श्री भगवान् कालसहस्रनामस्तोत्रम्
विरचयिता पं. जलाली कौल जियालालः
अथ श्री कालसहस्रनामामुखम् ।
इदं श्री कालसहस्रनाम सर्व कालवादिनां कल्याणार्थे विरचितं अस्य
नित्यपाठेन पाठकस्य भक्तस्य ईप्सिताभिलाषः सिद्ध्यते । कालवादिनः
कालभक्ताश्च कालपूजाविषये सुपरिचिताः । आङ्गलभाषायां
प्रकाशनीयाया मद्रचनाया अध्ययनेन कालवादिनां मतं स्पष्टं ज्ञायते ॥
श्री कालो भीषणरूपधरो भयङ्करो महाकालो नितान्तं जीवस्यान्तकर इति
एतादृश्येन भावेन कदापि न दृष्टव्यो न च मन्तव्यः । श्रीकालस्य
द्वे रूपे । भौतिकमभौतिकञ्च । द्रव्यात्मकमद्रव्यात्मकञ्च ॥
भौतिकं स्पष्टम् । अभौतिकं मार्गितव्यम् । अन्तानन्त्यमस्य भौतिकं
रूपं गुणञ्च । कालो हि जगत्कर्ता जगद्भर्ता जगद्धर्ता इति । हर्तृ
शब्देन सर्वनाशो वा मूलनाशो न विद्यते । केवलविकारो विकारस्य
विकारो निरन्तरं विकारः प्रस्तूयते । एतद्भौतिकस्थूलरूपम् ॥
अस्थूलं सत्यम् । अनन्तानन्त्यमभौतिकं रूपम् । तदेव ज्ञातव्यं
परिमार्गितव्यञ्च । स एव ईश्वरो यन्ता नियन्ता स्वशक्तिं खं
धृत्वा पञ्चभूतानि पञ्चतत्त्वानि प्रयुनक्ति । विपर्ययविकारः
पुनर्विपरिणामे विलीयति । तदुद्भवनम् । उद्भवनं सृष्टिरुच्यते ।
वस्तुतो विकार उद्गीयते । अभौतिकं नित्यं सत्यं विकारहीनं शान्तिमयं
सुखानन्दरूपं कालयोगिनां शाश्वतालयं यं प्राप्य कालभक्तो न
निवर्तते किन्तु तत्रैव रमते स्वेच्छया वर्तते च ॥
तं भगवन्तं कालमाद्यमध्यान्तरहितं देवं दिव्यात्मशक्तिं
मनसा ध्यात्वा सर्वकालभक्तानां कालवादिनां च हितार्थं एतन्नाम
सहस्रपाठेन प्रार्थये इति ।
जलाली निवास, निवेदकः ।
करणनगर-श्रीनगरतः । जलाली कौल जियालालः ।
अथ श्रीकालसहस्रनाम प्रारभ्यते ॥
कालोऽहं
अस्य श्रीकालनामाष्टोत्तरसहस्रस्य अनन्त ऋषिः, अनुष्टुप् छन्दः,
अक्षरात्मा देवता । द्रव्यं बीजं। खं शक्तिः, सर्वमूलं कीलकम् ।
आत्मनों वाङ्मनःकायोपार्जितमननिवारणार्थ भगवान् कालप्रीत्यर्थे
अमुककामनासिद्धयर्थं पाठे होमे वा विनियोगः ॥
अथ न्यासः -
कालोऽहं अङ्गुष्ठाभ्यां नमः इत्यादि ॥
अथ प्राणायामः । कालोऽहमिति मन्त्रेण ॥
अथ ध्यानम् -
किरीटिनं चक्रधरं चतुर्भुजन्त्रिलोचनमक्षधरं सपात्रकम् ।
द्रव्यात्मकं शून्यमयं परात्परं नमामिकालं वरदं प्रसन्नमम् ॥
अथ गायत्री -
द्रव्यात्मकाय विद्महे । खमात्मकाय धीमहि ।
तन्नः सर्वव्यापकः प्रचोदयात् ॥
अथ पाठः -
ॐ कालोऽहं कालकालोऽहं कालरूपः कलात्मकः ।
कलनात्मककालज्ञः केवलः कालनायकः ॥ १॥
चिदानन्दक्रियाज्ञानमिच्छाशक्तिस्वरूपकः ।
एकानेकोऽद्वयो नित्यो बुद्ध्याऽपरिमितोऽमितः ॥ २॥
अनाद्यानन्तकूटस्थः पुराणः पुरुषोत्तमः ।
शाश्वतः शाश्वतानन्दः कैवल्योऽकेवलोऽकुलः ॥ ३॥
जगदीश्वर सूत्रात्मा वेदात्मा श्रुतिपारगः ।
कर्ताऽभोक्ता सदासाक्षी विधाता परमेश्वरः ॥ ४॥
त्रिकालस्थूलरूपज्ञस्त्रिकालभ्रमकारकः ।
प्रथमः प्रथमशब्दः स्वप्रकाशः प्रकाशमान् ॥ ५॥
चराचरमयोऽमायी सततं मुनिचिन्तितः ।
एकरूपो बृहद्रूपः सरूपो रूपवर्जितः ॥ ६॥
सर्वशक्तिमयदेवः सर्वात्मा सर्वतोमुखः ।
परमः परमानन्दः सर्वेशः सर्वभावनः ॥ ७॥
गोपस्थो गोचरो गुप्तो गोपनीयो गुहाशयः ।
सर्वत्र सर्वगः सर्वः सुगमो दुर्गमोऽगमः ॥ ८॥
श्रीस्तुतः श्रीधरः श्रीदः शरणागतवत्सलः ।
सर्वसिद्धिप्रदः शक्तो विशिष्टनवसिद्धिदः ॥ ९॥
आधिव्याधिहरईशस्तापत्रयनिवारकः ।
भक्तानां परमोपायः सुखानन्दः सुखार्णवः ॥ १०॥
हेमवर्णश्चतुर्बाहुस्त्रिनेत्रा विशदप्रभः ।
पीताम्बरः श्वेतवासा कस्तूरीकुङ्कुमप्रियः ॥ ११॥
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानविज्ञानचेतनः ।
ज्ञानाकारो ज्ञानमूर्ति ज्ञानाज्ञानपरोऽपरः ॥ १२॥
योगेन्द्रो योगिराट् योगी योगिनां शाश्वतालयः ।
कोमलः कुन्तलः कान्तः कामदः कामकारकः ॥ १३॥
निर्ममो निष्क्रियोऽनन्तो निर्विकारो विकारकृत् ।
निष्कलो निस्पृहो मेध्यो निष्प्रपञ्चो निरास्पदः ॥ १४॥
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ।
अखिलो निखिलानन्दो बुद्धिदो बुद्धिसत्तमः ॥ १५॥
सर्वश्रेष्ठगुणोपेतः कामाचारः समन्ततः ।
प्रवीणः कोविदः प्राज्ञः सर्वमङ्गलमङ्गलः ॥ १६॥
निरालम्बो निरावासो निराभासो निराश्रयः ।
निरातङ्को निराकामो निराधारो निराकुलः ॥ १७॥
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगत्पतिः ।
जगत् त्राता जगच्छास्ता जगद्बन्धुर्जगत्पिता ॥ १८॥
जितेन्द्रियो जितप्राणः सर्वाग्र्यः सर्वनायकः ।
सर्वकामप्रदः कामः पूर्णकामः परन्तपः ॥ १९॥
श्वासोच्छ्वासगतिर्यन्ता प्राणायामी पुरातनः ।
पञ्चप्राणपतिप्राणः प्राणदः प्राणवल्लभः ॥ २०॥
अमूर्तोमूर्तिमान्मूर्तिस्तुरीयस्तमसःपरः ।
अजेयः सर्वजिज्जेता अक्षरात्मा क्षयोऽक्षयः ॥ २१॥
