गुरुपरम्परापरिचयः

गुरुपरम्परापरिचयः

(वाराणसीस्थ श्रीध्रुवेश्वरमठीय गुरुपरम्परापरिचयः) नारायणं पद्मभवं वसिष्ठं शक्ति च तत्पुत्रपराशरञ्च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ १॥ श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकञ्च शिष्यम् । तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ २॥ विप्राग्रणीं जोधपुरीयविप्रवंशोद्भवं मानगिरिं यतीन्द्रम् । ध्रुवेश्वरस्थापकसद्गुरोर्गुरुं श्रियोऽधिवासं प्रथमं प्रणौम्यथा ॥ ३॥ पाञ्चालभूदेवकुलोद्भवं तं प्रणौम्यथामेघगिरिं द्वितीयम् । ध्रुवेश्वराधीशगुरुं यतीन्द्रं श्रीभारतीयुग्मसमाश्रयञ्च ॥ ४॥ अथात्र काश्यां विबुधाश्रयार्थं ध्रुवेश्वराख्यं भवनं भवस्य । संस्थापितं यैश्च ससाधुवादं विद्याविनोदाय सुविस्तृतं तम् ॥ ५॥ पञ्चाम्बुदेशीयसुविप्रवंशसमुद्भवं रामगिरिं तृतीयम् । संस्थापकं नौमि तपोऽधिवासं रेवाडिनामाञ्चलजातरत्नम् ॥ ६॥ श्रीसच्चिदानन्दगिरिं तुरीयं तुरीयवर्णाश्रममण्डनञ्च । यद्राजपुत्रेऽस्ति पुरं प्रसिद्धं जयाभिधं तत्र धृतावतारम् ॥ ७॥ येनान्नसत्राणि विनिर्मितानि सप्तानि सत्सेवनतत्पराणि । सम्प्रेरयन्भक्तवरान्स्वकीयाननन्तजन्मोदितपुण्यपुञ्जान् ॥ ८॥ शिष्यं हि तेषाममरेश्वराख्यं ध्रुवाधिपं पञ्चममानतोऽस्मि । श्रीमन्मनीशाख्ययतिं च षष्ठं पञ्चाम्बुविप्रान्वयलब्धकायम् ॥ ९॥ अद्वैतवेदान्तविलासभाष्यकारैरथाद्यैः समधिष्ठितं यत् । निरञ्जनं पीठमनादिविद्याप्रकाशबिम्बं समधिष्ठितं यत् ॥ १०॥ योगीन्द्रं तमनन्तपादनिलये लीनं प्रणम्यादरात् पीठाधीशमथाष्टमं यतिवरं श्रीमन्नृसिंहं भजे ॥ ११॥ अद्वैतं दुरितार्दने द्वयमपि प्रत्यक्षतो यत्पदं सत्यश्चापि विमोहचौर्यचतुरा वाचो यदीयास्तथा । दत्ताशेषजनाभयोऽपि निरतः संसारनिःशेषणे यः सोऽयं यतिभूपतिर्विजयते श्रीमन्नृसिंहाधिपः ॥ १२॥ बाल्यादेव तिरस्कृतं भवसुखं येनाश्रिता ब्रह्मदृक् यस्मिन्नित्यसुखाम्बुधौ बुधजनाः नित्यं निमग्नाः सदा । कीर्तिर्यस्य सुविस्तृता धवलिता चानिर्जगन्तादिह सोऽयन्नः परमो गुरुर्विजयते श्रीमन्नृसिंहाधिपः ॥ १३॥ कालिन्द्याः पुलिने विशालभवने प्रोत्तुङ्गश‍ृङ्गाङ्किते यस्मिन्नादनिबद्धयन्त्रघटिका वैतालिको राजते । विद्यादानपरायणैर्यतिवरैः श्रीमन्नृसिंहाभिधैः विद्यापीठमधिष्ठितं सुललितं श्रीविश्वनाथाह्वयम् ॥ १४॥ यास्मिन्सौरभपूरिता सुफलदा रम्या शुभा वाटिका विश्रामार्थविनिर्मिता कुसुमिता भृत्यैः सदा सेविता । विद्यापाठपरायणा वटुवरास्तस्मिन्वसन्तोऽव्ययां विद्यामाकलयन्ति हे बहुविधां धर्मार्थमोक्षप्रदाम् ॥ १५॥ मध्ये वर्तुलवेष्टितो ह्युपवने विश्रामकार्यालय- स्तस्याग्रे च विशालयज्ञभवनं यनिर्मितं नूतनम् । छात्राश्चात्र सदा चरित्रविषयेऽचिन्त्यञ्चयञ्चेतसि लोकाचारविचारचारुचपलाश्चिन्वन्ति चिन्मङ्गलाः ॥ १६॥ तत्राराच्च विनिर्मितः सुललितः श्रीविश्वनाथालयः संन्यासाश्रमनामकञ्च भवनं धर्माथिभिर्निर्मितम् । सायम्प्रातरखण्डशास्त्रविषये यस्मिन् रताः सज्जनाः श्रुत्वा श्रौतवचश्चतुर्थफलदं साध्यं फलं यान्ति ते ॥ १७॥ देहल्यामितिसर्वसंस्कृतमहाविद्यालयो नाऽपरः एवन्नापरमस्ति साधनयुतं स्थानं क्वचिच्छोभनम् । श्रीविद्यायुगलं हि यत्र रमते शश्वत्सुशङ्कारकं यस्याऽयं सुनिरीक्षको विजयते श्रीमन्नृसिंहेश्वरः ॥ १८॥ काश्यामप्यतिविस्तृतं बुधवरैः संसेवितं सादरं विद्यापीठमधिष्ठितञ्च सुखदं ग्रन्थालयो नूतनः । दिव्यं यत्र विराजते ह्युपवनं देवालयञ्चादिमं यस्मिन्विश्वगुरुर्भवो विजयते श्रीदक्षिणामूर्तिभृत् ॥ १९॥ आसीत्पूर्वमिदं सुजीर्णमभितो ध्वंसावशेषायितं यत्रेदं भवनं नवं विरचितं यत्नैश्च येनात्मनः । रक्षार्थ हि समर्पितं बहुधनं सद्भक्तवृन्दार्पितं सोऽयन्नः परमो गुरुर्विजयते पीठाधिपश्चाष्टमः ॥ २०॥ यं भक्ताः समुपासते सुमनसा स्वाभीष्टसंसिद्धये स्वात्मानन्दविवृद्धयेऽपि यमिनो वैराग्यरागान्विताः । सच्छास्त्राम्बुधिपारगा अपि सदा स्तुन्वन्ति यं सादरं वन्देऽहं तमखण्डबोधविभवं श्रीमन्नृसिंह गुरुम् ॥ २१॥ रामानन्दगिरिं गिरन्तमनिशं ब्राह्मीं गिरं सादरं विद्याधीश्वरमुत्तरापथधराविप्रात्मजं सप्तमम् । राजस्थानधरामरान्वयभवः श्रीमन्महेशाधिपः पीठाधीश्वरचक्रवर्त्यनुपमः संरक्षको राजते । ज्ञानं यस्य नवानवं सुविमलं वैदेशिकं दैशिकं मर्त्यानां प्रहिनस्ति दर्पभरितं ह्यज्ञानमेकान्ततः ॥ २२॥ येषाञ्चामृतपूरितां मृदुगिरां श्रुत्वैव मुक्तिप्रदां मुञ्चन्तो भवबन्धनं मुनिपथं प्रायान्तिं भक्ताभृशम् । तेषां सज्जनचेतसां श्रुतिविदां सम्प्राप्य संरक्षणं विश्वासः खलु नः समुन्नतिपदं प्राप्स्यन्ति पीठादयः ॥ २३॥ भाले यस्य सुशोभितं सुभसितं तापापहं चन्दनं वस्वाधिक्यशतं गले विलुलितं रुद्राक्षमाल्यं सदा । कौशेयश्च य सुप्रभासितमतो बालार्ककान्तं वपु- स्तं वन्दे नवमं निरञ्जनपतिं श्रीमन्महेशाधिपम् ॥ २४॥ त्यक्त्वा दुःखावलोढं भवविभवमुखं शैशवादेवपूर्णं यैराचारैः स्वकीयैरथ सुजनमनस्तोषपोषौ जुषाणम् । दिव्यं विज्ञानमाध्यात्मिकमखिलसुखाभासमूलं ह्यधीतं तं कृष्णानन्दपादं वयमभिनवमाचार्यवयं भजामः ॥ २५॥ नानाविद्यानिवासं नवयुगयुवकोत्साहवादस्वभावं श्रौतस्मार्तादिकर्मस्वविरतनिरतं ब्रह्मविद्याविलासम् । नित्यं गीर्वाणवाणीविपिनहृतसुधासौरभापूरितास्यं कृष्णानन्दं गिरिं तं वयमभिनवमाचार्यवयं नमामः ॥ २६॥ यदीयवानिर्झरिणी समुज्झयत्युपेतचेतः कलुषाण्यशेषतः । तमः समुद्ध्य ददातु सद्धियं नृसिंहसंज्ञो यतिवासवः स वः ॥ २७॥ इति गुरुपरम्परापरिचयः सपूर्णः । Proofread by Mohan Chettoor
% Text title            : Guru Parampara Parichayah
% File name             : guruparamparAparichayaH.itx
% itxtitle              : guruparamparAparichayaH (vArANasIstha shrIdhruveshvaramaThIya)
% engtitle              : guruparamparAparichayaH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org