श्रीगोरक्षसहस्रनामस्तोत्रम्

श्रीगोरक्षसहस्रनामस्तोत्रम्

श्रीगोरक्ष विधि विधान ॐ श्री गणेशाय नमः ॥ ॐ गोरक्षनाथाय नमः ॥ योगीन्द्रं योगगम्यं यतिपतिममलं सच्चिदानन्दरूपं शून्याधारं निरीहं जगदुदयलयस्थैर्यंहेतुं मुनीन्द्रम् । स्वात्मारामाभिरामं भवभय हरणं भुक्तिमुक्त्योर्निदानं पुण्यं वन्दारुवन्द्यं सुविदितयशसं नौमि गोरक्षनाथम् ॥ श्रीकृष्ण उवाच - गोरक्षनाथः को देवः को मन्त्रस्तस्य पूजने । सेव्यते केन विधिना तन्मे ब्रूहि महामुने ॥ १॥ गर्ग उवाच - देवाश्च मुनयः सर्वे प्रपच्छुर्धर्मवादिनः । देवदेवं महादेवं गोरक्षस्य च कीर्तनम् ॥ २॥ देवाः उवाच - काऽसौ गोरक्षनाथो वै तपस्वी जटिलाभिधः । कथं जातो महाबुद्धिरेतद् ब्रूहि सविस्तरम् ॥ ३॥ श्रीमहादेव उवाच - स्वयं ज्योतिस्वरूपोऽयं शून्याधारो निरञ्जनः । समुद्भूतो दक्षिणास्यां दिशि गोरक्षसंज्ञकः ॥ ४॥ माता शून्यमयी तस्य व्यवहारमयः पिता । निरञ्जनो महायोगी गोरक्षो जगतो गुरुः ॥ ५॥ अहमेवास्मि गोरक्षो मद्रूपं तन्निबोधत । योगमार्गप्रचाराय मया रूपमिदं धृतम् ॥ ६॥ गोरक्षनाथमन्त्रे तु गृहिते विधिपूर्वकम् । तस्याऽनुष्ठानमात्रेण भवेत् सिद्धिर्ध्रुवं नृणाम् ॥ ७॥ देवाः उवाच - देवदेव महादेव गोरक्षस्य च पूजने । को मन्त्रः को विधिश्चास्य तत्सर्वं कथयस्व नः ॥ ८॥ महादेव उवाच्च - देवाः ! श‍ृणुत वै सर्वे गोरक्षस्य विधिक्रियाः । गोरक्षा मनसि ध्यात्वा योगीन्द्रो भविता नरः ॥ ९॥ विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते । गोरक्षस्य प्रसादेन सर्वसिद्धिर्न संशयः ॥ १०॥ श्रीकृष्ण उवाच - धन्योऽसि मुनिशार्दूल गोरक्षस्य विधिक्रियाः । याःप्रोक्ता भवता श्रोतुं परं कौतूहलं हि मे ॥ ११॥ गर्ग उवाच - श‍ृणु त्वं राधिकानाथ विधिपूर्वकजां क्रियाम् । गुह्यातिगृह्यमन्त्रस्य वेदस्यागमनं विधिः ॥ १२॥ गुह्यातिगुह्याः परमाः गोरक्षस्य विधिक्रियाः । वदामि भवतामग्रे श‍ृण्वन्तु खलु तत्त्वतः ॥ १३॥ अङ्गन्यासं करन्यासं दिङ्न्यासं मन्त्रमेव च । ध्यानं नाम्नां सहस्रं च सर्वं व्याख्यायते मया ॥ १४॥ सङ्कल्पं प्रथमं कुर्यात् तत्तो न्यासं समाचरेत् । आदौ न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ १५॥ प्रथमं तु अङ्गन्यासं करन्यासं मथापरम् । तृतीयं तु दिशान्यासं ततो ध्यानमुदीरयेत् ॥ १६॥ अथ सङ्कल्पः । ॐ अस्य श्रीगोरक्ष सहस्रनामस्तोत्रमन्त्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीगोरक्षनाथो देवता । गोम् बीजम् । विमलेति शक्तिः । हँसेति निरञ्जनात्मकम् कीलकम् । अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ एवं सङ्कल्पं विधायासनशुद्धिं कुर्यात् । तदनन्तरश्च अङ्गन्यासं कुर्यात् । अथ अङ्गन्यासः । ॐ ह्रीं श्रीं गों गोरक्षनाथ हृदयाय नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ शिरसे स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ शिखायै वषट् । ॐ ह्रीं श्रीं गों गोरक्षनाथ कवचाय हुँ । ॐ ह्रीं श्रीं गों गोरक्षनाथ नेत्रत्रयाय वौषट् । ॐ ह्रीं श्रीं गों गोरक्षनाथ अस्त्राय फट् । ॐ ह्रीं श्रीं गों गोरक्षनाथसर्वविद्यापतये तुभ्यं नमः ॥ अथ करन्यासः । ॐ ह्रीं श्रीं गों गोरक्षनाथ अनुष्ठाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ तर्जनीभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मध्यमाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ अनामिकाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ कनिष्ठिकाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ पञ्चाङ्गुलिनखाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मूलाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मणिबन्धकन्धराभ्यां नमः ॐ ह्रीं श्रीं गों गोरक्षनाथ चिबुकजानुभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ बाहुकवचाभ्यां नमः । ॐ ह्रीं श्री गों गोरक्षनाथ करतलकरपृष्ठाभ्यां नमः इति करन्यासः ॥ अथ दिग्बन्ध - ॐ ह्रीं श्रीं गो गोरक्षनाथ पुर्वदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ आग्नेय दिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ दक्षिणदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ नैरृत्यदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ पश्चिमदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ वायव्यदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ उत्तरदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ ईशानदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्री गों गोरक्षनाथ अधोदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ ऊर्ध्वदिक्पालमारभ्य हुँ फट् स्वाहा ॥ अथ ध्यानम् । जटिलं निर्गुणं शान्तं ब्रह्मविष्णुशिवात्मकं कमण्डलुधरं देवं कुण्डलालङ्कृतं गुरुम् । शून्यात्मकं निराकारं योगिध्येयं निरञ्जनं विश्वाराध्यमहं वन्दे नाथं गोरक्षनामकम् ॥ वन्दे गोरक्षनाथं सकलगुरुवर योगिभिर्ध्यानगम्यं विश्वाधारं निरीहं निखिलगुणगणालङ्कृतं विश्वरूपम् । योगाभ्यासे विलग्नं मुनिवरभयं चिन्मयं शून्यरूपं आनन्दैकाब्धिमगनं समधिगतशिवं ध्यानगम्यं शुभाङ्गम् ॥ गोरक्षं गुणसागरं यतिपतिं योगीश्वरं गोपतिं शून्याभारमनन्तमव्ययमजं देवदेवाधिदेवं गुरुम् । ब्रह्मारुद्रमहेन्द्र वन्दितपदं भक्तार्तिविद्रावणं योगाभ्यासरतं मृगाजिनधरं वन्दे वदान्यं वरम् ॥ हे गोरक्षगुरो ! दयार्णव विभो ! योगीश दिव्याम्बरम् ! भक्तानामभयप्रद ! प्रभुवर ! हे निर्विकारात्मज ! । वन्दे त्वां भगवन् ! कृपां कुरुमयि त्वत्पादपाथोरुहा मन्दानन्दरसैकतत्पर मतौ भृङ्गे भवत्प्रेयसि ॥ इति ध्यानम् । एवं ध्यात्वा जपेत् सिद्धिर्गोरक्षस्य प्रसादतः । नियमेन मनुष्याणां भविष्यति न संशय ॥ १७॥ अथ मन्त्र । अत्र मन्त्र प्रवक्ष्यामि श‍ृणु तवं यदुनन्दन । श्री कल्पद्रुमतन्त्रे तु ये मन्त्राः कथिताः पुरा ॥ १८॥ जपन्ति साधका धीरास्तान् मन्त्रान् श्रद्धयान्विताः । शीघ्रं भवति संसिद्धिः साधकानां शिवाज्ञया ॥ १९॥ गोरक्षनाथमन्त्राणां प्रभावो वर्णितः पुरा । कल्पद्रुमादितन्त्रेषु बहुभिर्मुनिभिः कलौः ॥ २०॥ गोरक्ष गायत्री । ॐ ह्रीं श्रीं गों गोरक्षनाथाय विद्महे, शून्यपुत्राय धीमहि । तन्नो गोरक्षनिरञ्जनः प्रचोदयात । गोरक्ष मन्त्र । ॐ ह्रीं श्रीं गों हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्ष हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनिरञ्जनात्मने हुँ फट् स्वाहा । शतलक्षमितं जप्त्वा साधकः शुद्ध मानसः । साधयेत् सर्वकार्याणि नात्र कार्या विचारणा ॥ २१॥ यो धारयेन्नरो नित्यं मन्त्रराजं विशेषतः । स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः ॥ २२॥ अथ नाम्नां सहस्रञ्च गोरक्षस्य वदाम्यहम् । स्नेहाद् गुह्यतमं कृष्ण ! महापातकनाशनम् ॥ २३॥ ॥ सत्यं शिवं सुन्दरम् ॥ अथ गोरक्षसहस्रनामप्रारम्भः । गोसेवी गोरक्षनाथो गायत्रीधरसम्भवः । योगीन्द्रः सिद्धिदो गोप्ता योगिनाथो युगेश्वरः ॥ १॥ यतिश्च धार्मिको धीरो लङ्कानाथो दिगम्बरः । योगानन्दो योगचरो योगवेत्ता यतिप्रियः ॥ २॥ योगराशिर्योगगम्यो योगिराट् योगवित्तमः । योगमार्गयुतो याता ब्रह्मचारी बृहत्तपाः ॥ ३॥ शङ्करैकस्वरूपश्च शङ्करध्यानतत्परः ॥ ४॥ योगानन्दो योगधारी योगमायाप्रसेवकः । योगयुक्तो योगधीरो योगज्ञानसमन्वितः ॥ ५॥ योगचारो योगविद्यो युक्ताहारसमन्वितः । नागहारी नागरूपो नागमालो नगेश्वरः ॥ ६॥ नागधारी नागरूपी नानावर्णविभूषितः । नानावेषो नराकारो नानारूपो निरञ्जनः ॥ ७॥ आदिनाथो सोमनाथो सिद्धिनाथो महेश्वरः । नाथनाथो महानाथो सर्वनाथो नरेश्वरः ॥ ८॥ क्षेत्रनाथोऽजपानाथो बालनाथो गिराम्पतिः । गङ्गाधरः पात्रधरो भस्मभूषितविग्रह ॥ ९॥ मृगाजिनधरो मृगयो मृगाक्षो मृगवेषधृक् । मेघनादो मेघवर्णो महासत्त्वो महामनाः ॥ १०॥ दिगीश्वरो दयाकारी दिव्याभरणभूषितः । दिगम्बरो दूरदर्शी दिव्यो दिव्यतमो दमः ॥ ११॥ जलनाथो जगन्नाथो गङ्गानाथो जनाधिपः । भूतनाथो विपन्नाथो कुनाथो भुवनेश्वरः ॥ १२॥ ज्ञपतिर्गोपिकाकान्तो गोपी गोपारिमर्दनः । गुप्तो गुरुर्गिरां नाथो प्राणायामपरायणः ॥ १३॥ यज्ञनाथो यज्ञरूपो नित्यानन्दो महायतिः । नियतात्मा महावीर्योद्युतिमान् धृतिमान् वशी ॥ १४॥ सिद्धनाथो वृद्धनाथो वृद्धो वृद्धगतिप्रियः । खेचरः खेचराध्यक्षो विद्यानन्दो गणाधिपः ॥ १५॥ विद्यापतिर्मन्त्रनाथो ध्याननाथो धनाधिपः । सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः ॥ १६॥ सृष्टिकर्ता सृष्टिधर्ता जगत्प्रलयकारकः । भैरवो भैरवाकारो भयहर्ता भवापहा ॥ १७॥ सृष्टिनाथः स्थितेर्नाथो विश्वाराध्यो महामतिः । दिव्यनादो दिशानाथो दिव्यभोगसमन्वितः ॥ १८॥ अव्यक्तो वासुदेवश्च शतमूर्तिः सनातनः । पूर्णनाथः कान्तिनाथो सर्वेशं हृदयस्थितः ॥ १९॥ अङ्गनाथो रङ्गनाथो मङ्गलो मङ्गलेश्वरः । अम्बासेवी धैर्यनाथो वपुर्गोप्ता गुहाशयः ॥ २०॥ अकारोऽनिधनोऽमर्त्यो साधुरात्मपरायणः । इकारस्त्विन्द्रनाथश्च यतिर्धन्यो धनेश्वरः ॥ २१॥ उकार ऊकारो नित्यो मायानाथो महातपाः । एकारस्त्वेक ऐकार एकमूर्तिस्त्रिलोचनः ॥ २२॥ ऋकारो लाकृतिर्लोकनाथो ॠसुतमर्दनः । ऌकारो ॡसुतो लाभो ललोप्ता लकरो ललः ॥ २३॥ खवर्णंः खर्वहस्तश्च खखनाथः खगेश्वरः । गौरीनाथो गिरांनाथो गर्गपूज्यो गणेश्वरः ॥ २४॥ गंनाथो गणनाथश्च गङ्गासेवी गुरुप्रियः । चकारश्चपतिश्चन्द्रश्चं चं शब्दश्चकृच्चरः ॥ २५॥ चोरनाथो दण्डनाथो देवनाथः शिवाकृतिः । चम्पानाथः सोमनाथो वृद्धिनाथो विभावसुः ॥ २६॥ चिरनाथः चारुरूपः कवीशः कवितापतिः । ऋद्धिनाथो विभानाथो विश्वव्यापी चराचरः ॥ २७॥ चारुश‍ृङ्गश्चारुनाथश्चित्रनाथश्चिरन्तपाः । शक्तिनाथो बुद्धिनाथश्छेत्ता सर्वगुणाश्रयः ॥ २८॥ जयाधीशो जयाधारो जयादाता सदाजयः । जपाधीशो जपाधारो जपदाता सदाजपः ॥ २९॥ शङ्खनाथः शङ्खनादः शङ्खरूपो जनेश्वरः । सोऽहं रूपश्च संसारी सुस्वरूपः सदासुखी ॥ ३०॥ ओङ्कार इन्द्रनाथश्च इन्द्ररूपः शुभः सुधीः । जकारो जञ्जपकश्च झाकारो मृत्युजिन्मुनिः ॥ ३१॥ टङ्कारः टण्टनाथश्च टोकारो टोपतिष्टरः । ठकारो ठण्ठनाथश्च ठन्नाथः ठमयश्च ठ ॥ ३२॥ डमयो ढमयो नित्यो डवाद्यो डमरुप्रियः । वदप्रदाऽभयो भोगो भवो भीमो भयानकः ॥ ३३॥ दण्डधारी दण्डरूपो दण्डसिद्धो गुणाश्रयः । दण्डो दण्डमयो दम्यो दरूपो दमनो दमः ॥ ३४॥ णकारो नन्दनाथश्च बुधनाथो निरापदः । नन्दीभक्तो नमस्कारो सर्वलोकप्रियो नरः ३५॥ थकारो थकारः स्तुत्यो जुता जिष्णुर्जितो गतिः । थसेवी थन्थशब्दश्च थवासी जित्वरो जयः ॥ ३६॥ दानदो दानसिद्धो दः दयोः दीनप्रियोऽदमः । अदीनो दिव्यरूपश्च दिव्यो दिव्यासनो द्यूतिः ॥ ३७॥ दयालुर्दयितो दान्तोऽदूरो दूरेक्षणो दिनम् । दिव्यमाल्यो दिव्यभोगो दिव्यवस्त्रो दिवापतिः ॥ ३८॥ धकारो धनदाता च धनदो धर्मदोऽधनः । धनी धर्मधरो धीरो धराधीशो धराधरः ॥ ३९॥ धीमान् श्रीमान् धरधरो ध्वान्तनाथोऽधमोद्धरः । धर्मिष्ठो धार्मिको धुर्योधीरो धीरोगनाशनः ॥ ४०॥ सिद्धान्तकृतच्छुद्धमतिः शुद्ध शुद्धैकरः कृती । अन्धकारहरो हर्षो हर्षवान् हर्षितप्रजः ॥ ४१॥ पाण्डुनाथः पीतवर्णः पाण्डुहा पन्नगासनः । प्रसन्नास्य प्रपन्नार्तिहरः परमपावनः ॥ ४२॥ फङ्कारः फूकारः पाता फणीन्द्रः फलसंस्थितः । फणीराजः फलाध्यक्षो फलदाता फली फलः ॥ ४३॥ बं बं प्रियो बकारश्च बामनो बारुणो वरः । वरदस्तु वराधिशो बालो बालप्रियो बलः ॥ ४४॥ वराहो वारुणीनाथो विद्वान् विद्वत्प्रियो बली । भवानीपूजको भौमो भद्राकारो भवान्तकः ॥ ४५॥ भद्रप्रियोऽर्भकानन्दो भवानीपतिसेवकः । भवप्रियो भवाधीशो भवो भव्यो भयापहा ॥ ४६॥ महादेवप्रियो मान्यो मननीयो महाशयः । महायोगी महाधीरो महासिद्धो महाश्रयः ॥ ४७॥ मनोगम्यो मनस्वी च महामोदमयो महः । मार्गप्रियो मार्गसेवी महात्मा मुदितोऽमलः ॥ ४८॥ मध्यनाथो महाकारो मकारो मखपूजितः । मखो मखकरो मोहो मोहनाशो मरुत्प्रियः ॥ ४९॥ यकारो यज्ञकर्ता च यमो यागो यमप्रियः । यशोधरो यशस्वी च यशोदाता यशःप्रियः ॥ ५०॥ नमस्कारप्रियोनाथो नरनाथो निरामयः । नित्ययोगरतो नित्यो नन्दिनाथो नरोत्तमः ॥ ५१॥ रमणो रामनाथश्च रामभद्रो रमापतिः । रांरांरवो रामरामो रामराधनतत्परः ॥ ५२॥ राजीवलोचनो रम्यो रागवेत्ता रतीश्वरः । राजधर्मप्रियो राजनीतितत्त्वविशारदः ॥ ५३॥ रञ्जको रणमूर्तिश्च राज्यभोगप्रदः प्रभुः । रमाप्रियो रमादाता रमाभाग्यविवर्धनः ॥ ५४॥ रक्तचन्दनलिप्ताङ्गो रक्तगन्घानुलेपनः । रक्तवस्त्रविलासी च रक्तभक्तफलप्रदः ॥ ५५॥ अतीन्द्रियो विश्वयोनिरमेयात्मा पुनर्वसुः । सत्यधर्मो बृहद्रूपो नैकरूपो महीधरः ॥ ५६॥ अदृश्योऽव्यक्तरूपश्च विश्वबाहुः प्रतिष्ठितः । अतुलो वरदस्तार परर्द्धिस्तु शुभेक्षणः ॥ ५७॥ हिरण्यगर्भः प्रणयो धर्मो धर्मविदुत्तमः । वत्सलो वीरहा सिंहः स्ववशो भूरिदक्षिणः ॥ ५८॥ गङ्गाधर गुरुर्गेयो गतरागो गतस्मयः । सिद्धगीतः सिद्धकथो गुणपात्रो गुणाकरः ॥ ५९॥ दृष्टः श्रुतो भवद्भूतः समबुद्धिः समप्रभः । महावायुर्महावीरो महाभूतस्तनुस्थितः ॥ ६०॥ नक्षत्रेशः सुधानाथो धवः कल्पान्त भैरवः । सुधन्वा सर्वदृग् द्रष्टा वाचस्पतिरयोनिजः ॥ ६१॥ शुभाङ्ग श्रीकरः श्रेयः सत्कीर्तिः शाश्वतः स्थिरः । विशोकः शोकहा शान्तः कामपालः कलानिधिः ॥ ६२॥ विशुद्धात्मा महायज्ञा ब्रह्मज्ञो ब्राह्मणप्रियः । पूर्णः पूर्णकरः स्तोता स्तुतिः स्तव्यो मनोजवः ॥ ६३॥ ब्रह्मण्यो ब्राह्मणो ब्रह्म सद्भूतिः सत्पराक्रमः । प्रकृतिः पुरुषो भोक्ता सुखदः शिशिरः शमः ॥ ६४॥ सत्त्वं रजस्तमः सोमो सोमपाः सौम्यदर्शनः । त्रिगुणस्त्रिगुणातीतो त्रयीरूपस्त्रिलोकपः ॥ ६५॥ दक्षिणः पेशलः स्वास्यो दुर्गो दुःस्वप्ननाशनः । जितमन्युर्गम्भीरात्मा प्राणभृत् व्यादिशो दिशः ॥ ६६॥ मुकुटी कुण्डली दण्डी कटकी कनकाङ्गदी । अहः संवत्सरः कालः ज्ञापको व्यापकः कविः ॥ ६७॥ भूर्भुवः स्वः स्वरूपश्च आश्रमः श्रमणः क्षमो । क्षमायुक्तो क्षयः क्षान्तः कृशः स्थूलो निरन्तरः ॥ ६८॥ सर्वगः सर्ववित् सर्वः सुरेशश्च सुरोत्तमः । समात्मा संमितः सत्यः सुपर्वा शुचिरच्युतः ॥ ६९॥ सर्वादिः शर्मकृच्छान्तो शरण्यः यशरणार्तिहा । शुभलक्षणयुक्ताङ्गः शुभाङ्गः शुभदर्शनः ॥ ७०॥ पावकः पावनो पूतो महाकालो महापहा । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ७१॥ कपालमालाभरणः कपाली विष्णुवल्लभः । कालाधीशः कालकर्ता दुष्टावग्रहकारकः ॥ ७२॥ नाट्यकर्ता नटवरो नाट्यशास्त्रविशारदः । अतिरागो रागहेतुर्वीतरागो विरागवित् ॥ ७३॥ वसन्तकृद् वसन्तात्मा वसन्तेशो वसन्तदः । जीवाध्यक्षो जीवरूपो जीवो जीवप्रदः सदा ॥ ७४॥ जीवबन्धहरो जीवजीवनम् जीव संश्रयः । वज्रात्मावज्रहस्तश्च सुपर्णः सुप्रतापवान् ॥ ७५॥ रुद्राक्षमालाभरणो भुजङ्गाभरणप्रियः । रुद्राक्षवक्षा रुद्राक्षशिरः रुद्राक्षभक्षकः ॥ ७६॥ भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गवलयावृतः । भुजङ्गेन्द्रलसत्कर्णो भुजङ्गकृतभूषणः ॥ ७७॥ उग्रोऽनुग्रो भीमकर्मा भोगी भीमपराक्रमः । मेध्मोऽवध्योऽमोधशक्तिर्निर्द्वन्दोऽमोधविक्रमः ॥ ७८॥ कल्प्योऽकल्प्यो निराकल्पो विकल्पः कल्पनाशनः । कल्पाकृतिः कल्पकर्ता कल्पान्तः कल्परक्षकः ॥ ७९॥ सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः । लाभात्मा लाभदो लाभो लोकबन्धुस्त्रयीतनुः ॥ ८०॥ भूशयोऽन्नमयो भूकृन्कमनीयो महीतनुः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ ८१॥ दयासुधार्द्रनयनो निराशीरपरिग्रहः । पदार्थवृत्ति राशास्यो मायावी मूकनाशनः ॥ ८२॥ हितैषी हितकृत् युग्यो परार्थैकप्रयोजनः । कर्पूरगौर परदो जटा मण्डलमण्डितः ॥ ८३॥ निष्प्रपञ्ची निराधारो सत्वेशो सत्त्ववित् सदः । समस्तजगदाधारो स्मस्तानन्दकारणः ॥ ८४॥ मुनिवन्द्यो वीरभद्रो मुनिवृन्दनिशेवितः । मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८५॥ उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचनः । ओषधीशो गिरिशयः कृत्स्नवीतः शुचिस्मितः ॥ ८६॥ अरण्येशो परिचरो मन्त्रात्मा मन्त्रवित्तमः । प्रलयानलकृत् पुष्टः सोमसूर्याग्निलोचनः ॥ ८७॥ अक्षोभ्यः क्षोभरहितो भस्मोद्धूलितविग्रहः । शार्दूलचर्मवसनः सामगः सामगप्रियः ॥ ८८॥ कैलाशशिखरावासो स्वर्णकेश सुवर्णदृक । स्वतन्त्र सर्वतन्त्रात्मा प्रणतार्तिपभञ्जनः ॥ ८९॥ निकटस्थोऽतिदूरस्थो महोत्साहो महोदयः । ब्रह्मचारी दृढाचारी सदाचारी सनातनः ॥ ९०॥ अपधृष्यः पिङ्गलाक्ष्यः सर्वधर्मफलप्रदः । अविद्या रहितो विद्यासंश्रयः क्षेत्रपालकः ॥ ९१॥ गजारिः करुणासिन्धुः शत्रुघ्नः शत्रुपातनः । कमठो भार्गवः कल्कि ऋर्षभः कपिलो भवः ॥ ९२॥ शून्य शून्यमयः शून्यजन्मा शून्यलयोऽलयः । शून्याकारः शून्यदेवो प्रकाशात्मा निरीश्वरः ॥ ९३॥ गोराजो गोगणोपेतो गोदेवो गोपतिप्रियः । गवीश्वरो गवा दाता गोरक्षकारको गिरिः ॥ ९४॥ चेतनश्चेतनाध्यक्षो महाकाशो निरापदः । जडो जडगतो जाड्यनाशनो जडतापहा ॥ ९५॥ रामप्रियो लक्ष्मणाढ्यो वितस्तानन्ददायकः । काशीवासप्रियो रङ्गो लोकरञ्जनकारकः ॥ ९६॥ निर्वेदकारी निर्विण्णो महनीयो महाधनः । योगिनीवल्लभो भर्ता भक्तकल्पतरूर्ग्रहीः ॥ ९७॥ ऋषभो गौतमः स्त्रग्वी बुद्धो बुद्धिमत्तां गुरुः । नीरूपो निर्ममोऽक्रूरो निराग्रहः ॥ ९८॥ निर्दम्भो नीरसो नीलो नायको नायकोत्तमः । निर्वाणनायको नित्यस्थितो निर्णयकारकः ॥ ९९॥ भाविको भावुको भावो भवात्मा भवमोचनः । भव्यदाता भवत्राता भगवान् भूतिमान भवः ॥ १००॥ प्रेमी प्रियः प्रेमकरः प्रेमात्माः प्रेमवित्तमः । फुल्लारविन्दनयनो नयात्मा नीतिमान् नयी ॥ १०१॥ परंतेजः परंधाम परमेष्ठी पुरातनः । पुष्करः पुष्कराध्यक्षः पुष्करक्षेत्रसंस्थितः ॥ १०२॥ प्रत्यगात्माऽप्रतर्क्यस्तु राजमान्यो जगत्पतिः । पुण्यात्मा पुण्यकृत पुण्यप्रियः पुण्यवदाश्रितः ॥ १०३॥ वायुदो वायुसेवी च वाताहारो विमत्सरः । बिल्वप्रियो बिल्वधारी बिल्वमाल्यो लयाश्रयः ॥ १०४॥ बिल्वभक्तो बिल्वनाथो बिल्वभक्तिप्रियो वशी । शम्भुमन्त्रधरः शम्भुयोगः शम्भुप्रियो हरः ॥ १०५ ॥ स्कन्दप्रियो निरास्कन्दो सुखयोगः सुखासनः । क्षमाप्रियः क्षमादाता क्षमाशीलो निरक्षमः ॥ १०६॥ ज्ञानज्ञो ज्ञानदो ज्ञानो ज्ञानगम्यः क्षमापतिः । क्षमाचारस्तत्त्वदर्शी तन्त्रज्ञस्तन्त्रकारकः ॥ १०७॥ तन्त्रसाधन तत्त्वज्ञस्तन्त्रमार्गप्रवर्तकः । तन्त्रात्मा बालतन्त्रज्ञो यन्त्रमन्त्रफलप्रदः ॥ १०८॥ गोरसो गोरसाधीशो गोसिद्धा गोमतीप्रियः । गोरक्षकारको गोमी गोराङ्गोपपिर्गुरुः ॥ १०९॥ सम्पूर्णकामः सर्वेष्ठ दाता सर्वात्मकः शमी । शुद्धोऽरुद्धोऽविरुद्धश्च प्रबुद्धः सिद्धसेवितः ॥ ११०॥ धर्मो धर्मविदां श्रेष्ठो धर्मज्ञो धर्मधारकः । धर्मसेतुर्धर्मराजो धर्ममार्गप्रवर्तकः ॥ १११॥ धर्माचार्यो धर्मकर्ता धर्म्यो धर्मविदग्रणीः । धर्मात्मा धर्ममर्मज्ञो धर्मशास्त्रविशारदः ॥ ११२॥ कर्ता धर्ता जगद्भर्ताऽपहर्तासुर रक्षसाम् । वेत्ता छेत्ता भवापत्तेर्भेंता पापस्य पुण्यकृत् ॥ ११३॥ गुणवान् गुणस्मपन्नो गुण्यो गण्यो गुणप्रियः । गुणज्ञो गुणसम्पूज्यो गुणानन्दितमानसः ॥ ११४॥ गुणाधारो गुणाधीशो गुणिगीतो गुणिप्रियः । गुणाकारो गुणश्रेष्ठो गुणदाता गुणोज्वलः ॥ ११५॥ गर्गप्रियो गर्गदेवो गर्गदेवनमस्कृतः । गर्गनन्दकरो गर्ग गीतो गर्गवरप्रदः ॥ ११६॥ वेदवेद्यो वेदविदो वेदवन्द्यो विदाम्पतिः । वेदान्तवेद्यो वेदान्तकर्ता वेदान्तपारगः ॥ ११७॥ हिरण्यरेता हुतभुक् हिमवर्णो हिमालयः । हृतभुक् हयग्रीवो हिरण्यस्त्रक् हयनाथो हिरण्यमयः ॥ ११८॥ शक्तिमान् शक्तिदाता च शक्तिनाथः सुशक्तिकः । शक्तिऽशक्तः शक्तिसाध्य शक्तिहृत् शक्तिकारणम् ॥ ११९॥ सर्वाशास्यगुणोपेतः सर्व सौभाग्यदायकः । त्रिपुण्ड्रधारी संन्यासी गजचर्मपरिवृतः ॥ १२०॥ गजासुरविमर्दी च भूतवैतालशोभितः । श्मशानारण्यसंवासी कर्परालङ्कृतः शिवः ॥ १२१॥ कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः । कर्मण्यः कर्मदः कर्मी कर्महा कर्मकृद् गुरुः ॥ १२२॥ गोसङ्कष्टसन्त्राता गोसन्तापनिवर्तकः । गोवर्धनो गवांदाता गोसौभाग्यविवर्धनः ॥ १२३॥ गर्ग उवाच - इदं गोरक्षनाथस्य स्तोत्रमुक्तम् मया प्रभो । नाम्नां सहस्रमेतद्धि गुह्याद्गुह्यतमं परम् ॥ १२४॥ एतस्य पठनं नित्यं सर्वाभीष्टप्रदं नृणाम् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १२५॥ पुत्रार्थी लभते पुत्रान् मोक्षार्थी मुक्तिमाप्नुयात् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १२६॥ राज्यार्थी लभते राज्यं योगार्थी योगवान् भवेत् । भोगार्थी लभते भोगान् गोरक्षस्य प्रसादतः ॥ १२७॥ अरण्ये विषमे घेरे शत्रुभिः परिवेष्टितः । सहस्रनाम पठनान्नरो मुच्येत् तत्क्षणम् ॥ १२८॥ राजद्वारे महामारी रोगे च भयदे नृणाम् । सर्वेष्वपि च रोगेषु गोरक्ष स्मरणं हितम् ॥ १२९॥ नाम्नां सहस्रं यत्रस्याद् गृहे गृहवतां शुभम् । धनधान्यादिकं तत्र पुत्रपौत्रादिकं तथा ॥ १३० ॥। आरोग्यं पशुवृद्धिश्च शुभकर्माणि भूरिशः । न भयं तत्र रोगाणां सत्यं सत्यं वदाम्यहम् ॥ १३१॥ सहस्रनाम श्रवणात् पठनाच्च भवेद् ध्रुवम् । कन्यादान सहस्रस्य वाजपेय शतस्य च ॥ १३२॥ गवां कोटि प्रदानस्य ज्योतिष्टोमस्य यत् फलम् । दशाश्वमेध यज्ञस्य फलं प्राप्नोति मानवः ॥ १३३॥ सहस्रनामस्तोत्रस्य पुस्तकानि ददाति तः । ब्राह्मणेभ्यस्तु सम्पूज्य तस्य लक्ष्मी स्थिरो भवेत् ॥ १३४॥ लभते राजसम्मानं व्यापारस्य फलं लभेत् । राजसन्मानं प्राप्नुयाच्च गतां लक्ष्मी सर्वज्ञविजयी भवेत् ॥ १३५॥ चतुर्दश्यां प्रदोषे च शिवं गोरक्ष संज्ञितम् । पूजयेद्विविधाचारैर्गन्धपूष्पादिभिर्नरः ॥ १३६॥ संस्थाप्य पार्थिवं लिङ्गं गोरक्ष जगद्गुरोः । भक्तया समर्चयेन् नित्यं साधकः शुद्ध मानसः ॥ १३७॥ स्तोत्रपाठं प्रकुर्वीत कारयेद् ब्राह्मणैस्तथा । सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ १३८॥ ध्यायेदन्ते महेशानं पूजयित्वा यथाविधि । ब्राह्मणान् पूजयेत्तत्र धनवस्त्रादिभिः शुभैः ॥ १३९॥ ध्यानम् - यस्मादुद्भवती दमद्भ त तमं येनैव तत्पाल्यते यस्मिन् विश्वमिदं चराचरमयं संलोयते सर्वथा । ब्रह्माविष्णुशिवादयोऽपि न पर पारं गता यस्य ते गोरक्षप्रभवं परात्परतरं शून्यं परं धीमहि ॥ १४०॥ ॥ इति श्रीकल्पद्रुमतन्त्रे महासिद्धिसारे महर्षि गर्गप्रोक्तं निरञ्जनात्मकं श्रीगोरक्षसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by DPD, NA
% Text title            : shrIgorakSha sahasranAmastotra
% File name             : gorakShasahasranAmastotra.itx
% itxtitle              : gorakShasahasranAmastotram (shrIkalpadrumatantrAntargatam gargaproktam)
% engtitle              : gorakShasahasranAmastotram
% Category              : sahasranAma, deities_misc, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Texttype              : stotra
% Author                : maharShi gargaproktaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, NA
% Source                : shrIkalpadrumatantre mahAsiddhisAre 
% Latest update         : August 5, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org