श्रीकेवलरामाचार्याष्टकम्
(श्रीकूबाचार्य)
रामानन्दीयधर्मस्य वैदिकस्य सुरक्षक्म् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
ईश्वरादीश्वरज्ञं च केवलरामसंज्ञकम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
मुद्रामालोर्ध्वपुण्ड्रादेर्दायकं वैष्णवोत्तमम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
राममन्त्रादिकानां च रहस्यानां प्रबोधकम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वन्दितं सिद्धयोगीन्द्रैः सदाचार प्रचारकम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
रामानन्दकृतानन्दभाष्यसिद्धान्तशिक्षकम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
विशिष्टाद्वैतवादेन वादिनां वादभञ्जकम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
श्रीरामकीर्त्तनासक्तं भक्तिदानेनमुक्तिदम् ।
कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीकेवलरामाचार्याष्टकं (श्रीकूबाचार्य) सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey