श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्
श्रीपूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ॥
ध्यानम् -
कल्हारोज्ज्वल नीलकुन्तलभरं कालाम्बुद श्यामलं
कर्पूराकलिताभिरामवपुषं कुन्देन्दुबिम्बाननम् ।
श्रीदण्डाङ्कुश-पाश-शूल-विलसत्पाणिं मदान्त-
द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥
ॐ महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥ १॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २॥
लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥ ३॥
नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४॥
भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोज्ज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५॥
मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ ७॥
वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८॥
वेदशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९॥
सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ १०॥
ऋग्यजुःसामाथर्वात्मा मल्लकासुरभञ्जनः ।
त्रिमूर्तिर्दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ ११॥
कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२॥
संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३॥
सर्वशास्त्रार्थ तत्त्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः ॥ १४॥
अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥
इति श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Encoded by Antaratma antaratma at Safe-mail.net
Proofread by Antaratma, PSA Easwaran