श्रीहरिहरपुत्र उदाराष्टकम्
हरिकलभ तुरङ्ग तुङ्गवाहनं हरिमणिमोहनहारचारुदेहम् ।
हरिदधीपनतं गिरीन्द्रगेहं हरिहरपुत्रमुदारमाश्रयामि ॥ १॥
निरुपम परमात्मनित्यबोधं गुरुवरमद्भुतमादिभूतनाथम् ।
सुरुचिरतरदिव्यनृत्तगीतं हरिहरपुत्रमुदारमाश्रयामि ॥ २॥
अगणितफलदानलोलशीलं नगनिलयं निगमागमादिमूलम् ।
अखिलभुवनपालकं विशालं हरिहरपुत्रमुदारमाश्रयामि ॥ ३॥
घनरसकलभाभिरम्यगात्रं कनककरोज्वल कमनीयवेत्रम् ।
अनघसनकतापसैकमित्रं हरिहरपुत्रमुदारमाश्रयामि ॥ ४॥
सुकृतसुमनसां सतां शरण्यं सकृदुपसेवकसाधुलोकवर्ण्यम् ।
सकलभुवनपालकं वरेण्यं हरिहरपुत्रमुदारमाश्रयामि ॥ ५॥
विजयकर विभूतिवेत्रहस्तं विजयकरं विविधायुध प्रशस्तम् ।
विजित मनसिजं चराचरस्थं हरिहरपुत्रमुदारमाश्रयेहम् ॥ ६॥
सकलविषयमहारुजापहारं जगदुदयस्थितिनाशहेतुभूतम् ।
अगनगमृगयामहाविनोदं हरिहरपुत्रमुदारमाश्रयेहम् ॥ ७॥
त्रिभुवनशरणं दयापयोधिं प्रभुममराभरणं रिपुप्रमाथिम् ।
अभयवरकरोज्ज्वलत्समाधिं हरिहरपुत्रमुदारमाश्रयेहम् ॥ ८॥
जयजय मणिकण्ठ वेत्रदण्ड जय करुणाकर पूर्णचन्द्रतुण्ड ।
जयजय जगदीश शासिताण्ड जयरिपुखण्ड वखण्ड चारुखण्ड ॥ ९॥
इति श्रीहरिहरपुत्र उदाराष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor