गरुडकवचम्
अथ गरुडकवचम् ।
हरिः ॐ ।
अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।
ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २॥ (सूर्येतालू च कण्ठे च)
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । (हृदयं पातु सर्वदा)
नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥ (कटिं पातु सुधाहरः)
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ।
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥
(ऊरू पातु महावीरः जानुनि चण्डविक्रमः ।
जङ्घे दुण्ढायुधः पातु गुल्फौ विष्णुरथः सदा ॥५॥)
सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तदा ।
रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ।
यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥ ७॥ (विषदोषं प्रणश्यति)
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८॥
एकेवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९॥
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम्
There are variations found in print as the
kavacham commonly found has 7 verses.
The scripture source is unknown.
Encoded and proofread by Nat Natarajan