श्रीमध्वाष्टकम्
अज्ञाननाशाय सतां जनानां कृतावताराय वसुन्धरायाम् ।
मध्वाभिधानाय महामहिम्ने हताघसङ्घाय नमोऽनिलाय ॥ १॥
येन स्वसिद्धान्तसरोजमद्धा विकसितं गोभिरलं विशुद्धैः ।
दुस्तर्कनीहारकुलं च भिन्नं तस्मै नमो मध्वदिवाकराय ॥ २॥
प्रपन्नतापप्रशमैकहेतुं दुर्वादिवादेन्धनधूमकेतुम् ।
निरन्तरं निर्मितमीनकेतुं नमाम्यहं मध्वमुनिप्रतापम् ॥ ३॥
शान्तं महान्तं नतपादकान्तं कान्तं नितान्तं कलितागमान्तम् ।
स्वान्तं नयन्तं त्रिपुरारिकान्तं कान्तं श्रियो मध्वगुरुं नमामि ॥ ४॥
पुनाननाम्ने मुरवैरिधाम्ने सम्पूर्णनाम्ने समधीतसाम्ने ।
सङ्कीर्तिताधोक्षजपुण्यनाम्ने नमोऽस्तु मध्वाय विमुक्तिसीम्ने ॥ ५॥
सन्मानसंसज्जनताशरण्यं सन्मानसं तोषितरामचन्द्रम् ।
सन्मानसन्यस्तपदं प्रशान्तं नमाम्यहं मध्वमहामुनीशम् ॥ ६॥
संस्तूयमानाय सतां समूहैश्चन्द्रायमानाय चिदम्बुराशेः ।
दीपायमानाय हरिं दिदृक्षोरलं नमो मध्वमुनीश्वराय ॥ ७॥
गुणैकसिन्धुं गुरुपुङ्गवं तं सदैकबन्धुं सकलाकलापम् ।
मनोजबन्धुं नतपादपद्मं नमाम्यहं मध्वमुनिं वरेण्यम् ॥ ८॥
मध्वाष्टकं पुण्यतमं त्रिसन्ध्यं पठन्त्यलं भक्तियुता जना ये ।
तेषामभीष्टं प्रतनोति वायुः श्रीमध्वनामा गुरुपुङ्गवोऽयम् ॥ ९॥
समस्तशास्त्राणि च सम्यगेव कृत्वा हरेः शाश्वतसद्गुणान् यः ।
प्रकाशयामास समस्तयुक्तिभिः श्रीमध्वनामा च सदा प्रसीदताम् ॥ १०॥
परमपुरुषश्रीचरणसरोरुहमधुकररूपकमानसमुदितम् ।
गुरुकुलतिलकश्रीमदानन्दतीर्थयोगिवरं सततमहं वन्दे ॥ ११॥
श्रीमल्लिकुचवंश्येन मध्वाष्टकमुदीरितम् ।
श्रीमत्त्रिविक्रमाख्येन गुर्वनुग्रहकारकम् ॥ १२॥
॥ इति कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिताचार्यविरचितं
श्रीमध्वाष्टकं सम्पूर्णम् ॥