गायत्र्युपदेशः
ऋषय ऊचुः ।
कथं गोपीपतेर्भव्या गायत्री गृह्यते जनैः ।
किं कार्यं तैस्तदाख्याहि तथा नामसहस्रकम् ॥ १॥
श्रीशाण्डिल्य उवाच ।
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
आराध्यते तदा सद्यः प्रसीदति न चान्यथा ॥ २॥
ब्रह्मचारी गृही वानप्रस्थो यतिवरस्तथा ।
चत्वार आश्रमाश्चैते ब्राह्मणस्यैव सम्मताः ॥ ३॥
राजन्यस्य त्रयश्चाद्या विशो द्वौ च युगान्तरे ।
गृहाश्रमोऽपि शूद्रस्य ब्राह्मणानुगतस्य वै ॥ ४॥
व्रात्यापध्वंसजाः सर्वे ते भवन्ति निराश्रमाः ।
तेषां सामान्य एवास्ति धर्मो मान्यस्तु वैदिकैः ॥ ५॥
ब्रह्मक्षत्रविशां वक्ष्ये मौञ्जी लुप्यति चेद्यदि ।
तदैषां व्रात्यता प्रोक्ता योनिभेदाच्च सङ्करः ॥ ६॥
श्रूयते संस्कृतिर्येषां पूर्वेषामपि कुत्रचित् ।
तेषान्तु वैदिकी कार्या प्रायश्चित्तैः स्वसंस्कृतिः ॥ ७॥
न मातृपितृभार्यादिकुले येषां तु संस्कृतिः ।
विप्रस्यानुग्रहात् पूर्वा सङ्करे तु न सेष्यते ॥ ८॥
द्वादशाब्दव्रतं विप्रैर्देयं कृच्छ्रपुरःसरम् ।
अशक्तैश्च फलाहारैस्तीर्थस्नानैश्च तन्मतम् ॥ ९॥
विप्रस्य ब्रह्मगायत्री क्षत्रियस्य विवस्वतः ।
वैष्णवी व विशः प्रोक्ता रौद्री सङ्करजन्मनाम् ॥ १०॥
अथवा सर्ववर्णानां विच्युतानां स्वधर्मतः ।
श्रीपतेरेव सन्मन्त्रं परित्राणाय दृश्यते ॥ ११॥
स्वाश्रमाचारयुग्वापि अथवापि निराश्रमः ।
श्रीमुकुन्दं प्रपन्नो यो मुच्यते विश्वतो भयात् ॥ १२॥
आश्रमा वैष्णवब्राह्महराश्रमा इति त्रयः ।
तत्तल्लिङ्गानि सेवेत तत्तदाराधने जनः ॥ १३॥
तत्राश्रमं सदा रम्यं सात्त्विकं वैष्णवाभिधम् ।
यत्र वैदिकधर्मेण वैष्णवो धर्म इष्यते ॥ १४॥
दृष्ट्वा भागवतं विप्रं सर्वदोषविवर्जितम् ।
परिचाय्य गुरुं कुर्यादुपदेशं ततो भजेत् ॥ १५॥
प्रायश्चित्तैर्व्रतैः स्नातः स्वस्तिवाचनपूर्वकम् ।
गर्भाधानादिसंस्कारानाचार्येणैव कारयेत् ॥ १६॥
नारायणैर्वासुदेवैर्नारसिंहैः परैरपि ।
जुहुयाल्लक्षसङ्ख्याकैस्ततो ग्राह्यं मनूत्तमम् ॥ १७॥
अथ भूमिपतेर्वक्ष्ये विधानं जगतां मुदे ।
गोपालाराधने योग्यं योग्यं लोकस्य पालने ॥ १८॥
शुभे काले शुभे देशे कृत्वा भूमिपरिग्रहम् ।
मण्डपं तत्र कुर्वीत कुण्डानि च यथाविधि ॥ १९॥
चतुःशालं ततः कार्यं प्राकारोपवनाश्रितम् ।
प्राग्वंशं पीतपट्टेन श्रीदाम्नापि प्रशोभयेत् ॥ २०॥
गोवर्धनं क्षेत्रपतिं योगमायां च द्वारपाम् ।
मध्ये वेद्यान्तु गोपालं दिग्व्यूहे व्यूहपान् यजेत् ॥ २१॥
बाह्यशालेषु गणपं ग्रहान्मातृपुरःसरान् ।
आघारान्तं स्वगृह्योक्तमाचार्यः स्वयमाचरेत् ॥ २२॥
ततोऽसौ गुरवे गत्वा साष्टाङ्गं प्रणिपत्य च ।
समानयेन्महायानैराचार्यं पूजयेदथ ॥ २३॥
ब्रह्मणा प्रेषितं शिष्यमाचार्यो मन्त्रसम्भृतैः ।
दीक्षोक्तवर्त्मना शुद्धं स्नापयेत् षोडशद्विजैः ॥ २४॥
ततः श्रीमूलगायत्र्या हुत्वा दशशतं पुनः ।
भूषितः पीतवासःस्रग् मण्डितो वाद्यघोषतः ॥ २५॥
आदिशेदथ गायत्रीं गुरुः सम्प्रोक्तवर्त्मना ।
वित्तार्द्धमर्पयेच्छक्त्या तोषयेच्च हरिं गुरुम् ॥ २६॥
देवर्षिच्छन्दसंयुक्तां षडङ्गध्यानसम्मताम् ।
ध्यायन् भगवतो रूपं गुरुश्चोपदिशेत्त्रिशः ॥ २७॥
श्रीपतेरस्य गायत्र्या देवता पुरुषोत्तमः ।
हुताशनो मुनिस्तस्याश्छन्दो गायत्र्यमिष्यते ॥ २८॥
हरिभक्तिप्रसिद्ध्यर्थं विनियोगः प्रकीर्त्तितः ।
श्रीगोविन्दायेति हृदि ललाटे विद्महे इति ॥ २९॥
शिखायां वासुदेवाय कवचं धीमहीति च ।
तन्नः कृष्ण इति स्वक्ष्णोरस्त्रे वापि प्रचोदयात् ॥ ३०॥
आविर्भूय प्रभामये स्ववपुषे भक्तानुकम्पारसै-
र्जीवांश्चेतयते धिया निजकृतेः सम्पादयन् यः फलम् ।
तस्यानन्दनिधेः स्वरूपममलं स्याद्गोचरं नः सदा
येनास्माकमपीदृशे भगवतो रूपे भवेच्छेमुषी ॥ ३१॥
इति लब्ध्वा गुरोर्मन्त्रं वैष्णवीं धारयेत्स्रजम् ।
समाप्य होमशेषञ्च पूजाशेषं यथोदितम् ॥ ३२॥
गुरुं सम्मानयेद्भक्त्या दास्यमाजन्ममाचरेत् ।
ग्रामधामधरावृत्तिः प्रासादाराममर्पयेत् ॥ ३३॥
मोचयेन्निगडग्रस्तान् राजभ्यो दास्यतो ऋणात् ।
अथ सम्प्रेषयेद्यानैर्महोत्सवपुरःसरम् ॥ ३४॥
दारागारसुतादीनि सर्वं तस्मै निवेदयेत् ।
ततो भगवतः कुर्यादुत्सवं वैष्णवैर्जनैः ॥ ३५॥
सप्ताहं तत्र निवसेत्सत्रं भोज्यं प्रवर्त्तयेत् ।
महोपचारविधिना वृन्दापत्रैः सितासितैः ॥ ३६॥
सहस्रनाममन्त्रैश्च पूजयेत्प्रत्यहं व्रती ।
ततः समाप्य तत्सर्वमाचार्य्यं परितोषयेत् ॥ ३७॥
ग्रामं गजहयं गेहं गावो वृत्तिञ्च सन्तताम् ।
दासीदासधनं पूर्णं राजचिह्नानि यान्यपि ॥ ३८॥
एतैः पूजोपकरणैः प्रपूज्याचार्यमीश्वरम् ।
ब्राह्मणान् तोषयेद्भक्त्या धनधान्यैरथापरान् ॥ ३९॥
भूषणैरपि वासोभिः सपत्नीकान्समर्चयेत् ।
मानयेद्विदुषो विप्रान् तापसान् कुलजानपि ॥ ४०॥
कन्या विवाहयेत्तेषामृणानि परिमोचयेत् ।
सभ्येभ्यश्च गृहिभ्यश्च नयं दद्यान्मतिं तथा ॥ ४१॥
दीनान्धबधिरादिभ्यश्चान्नं वासो यथायथम् ।
प्रजाभ्यः करमोक्षं च कुर्यात्किञ्चिद्यथारूचि ॥ ४२॥
गवां निरोधं भारञ्च वाहानां सुखयेज्जगत् ।
सर्वान् सुखेन सम्पन्नान् वीक्ष्य विप्रांश्च भोजयेत् ॥ ४३॥
गवां च यवसं दद्याद् बालान्सम्भोजयेत्स्त्रियः ।
ततः साम्राज्यसल्लक्ष्म्या भूषितोऽमात्यभृत्यकान् ॥ ४४॥
स्वसेनामपि सन्तोष्य आयान्निजगृहं नृपः ।
तत्र पूर्वस्थितान् देवान् गुरुं तोष्य मुदान्वितम् ॥ ४५॥
स्वैः सर्वैः सह भुञ्जीत ब्रह्मचर्यं ततस्त्यजेत् ।
ततश्च प्रत्यहं यन्त्रे मूर्तौ देवं प्रपूजयेत् ॥ ४६॥
यथालब्धोपचारैश्च यथासमयसम्पदा ।
एवं कृत्वा महीपालः प्रजाधर्मपरायणः ॥ ४७॥
गोपयेद्धर्मशास्त्रेण हरिं तद्राष्ट्रमर्पयेत् ।
हिंसां निवर्त्तयेद् राष्ट्रान्मद्यद्यूतच्छलादिकम् ॥ ४८॥
मद्यमांसभुजो लोकान् पाषण्डपतितांस्त्यजेत् ।
एवं कुर्वन्महीपालः जायते वासवोपमः ॥ ४९॥
पुत्रवित्तादिसम्पन्नो ह्यनुल्लङ्घितशासनः ।
निरातङ्की दीर्घजीवी महिलावल्लभो युवा ॥ ५०॥
परत्र वासुदेवस्य सारूप्यमपि गच्छति ।
स्वच्छन्दचारी लोकेऽस्मिन् सदैव हरिवल्लभः ॥ ५१॥
इत्येवं नृपतेः प्रोक्तोऽप्यन्येषां स्वानुरूपतः ।
तदाचारः पुरा प्रोक्तो व्रात्यधर्मविनिर्णयः ॥ ५२॥
भवेदच्युतगोत्रो वा ब्रह्मचर्यं समाश्रयेत् ।
पौराणमाचमं कुर्यान्मूलबीजैश्च संहृतिः ॥ ५३॥
मार्जनं स्नानमन्त्रैश्च गायत्र्यार्घ्यं जपं तथा ।
उपस्थाय हरिं सूर्यं गुरुमग्निं समर्चयेत् ॥ ५४॥
हरिं सम्पूजयेन्नित्यं तच्चिह्नैः समलङ्कृतः ।
भिक्षाशनो विरक्तो वा एवं वर्त्तेत वा वनी ॥ ५५॥
वनमेवाश्रयेद्धीमान्तपी हरिपरायणः ।
भजेद्यती वा श्रीनाथं भजंस्तीर्थानि सञ्चरन् ॥ ५६॥
वदन् भागवतं शास्त्रं विजितात्मा त्रिदण्डभृत् ।
कुर्याद्भक्तिं हरे रम्यां तेन सिद्ध्यति सत्वरम् ॥ ५७॥
अथ दीनतरस्यापि उपायं वो वदामि भोः ।
स्नातः शुद्धः शुद्धिमन्तं सोपायनकरो गुरुम् ॥ ५८॥
विज्ञापयेत् श्रीभगवन् दीनोद्धारपरायण ।
निःसाधनं कुकृतिनं मग्नं संसारवारिधौ ॥ ५९॥
प्रपन्नं श्रीमतः पादपद्मयोः कृपया गुरौ ।
समुद्धर महाक्लेशान्मुक्तिमार्गं प्रदर्शय ॥ ६०
तवास्मि करुणापूर्ण इत्युक्तोऽसौ वदेदमुम् ।
हरिरेव जगत्सर्वं हरिणा निर्मितं जगत् ॥ ६१॥
न हरेः परमं चान्यद्वस्तुभूतं सनातनम् ।
हरेः सिसृक्षया रन्तुं जगज्जातं ततो भवान् ॥ ६२॥
यस्यांशः तस्य शरणं गृहाण जगदीशितुः ।
भजस्व भक्तिसंयुक्तस्ततः सिध्यसि सत्वरम् ॥ ६३॥
इत्युक्त्वाथ महामन्त्रं दद्यादष्टाक्षरं हरेः ।
श्रीमन्नारायणस्यैव प्रपन्नशरणं जनः ॥ ६४॥
शृण्वन् गृणन् गुणान् विष्णोः परिमुच्यति संवृतेः ।
नानाजन्मकृतैः पुण्यैः सात्त्विकानां हरौ भवेत् ॥ ६५॥
भक्तिस्तद्वासनाबीजमहामन्त्रे महोदये ।
इमं प्राप्य महामन्त्रं प्राप्तव्यं न परं भवेत् ॥ ६६॥
पीत्वाऽमृतं यथा लोके पेयं शिष्यति नापरम् ।
एतच्छ्रवणमात्रेण साक्षान्नारायणो भवेत् ।
बहुनोक्तेन किमिह इदं गुप्तं सुरेष्वपि ॥ ६७॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे
एकोनविंशोऽध्याये गायत्र्युपदेशः सम्पूर्णः ।
Proofread by Manish Gavkar