श्रीहरिहरात्मजाष्टकम् अथवा शास्तुः गीताष्टकम्
हरिवरासनं विश्वमोहनं
हरिदधीश्वरमाराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्रये ॥ १॥
शरणकीर्तनं भक्तमानसं
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकं
हरिहरात्मजं देवमाश्रये ॥ २॥
प्रणयसत्यकं प्राणनायकं
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ३॥
तुरगवाहनं सुन्दराननं
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ४॥
त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजं देवमाश्रये ॥ ५॥
भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणं
हरिहरात्मजं देवमाश्रये ॥ ६॥
कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम् ।
कलभकेसरी वाजिवाहनं
हरिहरात्मजं देवमाश्रये ॥ ७॥
श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसं
हरिहरात्मजं देवमाश्रये ॥ ८॥
॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
शास्ताष्टकम्
अय्यप्प निद्रास्तोत्रम्
There is extension found in some places
जयवियत्पते जयजगत्पते
जयदयानिधे जयजयार्यने ।
भूतनायक लोकनायक
हरिहरात्मजं देवमाश्रये ॥ ९॥
प्रणवमन्त्रमे प्रभवमूलमे Malayalam words with मे
ब्रह्मदैवमे धर्मदैवमे ।
ज्योतिरूपमे नादरूपमे
हरिहरात्मजं देवमाश्रये ॥ १०॥
अद्भुताकृते चिन्मयाकृते
निर्गुणाकृते निर्मलाकृते ।
मङ्गलाकृते मोहनाकृते
हरिहरात्मजं देवमाश्रये ॥ ११॥
अन्ननायक प्राणनायक
हृदयनायक ज्ञाननायक ।
सच्चिदात्मक विश्वनायक
हरिहरात्मजं देवमाश्रये ॥ १२॥
जननकारक विश्वरक्षक
नाशकारक वेदकारक ।
मोहिनीसुत धूर्जटीसुत
हरिहरात्मजं देवमाश्रये ॥ १३॥
वैष्णवेश्वर शैवपूजित
मण्डलेश्वर पण्डितेश्वर ।
कलियुगेश्वर केरलेश्वर
हरिहरात्मजं देवमाश्रये ॥ १४॥
श्यामकोमल कुटिलकुन्तल
जितरुचिर्मुख मदनमोहन ।
असिधनुर्धर मकुटभूषित
हरिहरात्मजं देवमाश्रये ॥ १५॥
विपिन्नमध्यक श्वापतावृत
मृगयतत्पर चटुललोचन ।
अश्ववाहन सैन्यसेवित
हरिहरात्मजं देवमाश्रये ॥ १६॥
शबरिवासने ध्याननिष्ठने
न्यासवृत्तने सर्वशक्तने । Malayalam words with ने
वरदनय्यने परमदैवमे
हरिहरात्मजं देवमाश्रये ॥ १७॥
भकतवत्सल शक्तिवर्धक
शत्रुनाशक मुक्तिदायक ।
पाहिपाहिमां पाहिपाहिमां
हरिहरात्मजं देवमाश्रये ॥ १८॥
शरणमय्यप्पा स्वामि शरणमय्यप्पा ।
हरिहरात्मजाष्टकम्
शास्तुः गीताष्टकम्
हरिवरासनम् शास्ताष्टकम्
हरिहरात्मज आशयाष्टकम्
अय्यप्प निद्रास्तोत्रम्
Encoded by Karthik Raman, NA
Proofread by Karthik Raman, Antaratma, NA, PSA Easwaran