स्वरव्यञ्जनवर्णात्मा शब्दो वाक्यं रसामृतम् ।
वाक्पटुर्मूकवाचालो निपुणः कुशलोऽक्षमः ॥ २२॥
अजरो निर्जरोऽमर्त्यः सदास्थायी सनातनः ।
अमरो विजरो भौमो नित्ययुक्तो निरञ्जनः ॥ २३॥
भीष्मरूपधरो घोरः सर्वविघ्नविनाशनः ।
समुखो दुर्मुखो धीरः शोकसङ्कटहारकः ॥ २४॥
मन्त्रज्ञो यन्त्रतन्त्रज्ञः सर्वशास्त्रविदांवरः ।
श्रुतिवेदाङ्गनिर्माता निगमागमदर्शनम् ॥ २५॥
अलोको लोकपालेशो लौकिको लोकनन्दनः ।
नियन्ताऽसङ्ख्यलोकानां सलोको लोकवर्जितः ॥ २६॥
विश्वेश्वरो विश्वजीवो विश्वनेत्रो विशाम्पतिः ।
पूतात्मा पूतकृत्पुण्यः पुण्यशीलः परावरः ॥ २७॥
भूधरो भूपति भूमा भरतो भारतेश्वरः ।
अल्पो हिमालयो विन्ध्यो जलस्थलविभाजकः ॥ २८॥
अन्तानन्तो विशिष्टेष्टो जीवजन्तुनमस्कृतः ।
सदातुष्टः सदाशान्तः सदातृप्तः सदार्चितः ॥ २९॥
महावीरो महेष्वासो महापूरुषपूर्वजः ।
महादेहो महाबाहुर्महज्ज्योतिर्महद्यशः ॥ ३०॥
महासीनो महाचित्तो महासत्त्वो महातपः ।
महानन्दो महाकायो महद्योनिर्महद्बलम् ॥ ३१॥
सत्यसङ्कल्पमारूपः सत्यकामो विभूषकः ।
सत्यदेवः सत्यशीलः सत्यरूपः सुदर्शनः ॥ ३२॥
भूतस्थः सर्वभूतात्मा प्रत्यक्षोऽव्यक्तितः पृथक् ।
धीमयोऽसाध्यसम्भाव्यः सत्यसन्धो महाजनः ॥ ३३॥
परन्ततत्त्वं परंज्ञानं परंश्रेयः परम्प्रभः ।
परंसत्यं परन्धाम परंशान्तिः परम्पदम् ॥ ३४॥
अणुरात्मा विराटात्मा सर्व्यव्यापी प्रबोधकः ।
अन्तस्थः परमाकाशश्चिदाकाशनिवस्थितः ॥ ३५॥
स्वयञ्जीवः स्वयम्बीजं स्वयमात्मा स्वयंरतः ।
स्वयंस्त्रष्टा स्वयम्भर्ता स्वयंविपरिणामकः ॥ ३६॥
त्रुटिः काष्ठा लवो यामः पलं प्रहरो दिनं निशा ।
पक्षो मासो ऋतुर्वर्षं कल्पो वेलान्तरं युगम् ॥ ३७॥
स्वतन्त्रोऽनायत्तः स्वैरी आत्मतन्त्रोऽपरायतः ।
सकलं सकलानन्दः परानन्दः परोदयः ॥ ३८॥
कामेशः कर्मठोऽकर्ता पूर्णगर्भः कृषीवलः ।
स्वयङ्कर्मा स्वयम्भोक्ता स्वयन्द्रष्टा स्वयम्मयः ॥ ३९॥
भूतेश्वरो भूतयोनिर्गुहाचारो गुहास्थितः ।
सर्वाश्चर्यमयाश्चर्यं सर्वलोकप्रियङ्करः ॥ ४०॥
सुलभो दुर्लभोऽलभ्यः सबलो दुर्बलो बली ।
अबला बालिका बाला प्रबलः पुरुषः पुमान् ॥ ४१॥
याचको धनवान् दीनो निर्धनो वसुमानृणी ।
प्रार्थकः प्रार्थना भिक्षा भिक्षुस्त्यागी बहुप्रदः ॥ ४२॥
कठोरः कर्कशो रूक्षो दुरावासो दुरासदः ।
समस्तम्लेच्छदुष्टघ्नः कृतघ्नाहितध्वंसकः ॥ ४३॥
निस्सङ्गो निष्पदोऽपादः प्राप्योऽप्राप्यश्चलोऽचलः ।
शक्तिदः कीर्तिदोऽधीशोऽलक्ष्यो लक्ष्यः सुलक्षणः ॥ ४४॥
करणं कारणं कर्म कर्माकर्मप्रवर्तकः ।
बिबुधाग्रचरो ज्ञाता कार्मो मानसगोचरः ॥ ४५॥
शब्दाशब्दमयोनादः शब्दातीतो रवात्मकः ।
प्रकाशो दीप्तिर्भातेजः प्रभातीतः प्रदीप्तिमान् ॥ ४६॥
अमोघवचनो व्योम लोकमण्डलयोजकः ।
त्रपिष्टो ललितोऽसक्तः स्वच्छन्दो विश्वमोहनः ॥ ४७॥
भक्तानांसुलभावाप्तिः श्रद्धास्तिक्यविवर्धकः ।
मोहको लोभनं लुभ्यः स्निग्धमुग्धोऽतिसुन्दरः ॥ ४८॥
सदानवः सदालोलः शुचिः श्रेष्ठो विदुत्तमः ।
दिव्यभोगप्रदो भोगी भोगेन्द्रो भगवान् भगः ॥ ४९॥
आर्तदुःखहरस्त्राणो मदमोहमलापहः ।
अखण्डैश्वर्यसम्पन्नः सर्वश्रेयस्पतिपतिः ॥ ५०॥
सुनाथोऽनाथदीनानां सुकामःकामभोगिनाम् ।
सुमन्त्रं सर्वमन्त्राणां सुतन्त्रं सर्वतन्त्रिणाम् ॥ ५१॥
शक्तिबीजमयःशून्यः पञ्चतत्त्वपरात्परः ।
नवरूपमयोज्योतिरज्योतिर्द्योतको द्युतिः ॥ ५२॥
बीजरूपो महद्गर्भः स्थावरो जङ्गमोऽण्डजः ।
श्रीमयो ह्रीमयः सौख्यमदोमय इदम्मयः ॥ ५३॥
क्षेमानन्दः क्षमाभर्ता क्षमाशीलः क्षमाऽक्षमा ।
अध्यात्मविद्या विद्याग्र्यः पुराणछन्दसां वरः ॥ ५४॥
भेदाभेदः परंसूत्रं पतिपाशपशुत्रिकम् ।
प्रकाशात्मा विमर्शात्मा शैवानाम्पूर्णमीलनम् ॥ ५५॥
वेदान्तिनान्नेतिनेति साङ्ख्ययोगविदाङ्गुरुः ।
आदिदेवोऽन्यधर्माणां जडमनात्मवादिनाम् ॥ ५६॥
आनन्त्यव्यापी सर्वज्ञो धिया दुष्प्रापकीर्तितः ।
शीतलः शम्मयः शान्तः शान्तभद्रः प्रसन्नभः ॥ ५७॥
दुर्जयो धूर्जयानन्दो नीतिज्ञो नीतिकृत् नयः ।
जयश्री जित्वरो जिष्णुर्जयदो जयवर्धनः ॥ ५८॥
क्षिप्रक्षेमकरः शुभ्रः शिवदः शान्तिदः शमः ।
ऐश्वर्यशाली निर्लेपः कल्याणं मङ्गलं शुभम् ॥ ५९॥
स्थूलात्स्थूलतरस्थूलो विस्तरोऽव्यापकः प्रसूः ।
सूक्ष्मात्सूक्ष्मतरस्सूक्ष्मो नित्यानित्यविवस्थितः ॥ ६०॥
तडागस्तटिनी सिन्धुः कूपो नदनदीपतिः ।
उदध्यर्णवकंरूपः शून्यसागरमन्थकः ॥ ६१॥
स्वयंसिद्धिः स्वयंसाध्यः स्वयंसिद्धः स्वयङ्करः ।
स्वयङ्कर्म स्वयङ्कर्ता स्वयमिष्टं स्वयम्फलम् ॥ ६२॥
द्रव्यात्मको द्रव्यशीलो द्रव्यातीतः खमात्परः ।
आछादनं सुतत्त्वानां पञ्चभूतावगुण्ठनम् ॥ ६३॥
कल्लोलरहितोऽक्षुब्धो निःस्रोतो निश्चलः स्थिरः ।
बुद्धिज्ञानपरवादी सुविवादो विवेचनम् ॥ ६४॥
सार्धत्रिवलयं चक्रं मूलाधारश्चतुर्दलः ।
स्वाधिष्ठानो विशुद्धाज्ञाऽनाहतो मणिपूरकः ॥ ६५॥
आयुर्बलं यशो वर्चः सुस्थः स्वास्थ्यवर्धनः ।
नीरूढः शर्मदः शर्मोऽव्याकुलो हृदयङ्गमः ॥ ६६॥
रमाप्रियो रमानाथ ईप्सितार्थं फलप्रदः ।
पालकः पालनं गोपो रक्षिताकृमिकीटकः ॥ ६७॥
कौलेशः कौलसम्पूज्यः कौलेष्टः कौलवन्दितः ।
कौलानुगामिनान्तातः कौलाचारनिरूपकः ॥ ६८॥
पुरोहितः पुरोभागी पद्माक्षः पद्मभूः पटुः ।
अक्षमालाधरो रम्यः पक्षापक्षविवर्जितः ॥ ६९॥
यशोधरो यशोमूर्तिः कामनीयः कलाधरः ।
यशस्वी प्रशस्यो दक्षः सानुरागः प्रियोऽप्रियः ॥ ७०॥
वरिष्ठो वीरको वीरो वीरेशो वीरनन्दनः ।
निःशस्त्रः शस्त्रसम्पन्नो निरस्त्रः सन्नदः सदः ॥ ७१॥
वसन्तः शिशिरो धर्मः शरद्धेमन्तवर्षणम् ।
ऋतुहर्ता ऋतुकर्ता ऋतुपर्ययकारकः ॥ ७२॥
आद्यमध्यान्तरहित आधाराधेयवर्जितः ।
सुधाकरः सुधाहारस्त्रिदिवातलपूजितः ॥ ७३॥
आन्वीक्षकीत्रयीवार्तादण्डनीतिनिवाहकः ।
शासनं शासकोऽलिप्तो धर्माध्यक्षोऽधिनायकः ॥ ७४॥
रतिज्ञो रतिनीतिज्ञो रतिशास्त्रविचक्षणः ।
रतिशीलो रतिपरः सुरतो विरतो रतिः ॥ ७५॥
नरेश्वरो नराराध्यो नरपूज्यो नरार्थदः ।
नरोत्तमो नरसेव्यो नरवन्द्यो नरोऽनरः ॥ ७६॥
नित्यविश्वमयोदेवो विश्वोत्तीर्णः सुविश्वभृत् ।
नित्यचिन्मयसामन्तश्चिन्त्योऽचिन्त्यः सुचिन्तितः ॥ ७७॥
उत्तमोत्तम ईशानः सुमदो निर्मदो मदः ।
सर्वाध्यक्षः सर्वकल्पः सर्वेशः सर्वतारकः ॥ ७८॥
एकमन्त्रमयो मन्त्री कालमन्त्रप्रकाशकः ।
मन्त्रमूलं मन्त्रवाक्यं मन्त्रज्ञो मन्त्रसाधकः ॥ ७९॥
अदःसेतुरिदं सेतुः सेतुर्धर्मसुदुर्गमः ।
आद्यन्तरहितःसेतुः सेतुर्खन्द्रव्यकालिनाम् ॥ ८०॥
अग्रगण्यः प्रत्युत्पन्नः सुभगो भाग्यवर्धनः ।
अनुकामः प्रियकामो भामो मोदो बृद्धिप्रदः ॥ ८१॥
हं बीजं पृथिव्यालम्बः अञ्जलं प्रौढिरूपकः ।
लं अग्निर्वायुबीजं आं कं आकाशस्ततः परम् ॥ ८२॥
सङ्कल्पो वाञ्छितमिष्टं धर्माधर्मो नृतानृतम् ।
महाशयो महज्ज्योतिः स्वगाकारः परिवृढः ॥ ८३॥
यज्ञेश्वरो यज्ञमूर्तिर्नित्यं यज्ञप्रतिष्ठितः ।
अध्वर्यो होतृ उद्गाता याजको यजनं हविः ॥ ८४॥
कोषेशः कोषदः कोषो निधानं निधिनाम्पतिः ।
अर्धरात्रिजपं जाप्यो यथेष्टफलदोविभुः ॥ ८५॥
अलिङ्गोऽवचनो धाता स्वयम्भूर्जनको भवः ।
नानारूपधरोऽरूपोऽनन्तबाहुरनन्तदृक् ॥ ८६॥
शून्याधारोऽशून्यशीलः शून्यगर्भः शमात्मकः ।
शून्यारूढः शून्यरूपः शून्याशून्यप्रतिष्ठितः ॥ ८७॥
दिगम्बरो दिव्यदेहो धर्मात्मा धार्मिकव्रतः ।
अन्तःसाक्षी बहिःसाक्षी सर्वसाक्षी अनुत्तरः ॥ ८८॥
सुबोधः सत्यप्रतिज्ञः श्रीप्रदः पुत्रपौत्रदः ।
आशापूरयिता दाता कुलसन्ततिवर्धनः ॥ ८९॥
अगम्योऽगोचरोऽभेद्यः सिद्धार्थः सुकलः स्वभूः ।
अपक्षीय उदासीनो दूरोऽदूरः समोऽसमः ॥ ९०॥
अतिरूपकरः सूग्रः शत्रुघ्नो रिपुसूदनः ।
शीततापहरोऽपापो दारूणः कटुः कीकसः ॥ ९१॥
आचार्यः शिक्षकः शिष्यः पितृदेवो गुरोर्गुरुः ।
मातृदेवः सुविश्वास्यो भक्तो भक्तजनोऽर्चकः ॥ ९२॥
नवमो नवमीनाथो नवांशो नवधो नवः ।
अनङ्गो हेमवर्णाङ्गः सुवर्णोऽवर्णवर्णकः ॥ ९३॥
अगाधः सुदृढः श्रीमान् वायुरूपो द्रवो जलम् ।
अनलस्तत्त्वसंयुक्तो विमुक्तोऽसीमितोऽलघुः ॥ ९४॥
मेधादस्तुष्टिदस्तुष्टः सन्तुष्टो विश्रुतः शुचिः ।
अच्छेद्योऽलोलुपो न्याय्यः सुस्पृहो विमृत्युर्वशी ॥ ९५॥
विशुद्धलोचनो दर्शी वाङ्मनोगोचरातिगः ।
सर्वस्वं सर्वचैतन्यः स्वकृतः स्वधृतः स्वदः ॥ ९६॥
पिता पुत्रः स्वसा पुत्री माता भ्राता पितामहः ।
बन्धुर्मित्रं पतिः पत्नी सुसेव्यः कर्मकारकः ॥ ९७॥
समाजो निवहो वृन्दं प्रजातन्त्रं प्रजापतिः ।
भूपतिर्विषयो राष्ट्रं देशभक्तः स्वदेशभृत् ॥ ९८॥
अणिमादिगुणोपेतो गुणातीतो गुणात्मकः ।
सहजः सहनः सत्यं सुखदुःखविपर्ययः ॥ ९९॥
मनीषी मतिमान् विज्ञो वरेण्योऽकल्मषोऽनघः ।
गर्भदो गर्भदोषघ्नो बीजस्थो बीजवर्धनः ॥ १००॥
शुभाशुभपरित्यागी अशुभशुभकारकः ।
तेजोराशिस्तमोहन्ता सर्वभूतमनोहरः ॥ १०१॥
मुक्तहस्तोऽर्थशास्त्रज्ञः सावधानोः निरीक्षकः ।
नवद्वारमयोदेहो देही देहभृतांवरः ॥ १०२॥
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ।
कोटितारकनिर्माता कोटिलोकप्रयोजकः ॥ १०३॥
अखण्डोऽलवशः कल्यः श्रवणं श्रावकः श्रुतिः ।
प्रमाणं प्रत्ययः पात्रमग्राह्यो ग्रहणं ग्रहः ॥ १०४॥
दयाकरो दयारूपो दयामूर्तिर्दयापरः ।
सर्वपापप्रशान्तात्मा सर्वदुर्गतिहारकः ॥ १०५॥
मनोजवो मरुद्वेगो भक्तानां पथनायकः ।
रणज्ञो रणक्षेत्रज्ञो युद्धं योद्धा भटोऽभटः ॥ १०६॥
सौम्याननः सौम्यभावो भक्तिदो भक्तवत्सलः ।
सर्ववश्यकरोऽवश्यः सुसम्पन्नः समायकः ॥ १०७॥
नित्यतृप्तो लसद्भावो विश्वपूर्णः सदाक्षमी ।
