गुरुतत्त्वमालिका
दुःसाधे निखिलैः सुरैः स्मृतिभुवाप्यन्योन्यसङ्घट्टने
विश्लेषव्यथया द्वयोरपि वपुष्यर्धार्धशेषे शनैः ।
धीमद्भिस्त्वरया पुराणमुनिभिः पाणिग्रहे साधिते
दिष्टया यच्छिवयोरियत्यवसितद्वन्द्वं तदेकं नुमः ॥ १॥
नीलग्रीवमुमासखं त्रिणयनं रूपं यदाद्यं विभो-
र्दुःसंरोधभवप्रवाहलहरीकन्देन किं तेन नः ।
कारुण्यार्द्रकटाक्षवीक्षणकलानिर्धूतमायामलां
गीर्वाणेन्द्रगुरोः प्रसन्नललितां मूर्ति स्मरामः पराम् ॥ २॥
साम्नो नास्ति गतिर्गिरामविषये दानं विरक्ते मुधा
भेदः किं क्रमते निरस्तनिखिलद्वैतप्रपञ्चे शिवे ।
इत्यालोच्य वशे विधातुमिव तं जग्राह दण्डं दृढं
गीर्वाणेन्द्रयतिः सुनिर्मलमतिः सन्त्यज्य सर्वाः क्रियाः ॥ ३॥
ध्यात्वा यं हृदि दण्डिनं विजहति स्वप्नेऽपि दण्डस्पृहां
यत्काषायपटस्मृतिः शमयते सद्यः कषायं नृणाम् ।
यं साक्षाद्भवरूपमेव भजतां न क्वापि भूयो भवो
गीर्वाणेन्द्रगुरुं तमेव निभृतं ध्यायेम गायेम च ॥ ४॥
तत्त्वस्थानकलापदाक्षरमनून् शैवान् षडप्यध्वनः
संशोध्यैव चिरन्तनैश्च गुरुभिः केचित्क्वचित्तारिताः ।
एकेनैव तु सारसङ्ग्रहकृतिव्यक्तेन मन्त्राध्वना
गीर्वाणेन्द्रगुरुर्विशृङ्खलमवत्याप्रौढमूढं जगत् ॥ ५॥
ब्रह्मिष्ठानपरान्मुनीनिव परिज्ञाय स्वमायस्यतः
कन्दर्पस्य समन्ततो निपतिता मोघाः शरौघा इव ।
दृश्यन्ते करुणाकटाक्षकमलग्रामा विरामाः शुचां
यस्येमे प्रणमेम तं भवगिरां वैदेशिकं देशिकम् ॥ ६॥
उद्भूतस्मितमुत्प्रबन्धकरुणाकल्लोललोलेक्षणं
त्रय्यन्तामृतवर्षि धर्षितपराहङ्कारशङ्कारवम् ।
एकं तद्वदनाम्बुजं कुलगुरोर्भक्त्या निदिध्यासतः
पञ्चाहो परितः स्फुरन्ति युगपद्वक्त्राणि चित्राणि मे ॥ ७॥
स्वीकर्तुं चरणोदकं चरणयोर्मार्ष्टुं रजः पावनं
मूर्ध्ना धारयितुं चिराय चरणौ हेमाब्जसामाजिकौ ।
स्वामिन् मे जनुषां शतैरपि तृषा नापैति जन्मैव तु
द्वैतीयीकमलभ्यमेव भवता भक्तेष्वचित्ते कृतम् ॥ ८॥
कृच्छ्राणि प्रदिशन् सकृच्छ्रवणतः कृच्छ्राणि हन्ति स्वतः
कर्माणि ग्रसते समूलमपि नः कर्माणि सिद्धिं नयन् ।
गीर्वाणेन्द्र इति श्रुतः श्रुतिषु यः सर्वासु निर्वाणदो
मन्त्रोऽयं चतुरक्षरो मम भवत्वाश्वासमाश्वासनम् ॥ ९॥
रूपं यस्य किलोद्वहन्नुपदिशत्यात्मैक्यमस्मादृशां
स्वे रूपे विमना मनागिव शिवोऽप्यश्रान्तमायाश्रये ।
तस्य श्रीगुरुराजराजपदवीभद्रासनाध्यासिनो
गीर्वाणेन्द्रयतेर्यतेमहि पदद्वन्द्वे नियन्तुं मनः ॥ १०॥
देवेभ्यः शतशो ददावमृतमित्यद्यापि या स्तूयते
मूर्तिं तामपि मोहिनीति हि विदुर्नारायणीयां जनाः ।
मोहग्राहहरा दृशैव शुभया मूर्तिस्तु नः श्रीगुरो-
गीर्वाणेन्द्र इति श्रुता तनुभृतां वृत्तेऽमृतं गृह्यताम् ॥ ११॥
आप्राणोपरमं प्रतीक्ष्यमथ च ज्ञानोपदेशः शिवात्
काश्यां----- भैरवभटा कर्षन्ति चेन्नान्तरा ।
गीर्वाणेन्द्रगुरोस्तु पादकमलं भक्त्या सकृत्पश्यतां
सिद्धं ब्रह्म करारविन्दवदिति व्यक्तं प्रविज्ञायताम् ॥ १२॥
राज्यस्थाजनि पादुका रघुपतेरित्येव चित्रीयते
तद्राज्यं कियदन्वभूयत कियत्कालं न तद्गण्यते ।
पश्यास्मद्गुरुपादुका भवमलावच्छेदविच्छेदिनी
ब्रह्मानन्दमहाधिराज्यपदवी दत्चे सकृच्चिन्तिता ॥ १३॥
निष्कृष्टाखिलदर्शनाः कियदितो विज्ञेयमित्याकुलाः
प्रापुस्तत्त्वमसीति वाक्यहृदयज्ञानाय यत्सन्निधिम् ।
प्रागालोच्य समुत्थितार्थकणिकामात्रे पुनः स्थापिते
निर्वृण्वन्ति विपश्चितः स भगवान् गीर्वाणयोगीश्वरः ॥ १४॥
न स्थातुं निभृतं क्षणोऽपि सुलभः पत्युः पदे श्रीगिरो
रावां कुत्र नियोक्ष्यते स गुरु रित्याज्ञाक्षरापेक्षयोः ।
तस्मादापतिते तनू अपि पदि] तस्य व्रतस्थे बला-'
दारूढे चरमाश्रमं पशुपतावस्मद्गुरोरात्मना ॥ १५॥
ज्ञानेन्दुयदि मौलिगो यदि मृगो भूत्वा करस्था श्रुतिः
सर्वज्ञो न भवेत्क इत्यपहसन् --- योच्छित्तये ।
पाणावेणकिशोरकं परिहरन्मौलौ कलां चैन्दवीं
गीर्वाणेन्द्रगुरुर्भवन्विवृणुते सार्वैयमीशोऽधुना ॥ १६॥
सर्वानुश्रवसारसागरमहामाहेश्वराग्रेसरः
श्रीमच्छङ्करपादसूक्तिहृदयाविष्कारनिष्णातया ।
यः कृत्या निजया जहार हृदयं विश्वस्य विश्वस्य तं
गीर्वाणेन्द्रगुरुं कृताकृतभयोच्छेदात्प्रमोदामहे ॥ १७॥
अस्तद्वैतकलङ्कपङ्कमपि यज्योतिः परं ज्योतिषां
तच्चावृत्य निवृत्तशङ्कमधुनाप्युगाढरूढं तमः ।
यद्वाचा विलयं निरंशमयते गीर्वाणयोगीशितु
स्तस्य श्रीचरणारविन्दरजसा मार्जामि गीर्जामिताम् ॥ १८॥
आलिङ्गन्त्यपि सर्वभूतवशिनं यं वादिसङ्केतिताः
स्त्रीलिङ्गब्यतिषङ्गतोऽपि चकिता चिच्छक्तिगलिङ्गति ।
सम्पत्ति स किमीहते मम गुरुः श्रीकण्ठवैकुण्ठयोः
कैवल्यं स्खमिमौ कुतः कथयतस्तन्त्रेषु किं तेन तु ॥ १९॥
अन्तानन्तशरीरबन्धपरिवाहोपात्ततत्तच्छुभ
प्रारब्धार्थसमाजभाग्यफलितो यः शक्तिपातस्तरः ।
निर्णीतो यदि सोऽपि देशिकयापाङ्गप्रसङ्गाबह
स्तत्त्वं तर्हि गुरोः परं किमपि नेत्याख्यात बीतभ्रमाः ॥ २०॥
के लोके गुरवः --न्ति भुवि ये तिष्ठन्तु ते के पुनः
वर्णानां गुरवो द्विमात्रिकमुखा मूखोऽसि किं ब्रूमहे ।
अज्ञानप्रतिरोधको गुरुरिति ख्यातास्तु तन्त्रेषु के
गीर्वाणेन्द्रगुरुः स एव भगवानन्यं कमाचक्ष्महे ॥ २१॥
दृष्ट्या शिष्यतनौ गुरोः पतितया मौलिप्रभृत्यानखा-
द्दीक्षासु व्यवरोप्यते गरलवद्भारोऽखिलः पाप्मनाम् ।
सद्योनिर्मिततन्तुकम्बल वरन्यायेन किं ते जना
न्यस्ते मूर्ध्नि समुत्पतन्ति परथा हस्ते दृढ़ दण्डिना ॥ २२॥
-- -- पालनपरिक्लेशाः पितुः प्राश्नतो
बालस्य स्वयमास्थलग्नकबलग्रासो यथा केवलः ।
इत्थं श्रीगुरु- ---
तदृत्तामृतपाननिर्जितभवोदन्यास्तु धन्या वयम् ॥ २३॥
यस्मिन्न प्रभवन्त्यखण्डितमहास्वाच्छन्द्यवन्द्या गिर-
स्तत्र ब्र ----- ब्रह्मणि ।
ताः कर्णे पतिता ममापि कतिचिद्धन्ये किमन्येन मे
निश्चिन्तोऽस्मि गतज्वरोऽस्मि निखिलं तीर्णोऽस्मि पूर्णोऽस्मि च ॥ २४॥
------- मनून्
न्यस्यामो जुहुमः स्तुमो विचिनुमो ध्यायेम भद्रासने ।
विस्त्रम्भेमहि किं तु तत्पदयुगं .. -- .. --
गीर्वाणेन्द्रगुरोर्यथा हृदि तथा नत्यापि पक्का मतिः ॥ २५॥
कर्म ज्ञानमुपासना बहुविधा भक्तिः प्रपत्तिश्च वा
कामं जाग्रतु सार(भूतमवनौ यत्तत्परं) द्रक्ष्यताम् ।
सर्यारम्भपराङ्मुखस्य जरया भग्नस्य रुग्णस्य मे
गीर्वाणेन्द्रसरस्वतीचरणयोः चिन्ता पर तारिका ॥ २६॥
.. -- .. -- .. --- ब्रह्माङ्कपर्यङ्किनीं
मन्दस्पन्ददृगन्तरान्तमहितब्रह्माच्युताखण्डलाम् ।
निष्प्रत्यूहवहद्दयारसमयं दिव्यं वपुः श्रीगुरो-
गीर्वाणेन्द्रसरस्वतेर्भगवतीं वन्दे परां देवताम् ॥ २७॥
अस्ति मे मृगामृगाङ्कलञ्छितं
वस्तु किञ्चन कुलक्रमागतम् ।
तत्तु दृष्टमिति .. - .. -
.. - .. -- .. तामहम् ॥ २८॥
इति श्रीनीलकण्ठदीक्षितविरचिता गुरुतत्त्वमालिका समाप्ता ।
Proofread by Rajesh Thyagarajan