श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
अस्य श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
श्रीहरिहरपुत्रो देवता । ह्रीं बीजम् ।श्रीं शक्तिः । क्लीं कीलकम् ।
श्रीहरिहरपुत्रप्रीत्यर्थे जपे विनियोगः ॥
ह्रीं इत्यादिभिः षडङ्गन्यासः ॥
ध्यानम् ॥
त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं
सितसुमशरपाशमिक्षुकोदण्डकाण्डम् ।
??घृतमधुपात्रं बिभ्रतं हस्तपद्मैः
हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिम् ॥
ॐ । महाशास्ता विश्वशास्ता लोकशास्ता तथैव च ।
धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥ १॥
गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः ।
गोप्तागीर्वाणसंसेव्यो गतातङ्को गणाग्रणीः ॥ २॥
ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः ।
दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥ ३॥
त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः ।
खण्डेन्दुमौळितनयः कल्हारकुसुमप्रियः ॥ ४॥
मदनो माधवसुतो मन्दारकुसुमर्चितः ।
महाबलो महोत्साहो महापापविनाशनः ॥ ५॥
महाशूरो महाधीरो महासर्पविभूषणः ।
असिहस्तः शरधरो हालाहलधरात्मजः ॥ ६॥
अर्जुनेशोऽग्निनयनश्चानङ्गमदनातुरः ।
दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥ ७॥
कस्तूरीतिलको राजशेखरो राजसत्तमः ।
राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥ ८॥
वर्चस्करोवररुचिर्वरदो वायुवाहनः ।
वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥ ९॥
त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः ।
पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥ १०॥
फट्काररूपः पापघ्नः पाषण्डरुधिराशनः ।
पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥ ११॥
पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः ।
भवतापप्रशमनो भक्ताभीष्टप्रदायकः ॥ १२॥
कविः कवीनामधिपः कृपाळुः क्लेशनाशनः ।
समोऽरूपश्च सेनानिर्भक्तसम्पत्प्रदायकः ॥ १३॥
व्याघ्रचर्मधरः शूली कपाली वेणुवादनः ।
कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥ १४॥
धूर्जटिर्वीरनिलयो वीरो वीरेन्दुवन्दितः ।
विश्वरूपो वृषपतिर्विविधार्थफलप्रदः ॥ १५॥
दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः ।
सनकादिमुनिश्रेष्ठस्तुत्यो हरिहरात्मजः ॥ १६॥
इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Encoded by Antaratma antaratma at Safe-mail.net
Proofread by Antaratma, PSA Easwaran