आशाश्रयोनिराशानां कृपालुः करुणाकरः ॥ १०८॥
असंप्रज्ञातसंप्रज्ञो निष्णातोऽनश्वरोऽव्ययः ।
सारज्ञः सर्वधर्माणां लोकधर्मप्रवर्तकः ॥ १०९॥
सुधामयः सदारामः श्रीघनो दृष्टिमोहनः ।
सूत्रधारो जगत्सूत्रं त्र्यक्षरो वागधीश्वरः ॥ ११०॥
क्षयापस्मारकुष्टघ्नो रोगारिष्टनिवारकः ।
स्वास्थ्यारोग्यप्रदः स्वस्थः सर्वामयप्रहारकः ॥ १११॥
कर्ताऽकर्ताऽन्यथाकर्ताईश्वरः सर्वशक्तिमान् ।
युगकर्ता युगहर्ता अहोरात्रश्चतुर्युगम् ॥ ११२॥
हन्तापदां विपद्धर्ता सद्भोगनिलयोऽच्युतः ।
स्वभावः सद्गतिर्भावो निर्द्वन्द्वो द्वन्द्वरूपकः ॥ ११३॥
अनेकरूपवर्णाङ्गः पूर्वः पूर्वतरोत्तमः ।
पावनः पवनः पूतः पूतनामा शुचिव्रतः ॥ ११४॥
आशुगोऽनाशुगोऽदृश्यः पवित्रं विमलोऽमलः ।
सुपथः पथिकः पन्था भक्तिमार्गोपदेशकः ॥ ११५॥
आरण्यको वनस्थायी ब्रह्मचारी उपासकः ।
गृहस्थः पूजकः पूजा ठाकुरः कुलदेवता ॥ ११६॥
मत्स्यस्तिमिङ्गिलो ग्राहः शुकः शारी विहङ्गमः ।
गायकश्चित्रको गाथा शिल्पं शिल्पी नटोऽनटः ॥ ११७॥
विभ्रमो भ्रममोहघ्नः कल्पवृक्षोऽश्वत्थस्तरुः ।
विटपी वल्लरी पुष्पं पङ्क्तिर्वर्गो बहुभुजः ॥ ११८॥
अतलो वितलव्यापी सुतलस्तलवर्जितः ।
अश्वः कुरङ्गमो धेनुः शरभः सस्तनः शिखी ॥ ११९॥
विज्ञानं ग्रहजिज्ञासा अनन्तानन्त्यमार्गणम् ।
जीवाजीवो दृशोऽव्यक्तः परोक्षोऽव्यक्तसङ्कुलः ॥ १२०॥
अद्वितीयतपोमूर्तिः स्वमायानित्यगोपितः ।
सर्वतीर्थमयस्तीर्थमात्मतीर्थनिवस्थितः ॥ १२१॥
आत्मज्ञ आत्मनिर्दिष्टा आत्मचिदात्मधीः सुधीः ।
आत्मजिदात्मसन्तुष्ट आत्मास्वात्मप्रवर्तकः ॥ १२२॥
विश्वश्लाघ्यो विश्वपूज्यो विश्ववन्द्यो मुनीश्वरः ।
विश्वाराध्यो विश्वश्रेष्ठो विश्वेशो विश्वराड् ऋषिः ॥ १२३॥
अकायः कायसम्पन्नः परापरमयो महान् ।
विशोकोऽशोककौमारः सुरेशः सुप्रभः प्रभुः ॥ १२४॥
इति श्री जलाली कौल जियालालेण विरचितं श्रीभगवान्
कालसहस्रनामस्तोत्रं सम्पूर्णम् ॥
पूर्ववत्प्राणायामो न्यासश्च । अथ तर्पणम् ॥
तत्सत्काल अद्यतावत् तिथावद्य अमुकमासस्य अमुक पक्षे अमुक वारे
श्रीकालः कालकालः अनन्तः अजरः अमरः अभयवरप्रदः सर्वदुःखघ्नः
सर्वामयहर्ता सर्वसिद्धिकर्ता सर्वकामनाभिलाषपूरकः प्रीतः प्रीतोऽस्तु ॥
कालोऽहम् ॥
कालकेन्द्रप्रकाशनम् - जलाली निवास, कर्णनगर, श्रीनगर (कश्मीर)
Proofread by Manish Gavkar, PSA Easwaran