श्रीजयतीर्थस्तुतिः
धाटी श्रीजयतीर्थ-वर्य-वचसां चीटीभवत्-स्वर्धुनी
पाटीरानिल-फुल्ल-मल्लि-सुमनो-वाटी-लसद्-वासना ।
पेटी युक्त-मणि-श्रियां सुमतिभिः कोटीरकैः श्लाघिता
सा टीका-निचयात्मिका मम चिरादाटीकतां मानसे ॥ १॥
टीकाकृज्जयवर्य संसदि भवत्येकान्ततो राजति
प्राकाम्यं दधते पलायन-विधौ स्तोकान्य-शङ्का द्विषः ।
लोकान्धीकरण-क्षमस्य तमसः सा काल-सीमा यदा
पाकाराति-दिशि प्ररोहति न चेद् राका-निशा-कामुकः ॥ २॥
छाया-संश्रयणेन यच्चरणयोरायामि-सांसारिका-
पायानल्पतमातप-व्यतिकर-व्यायाम-विक्षोभिताः ।
आयान्ति प्रकटां मुदं बुध-जना हेयानि धिक्कृत्य नः
पायाच्छ्रीजयराड् दृशा सरस-निर्मायानुकम्पार्द्रया ॥ ३॥
श्रीवाय्वंश-सुवंश-मौक्तिकमणेः सेवा-विनम्र-क्षमा-
देवाज्ञान-तमो-विमोचन-कला-जैवातृक-श्री-निधेः ।
शैवाद्वैत-मताटवी-कवलना-दावाग्नि-लीला-जुषः
को वादी पुरतो जयीश्वर भवेत् ते वाद-कोलाहले ॥ ४॥
नीहार-च्छवि-बिम्ब-निर्गत-कर-व्यूहाप्लुतेन्दूपला-
नाहार्य-स्रुत-नूतनामृत-परीवाहालि-वाणी-मुचः ।
ऊहागोचर-गर्व-पण्डित-पयो-वाहानिल-श्री-जुषो
माहात्म्यं जयतीर्थ वर्य भवतो व्याहारमत्येति नः ॥ ५॥
मन्दारु-क्षिति-पाल-मौलि-विलसन्मन्दार-पुष्पावली-
मन्दान्य-प्रसरन्मरन्द-कणिका-वृन्दार्द्र-पादाम्बुजः ।
कुन्दाभामल-कीर्तिरार्त-जनता-वृन्दारकानोकहः
स्वं दासं जयतीर्थ-राट् स्व-करुणा-सन्दानितं मां क्रियात् ॥ ६॥
श्री-दाराङ्घ्रि-नतः प्रतीप-सुमनो-वादाहवाटोप-नि-
र्भेदातन्द्र-मतिः समस्त-विबुधामोदावली-दायकः ।
गोदावर्यदयत्-तरङ्ग-निकर-ह्री-दायि-गम्भीर-गीः
पादाब्ज-प्रणते जयी कलयतु स्वे दास-वर्गेऽपि माम् ॥ ७॥
विद्या-वारिज-षण्ड-चण्ड-किरणो विद्या-मद-क्षोदयद्-
वाद्याली-कदली-भिदामर-करी हृद्यात्म-कीर्ति-क्रमः ।
पद्या भोध-ततेर्विनम्र-सुर-राडुद्यान-भूमी-रुहो
दद्याच्छ्रीजयतीर्थ-राड् धियमुतावद्यानि भिद्यान्मम ॥ ८॥
आभासत्वमियाय तार्किक-मतं प्राभाकर-प्रक्रिया
शोभां नैव बभार दूर-निहिता वैभाषिकाद्युक्तयः ।
ह्रीभारेण नताश्च सङ्कर-मुखाः क्षोभाकरो भास्करः
श्री-भाष्यं जय-योगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥ ९॥
बन्धानः सरसार्थ-शब्द-विलसद्-बन्धाकराणां गिरां
इन्धानोऽर्क-विभा-परिभव-झरी-सन्धायिना तेजसा ।
रुन्धानो यशसा दिशः कवि-शिरः-सन्धार्यमाणेन मे
सन्धानं स जयी प्रसिद्ध-हरि-सम्बन्धागमस्य क्रियात् ॥ १०॥
सख्यावद्-गण-गीयमान-चरितः साङ्ख्याक्षपादादि-निः-
सङ्ख्यासत्-समयि-प्रभेद-पटिम-प्रख्यात-विख्याति-गः ।
मुख्यावास-गृहं क्षमा-दम-दया-मुख्यामल-श्री-धुरां
व्याख्याने कलयेद् रतिं जयवराभिख्या-धरोमद्-गुरुः ॥ ११॥
आसीनो मरुदंश-दास-सुमनो-नासीर-देशे क्षणाद्
दासीभूत-विपक्ष-वादि-विसरः शासी समस्तैनसाम् ।
वासी हृत्सु सतां कला-निवह-विन्यासी ममानारतं
श्री-सीता-रमणार्चकः स जयराडासीदतां मानसे ॥ १२॥
पक्षीशासन-पाद-पूजन-रतः कक्षीकृतोद्यद्-दयो
लक्ष्मीकृत्य सभा-तले रटदसत्-पक्षीश्वरानक्षिपत् ।
अक्षीणं-प्रतिभा-भरो विधि-सरोजाक्षी-विहाराकरो
लक्ष्मीं नः कलयेज्जयी सुचिरमध्यक्षीकृताधोक्षजाम् ॥ १३॥
येनागाहि समस्त-शास्त्र-पृतना-रत्नाकरो लीलया
येनाखण्डि कुवादि-सर्व-सुभट-स्तोमो वचः-सायकैः ।
येनास्थापि च मध्व-शास्त्र-विजय-स्तम्भो धरा-मण्डले
तं सेवे जयतीर्थ-वीरमनिशं मध्वाख्य-राजादृतम् ॥ १४॥
यदीय-वाक्-तरङ्गाणां विप्लुषो विदुषां गिरः ।
जयति श्रीधरावासो जयतीर्थ-सुधाकरः ॥ १५॥
सत्यप्रिय-यति-प्रोक्तं श्री-जयार्य-स्तवं शुभम् ।
पठन् सभासु विजयी लोके ख्यातिं गमिष्यति ॥ १६॥
॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुतिः समाप्ता ॥