्तस्सुकपोलश्च षड्वर्णस्सम्पदोऽधिपः ।
गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ ३९॥
कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ ४०॥
कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ ४१॥
बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः ।
सुन्दरस्सुमुखः स्वच्छः सफासश्च सफाकरः ॥ ४२॥
शरानिवृत्तश्शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ ४३॥
अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ ४४॥
बाडवापूरितमुखो व्यापको विषमोचकः ।
वसन्तस्समरक्रुद्धः पुङ्गवः पङ्गजासनः ॥ ४५॥
विश्वदर्पो निश्चितज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ ४६॥
सिंहास्यस्सिंहरूपश्च सेनापतिस्सकारकः ।
सनातनस्सिद्धरूपी सिद्धधर्मपरायणः ॥ ४७॥
आदित्यरूपश्चापधरश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ ४८॥
देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिङ्गलाक्षः पिच्छचूडः फणामणिविभूषितः ॥ ४९॥
भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पञ्चहस्तेन सम्पूज्यः पङ्चबाणेनसेवितः ॥ ५०॥
भवश्शर्वो भानुमयः प्राजापत्यस्वरुपकः ।
स्वच्छन्दश्छन्दश्शस्त्रज्ञो दान्तो देवो मनुः प्रभुः ॥ ५१॥
दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षश्शरोत्पन्नः शतानन्दसमागमः ॥ ५२॥
गृध्राद्रिवासो गम्भिरो गन्धग्राहोगणेश्वरः ।
गोमेधो गण्ढकावासो गोकुलैः परिवारितः ॥ ५३॥
परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ ५४॥
वृत्ताकारो वेणुपाणीर्वीणादण्डधरोहरः ।
हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥ ५५॥
पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ ५६॥
लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ ५७॥
भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः ।
वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥ ५८॥
अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ ५९॥
विपिनो वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ ६०॥
वज्रकान्तो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ ६१॥
कोलाहलः क्रोडनेत्रःक्रोडास्यश्च कपालभृत् ।
कुञ्जरेड्यो मञ्जुवासाःक्रियामानः क्रियाप्रदः ॥ ६२॥
क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥ ६३॥
गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ ६४॥
पितृसच्चरितः प्रेष्ठः पापभस्मः पुनश्चुचिः ।
भालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ ६५॥
फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ ६६॥
चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥ ६७॥
मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववन्द्यश्चतारणः ॥ ६८॥
यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ ६९॥
दामोदरोदामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यश्शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ ७०॥
गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ ७१॥
आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ ७२॥
घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ ७३॥
छद्महीनश्शशिरदः शत्रूणां पतिरङ्गिराः । (शशिधरः)
चराचरमयश्शान्तः शरभेशश्शतातपः ॥ ७४॥
वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ ७५॥
भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ ७६॥
नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥ ७७॥
निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः ।
सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥ ७८॥
सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपस्सुलभस्स्वर्गः शचीनाथेन पूजितः ॥ ७९॥
काकीनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्धी शतस्त्रीशस्तश्रीपालश्च तारकः ॥ ८०॥
ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ ८१॥
मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ ८२॥
महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ ८३॥
स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ ८४॥
अनाहताब्जरसिको ह्रीङ्काररसपेशलः ।
भूमध्यवासो भूकान्तो भरद्वाजप्रपूजितः ॥ ८५॥
सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ ८६॥
धन्यश्च धनभृद्दाहो धनदानकराम्बुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ ८७॥
माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ ८८॥
पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिञ्चोवरवक्षणः ॥ ८९॥
विज्ञानकलिकावृन्दो विश्वरूपप्रदर्शकः ।
डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ ९०॥
द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ ९१॥
लाकिनी हाकिनीलब्धो लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नःकर्मबन्धविमोचकः ॥ ९२॥
मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ ९३॥
डाकीनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ ९४॥
सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः ।
मिध्याजगदधिष्टानो मुक्तिदो मुक्तिरूपकः ॥ ९५॥
मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ ९६॥
सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च फलपाणिप्रपूजितः ॥ ९७॥
अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ ९८॥
पञ्चाननः पङ्चगूढः पङ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ ९९॥
पपारिः परमोदारः प्रजेशः पङ्कनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ १००॥
नागाधीशो नष्टपाप इष्टनामविधायकः ।
पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ॥ १०१॥
पद्माक्षोः पद्मवदनः पावकाभः प्रियङ्करः ।
कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ॥ १०२॥
गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीदितिः ।
दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥ १०३॥
सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः ।
कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ॥ १०४॥
दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ।
भेरीनादप्रियो वृन्दो बृहत्सेनः सुपालकः ॥ १०५॥
सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ।
तिमिरघ्नो मिहिराभो महानीलसमप्रभः ॥ १०६॥
श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रःश्रीतरुप्रियः ।
लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ॥ १०७॥
बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः ।
आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ॥ १०८॥
मरुद्धृतो महाखर्वश्चीरवासाः शिखिप्रियः ।
आयुष्माननघो दूत आयुर्वेदपरायणः ॥ १०९॥
हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ।
अश्ववेगोऽश्वहृदयो हयधैर्यो फलप्रदः ॥ ११०॥
सुमुखो दुर्मुखो विघ्नोनिर्विघ्नो विघ्ननाशनः ।
आर्यो नाथोऽर्यमाभासःफाल्गुनः भाललोचनः ॥ १११॥
अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ।
किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥ ११२॥
ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः ।
वीरमार्त्ताण्डवरदो वीरबाहुश्च पूर्वजः ॥ ११३॥
वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ।
नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥ ११४॥
वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः ।
उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥ ११५॥
शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः ।
कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ॥ ११६॥
मत्तनागप्रियो नेता नागगन्धर्वपूजितः ।
सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥ ११७॥
चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ।
चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ॥ ११८॥
मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ।
नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥ ११९॥
केदारेशः किरातश्च कालात्मा कल्पविग्रहः ।
कल्पान्तभैरवाराध्यः कङ्कपत्रशरायुधः ॥ १२०॥
कलाकाष्ठस्वरूपश्च ॠतुवर्षादिमासवान् ।
दिनेशमण्डलावासो वासवादिप्रपूजितः ॥ १२१॥
बहुलास्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः ।
चिन्ताहीनश्चिदाक्रान्तः चारुपालोहलायुधः ॥ १२२॥
बन्दूककुसुमप्रख्यः परगर्वविभञ्जनः ।
विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ॥ १२३॥
सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्ज्जितः ।
तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ॥ १२४॥
लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ।
लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥ १२५॥
त्रस्तत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ।
वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ॥ १२६॥
मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ।
आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥ १२७॥
गानप्रियो गानलोलो महेशो विज्ञमानसः ।
गिरीजास्तन्यरसिको गिरिराजवरस्तुतः ॥ १२८॥
पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ।
सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥ १२९॥
रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः ।
कनत्कालेयसुप्रीतः क्रौञ्चगर्वविनाशनः ॥ १३०॥
अशेषजनसम्मोह आयुर्विद्याफलप्रदः ।
अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ॥ १३१॥
केतकीकुसुमप्रीतः कलभैः परिवारितः ।
केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ॥ १३२॥
चातकालापसन्तुष्टश्चमरीमृगसेवितः ।
आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ॥ १३३॥
धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ।
मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ॥ १३४॥
तैलाभिषिक्तसुशीरास्तर्जनीमुद्रिकायुतः ।
तटातकामनः प्रीतस्तमोग़उणविनाशनः ॥ १३५॥
अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ।
षाड्गुण्य परिसम्पुर्णस्सप्ताश्वादिगृहैः स्तुतः ॥ १३६॥
वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः ।
सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ॥ १३७॥
कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ।
वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ॥ १३८॥
विश्वमूर्तिश्शुद्धमुखश्शुद्धभस्मानुलेपनः ।
शुम्भध्वंसिन्या सम्पूज्यो रक्तबीजकुलान्तकः ॥ १३९॥
निषादादिस्वरप्रीतः नमस्कारफलप्रदः ।
भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ॥ १४०॥
अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः ।
धूम्राक्षश्चोग्रतेजस्वी दशकण्ठविनाशनः ॥ १४१॥
आशुगायुधहस्ताब्जो गदायुधकराम्बुजः ।
पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥ १४२॥
सहस्रशीर्षवदनः सहस्रद्वयलोचनः ।
नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ॥ १४३॥
आश्यामकोमलतनूरारक्तापाङ्गलोचनः ।
द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ॥ १४४॥
अप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ।
पशुबन्धस्यफलदो वाजपेयात्मदैवतः ॥ १४५॥
आब्रह्मकीटजननावनात्मा चम्बकप्रियः ।
पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥ १४६॥
कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ।
कुम्भीश्वरः कुम्भपाणीः कुङ्कुमाक्तललाटकः ॥ १४७॥
शिलीन्ध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः ।
कोकिलक्वणनाकर्णी कालनाशनतत्परः ॥ १४८॥
नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः ।
धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ॥ १४९॥
पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ।
पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥ १५०॥
महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ।
महावर्षतिरोधानः नागाभृतकराम्बुजः ॥ १५१॥
नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः ।
महीरसदृशग्रीवो महीरसदृशस्तवः ॥ १५२॥
तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः ।
चिदंशमुकुरावासो मणिकूटाद्रि सञ्चरः ॥ १५३॥
लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः ।
राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ॥ १५४॥
मैनाकगिरिसञ्चारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ १५५॥
श्रीधर्मशास्तासहस्रनामस्तोत्रं सम्पूर्णम् ।
Encoded George Mathew george.seagull at gmail.com
Proofread by George Mathew, PSA Easwaran