हिमालयस्तुतिः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि ।
तन्नो हरिः प्रचोदयात् ॥
हिमालयप्रभावायै हिमनद्यै नमो नमः ।
हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ १॥
अलकापुरिनन्दायै अतिभायै नमो नमः ।
भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ २॥
सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः ।
देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ ३॥
देवदेवविनूतायै देवभूत्यै नमो नमः ।
देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥ ४॥
नमः श्रीरामभद्राय गङ्गातीरालयाय च ।
सर्वोत्कृष्टाय शान्ताय गभीराय नमो नमः ॥ ५॥
भागीरथ्यलकानन्दासङ्गमाभिमुखाय च ।
देवप्रयागदैवाय रघुनाथाय ते नमः ॥ ६॥
नमस्सीतावराजाय रामचन्द्राय विष्णवे ।
सर्वशक्तिप्रदात्रे च सर्वोन्नताय ते नमः ॥ ७॥
रुद्रप्रयागनाथाय नारदागीतशम्भवे ।
मन्दाकिन्यलकानन्दासङ्गमस्थाय ते नमः ॥ ८॥
मन्दाकिन्यभिषिक्ताय केदारलिङ्गमूर्तये ।
स्वयम्भूशैलरूपाय शिवाय ओं नमो नमः ॥ ९॥
श्रीयोगनरसिंहाय ज्योतिर्मठस्थिताय च ।
करावलम्बदैवाय श्रीलक्ष्मीपतये नमः ॥ १०॥
बदरीकाश्रमस्थाय नारायणाय विष्णवे ।
तपोभूमिप्रशान्ताय योगनिष्ठाय ते नमः ॥ ११॥
बदरीवननाथाय नरनारायणाय च ।
नरोद्धारणलीलाय नरानन्दाय ते नमः ॥ १२॥
हिमगङ्गालकानन्दाभिषिक्तयोगमूर्तये ।
बदरीश्रीमहालक्ष्मीतपोनाथाय ते नमः ॥ १३॥
हैमशेखरवृत्ताय नीलकण्ठनुताय च ।
वसुधाराप्रवाहाय पुराणाय नमो नमः ॥ १४॥
गीताचार्याय कृष्णाय वाचामगोचराय च ।
हिमालयप्रशान्तिस्थपरानन्दाय ते नमः ॥ १५॥
सदालीनमनस्स्थाय सदानन्दप्रशान्तये ।
सदात्मानन्दबोधाय श्रीकृष्णाय नमो नमः ॥ १६॥
मङ्गलं हिमरागायै गङ्गामात्रे सुमङ्गलम् ।
मङ्गलं शिवसद्धाम्ने गङ्गाधराय मङ्गलम् ॥ १७॥
मङ्गलं वासुदेवाय बदरीवनमालिने ।
मङ्गलं श्रीसमेताय नारायणाय मङ्गलम् ॥ १८॥
मङ्गलं पूर्णशोभाय हिम्याचलाय मङ्गलम् ।
मङ्गलं सौम्यगङ्गाय मोक्षधाम्ने सुमङ्गलम् ॥ १९॥
मङ्गलं रागहिम्याय नादगङ्गाय मङ्गलम् ।
मङ्गलं त्यागराजाय पुष्पार्चिताय मङ्गलम् ॥ २०॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
हिमालयस्तुतिः गुरौ समर्पिता ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan