श्रीमातृपञ्चकम् २
श्रीमातृदेवताचरणेभ्यो नमः ।
अहो मातर्नित्यं तव तु महिमा वेदकथितः
पुराणादौ सिद्धः खलु जगति जागर्ति परमे ।
अतो वै मच्चित्ते दृढमिति परं जातमनिशं
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ १॥
अहं दीनः पुत्रस्तवचरणसेवाविरहितः
परं त्वद्द्रव्याणामपहरणकर्ता शठमतिः ।
तथाऽऽप्याऽऽर्ये पाल्यस्त्विति जननि संवीक्ष्यपदवीं
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥
इदानीं पर्यन्तं स्वजननाथारभ्य कुधिया
समास्लिष्टेनाहो जननि नु न बुद्धं तवमहः ।
तथाऽप्यम्बप्रेम्णा मम हितविधिं चेच्छसि यतः
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥
मया गर्भाऽऽवासात् क्वचिदपि सकृन्नैव सुखिता
परं त्वं क्लेशानामयि जननिपात्रं बतकृता ।
तथाप्येषा चित्ते मम वसति विश्वासपदयी
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥
कदाचित्सेवा ते जननि खलचित्तेन हि मया
कृता नो सद्वाक्यैरपि किमुत शास्त्रीय विधिना ।
तथाप्यार्ये मातः क्वचिदपि न रुष्टा मयि यतः
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ५॥
श्रीमातृपञ्चकमिदं रचितं सुपद्यै-
र्दुर्गाऽभिधेन कवि-नन्दकिशोरजेन ।
यो मातृपूजनमनुप्रपठेत्सुपुत्र-
स्तस्याशु तुष्यति हरिः सकलार्तिहन्ता ॥ ६॥
इति श्रीमातृपञ्चकं सम्पूर्णम् ॥
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, Shankara