श्रीचन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां त्रिशतीनामावलिः

श्रीचन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां त्रिशतीनामावलिः

विहायाद्रिनाथं विभुष्टान्द्रमौलिः विधातुं शुभं भक्तवृन्दाय साक्षात् । यदाकारलाभात्कृतार्थो बभूव भजे तं गुरुं चन्द्रचूडेन्द्रवाणीम् ॥ १. अतिगम्भीरानन्दसागराय नमः । २. आबालगोपविदिताय नमः । ३. अपारकृपाप्रवाहनेत्राय नमः । ४. अनिशं बिलाकाशप्रदक्षिणपराय नमः । ५. अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषिताय नमः । ६. अनादिमलसञ्छन्नमायाकार्यनिवर्तकाय नमः । ७. अन्तश्शान्तमुमुक्षूणां क्रमात् कैवल्य मार्गकृते नमः । ८. अहिंसाक्षौमावृताय नमः । ९. अक्षमालाधृतग्रीवाय नमः । १०. अज्ञानपङ्कपरिमग्नजनसमुद्धर्त्रे नमः । ११. अत्यन्तमलिनदेहबुद्धिनिवर्तकाय नमः । १२. आत्मकामाय नमः । १३. आप्तकामाय नमः । १४. आत्मालम्बाय नमः । १५. आत्मसांराज्यसम्राजे नमः । १६. आनन्दचिष्टनाय नमः । १७. आकाशवनिर्लेपाय नमः । १८. आनन्दबोधगुरवे नमः । १९. आगमाज्ञापालनाय नमः । २०. आत्मप्रशंसारहिताय नमः । २१. आत्महितोपदेशकाय नमः । २२. आकृष्टभक्तजनसमूहाय नमः । २३. आशापाशक्लेशनाशकाय नमः । २४. आर्यकुलसंरक्षकाय नमः । २५. आगमसंप्रदायपोषकाय नमः । २६. आब्रह्मकीटजननीपदसंसक्तमानसाय नमः । २७. आपीनवक्षोरुहकामाक्षीदर्शनोत्सुकाय नमः । २८. आथर्वणवेदोज्जीवनकारणाय नमः । २९. आध्यासिकधर्मविवेचकाय नमः । ३०. आदिशङ्करापरावतारभूताय नमः । ३१. आनन्दनचेतसे नमः । ३२. आप्तवाक्योपदेशकाय नमः । ३३. आशुतोषिणे नमः । ३४. आश्रितजनवत्सलाय नमः । ३५. आस्तिकजनरक्षकाय नमः । ३६. आवरणाभिभवनिराकरणाय नमः । ३७. आब्रह्मपिपीलिकसृष्टिमिथ्यात्वबोधकाय नमः । ३८. आधिभौतिकतापभीतिहराय नमः । ३९. आर्तजनौषधाय नमः । ४०. आर्याम्बासुतपादाब्जपूजकाय नमः । ४१. आर्यमार्गसंसेविने नमः । ४२. आर्यदेशसञ्चारिणे नमः । ४३. आलिङ्गिताचार्यपादपल्लवाय नमः । ४४. आलोचनशीलाय नमः । ४५. आलोकमार्गदत्त-अयाचितामृतभुजे नमः । ४६. आविर्भूतशिवमूर्तये नमः । ४७. आवृत्तिरहितमोक्षमार्गप्रदाय नमः । ४८. आवर्तिताक्षमालाधराय नमः । ४९. आष्टार्यमेधाशक्तियुताय नमः । ५०. आश्रमधर्मानुष्ठातृश्रेष्ठाय नमः । ५१. आराधिताघ्रियुग्माय नमः । ५२. आनन्दामृतपूरितवपुषे नमः । ५३. आदिक्षान्ताक्षरात्मकविद्यायुताय नमः । ५४. आम्नायरहस्यविदे नमः । ५५. आर्याशतकपारायणपराय नमः । ५६. इहामुत्रार्थफलास्पृहाय नमः । ५७. इष्टापूर्तादिधर्मप्रवर्तकाय नमः । ५८. इन्दुरविमण्डलकुचकामाक्षीपदध्यायिने नमः । ५९. इतिहासपुराणज्ञाय नमः । ६०. इच्छाज्ञानक्रियाशक्तिस्वरूपाय नमः । ६१. इन्दुजनकतरणवारणाय नमः । ६२. इहपरसुखविमुखाय नमः । ६३. ईतिबाधाविनाशकाय नमः । ६४. ईषत्स्मिताननाय नमः । ६५. ईम्बीजाक्षरमन्त्रविदे नमः । ६६. उन्मनीस्थितमानसाय नमः । ६७. उपक्रमादिषड्लिङ्गभाष्यतात्पर्यबोधकाय नमः । ६८. उदासीनवदासीनाय नमः । ६९. उदारवरवैभवाय नमः । ७०. उक्षारूढशशिशेखरप्रियाय नमः । ७१. उत्तमजनसेविताय नमः । ७२. उत्क्रान्तसङ्गाय नमः । ७३. उपनिषदरविन्दकुहरमध्वास्वादिमानसाय नमः । ७४. उर्वीधरेन्द्रकन्यापाङ्गवीक्षणरक्षिताय नमः । ७५. उदारकीर्तये नमः । ७६. उदितबोधेन्दुप्रभाय नमः । ७७. उत्कृष्टतपोतप्तवपुर्धराय नमः । ७८. उत्तुङ्गस्तनमण्डलविलसद्-उमापदोपासकाय नमः । ७९. उञ्चावचत्वरहितकैवल्यमार्गोपदेशकाय नमः । ८०. उद्धृतकरनिर्धारिताद्वैतसिद्धान्तपोषकाय नमः । ८१. उन्नम्रकम्रकमलभवसंप्रदायानुसारिणे नमः । ८२. ऊर्ध्वरेतसे नमः । ८३. ऊर्ध्वाक्षिप्तकराम्भोजाय नमः । ८४. ऊर्ध्वनाडीमार्गबोधकाय नमः । ८५. ऊर्जितधर्मपथाश्रयाय नमः । ८६. ऋजुमार्गबोधकाय नमः । ८७. ऋणत्रयमोचकाय नमः । ८८. ऋक्षाधीश्वरशेखराय नमः । ८९. ऋद्धिदायकाय नमः । ९०. ऋत्विक्सङ्गतोषिताय नमः । ९१. ऋतजातसत्याय नमः । ९२. ऋग्वेदिने नमः । ९३. एलासुगन्धिनीलचिकुरालीलालीनमानसाय नमः । ९४. एनःकूटविनाशनपटुचरणाय नमः । ९५. एकान्तेरमणशीलाय नमः । ९६. ऐङ्काराङ्कितमन्त्रलक्षितश्रीकामाक्षीचरणासक्ताय नमः । ९७. ऐश्वर्यदायकाय नमः । ९८. ऐकात्म्यानुभवारूढाय नमः । ९९. ऐकाग्रचित्तभक्तिसुलभाय नमः । १००. ओतप्रोतप्राणशक्तिविदे नमः । १०१. ओष्ठलोष्ठसमबुद्धिदायकाय नमः । १०२. ओजस्विने नमः । १०३. औपम्यहीनमहिम्ने नमः । १०४. औदार्यादिगुणान्विताय नमः । १०५. औचित्यादिविशिष्टबुद्धिदायकाय नमः । १०६. कल्याणगुणदायकाय नमः । १०७. कलितापहराय नमः । १०८. करिवदनपालिताय नमः । १०९. कमलनिभकरचरणनेत्राय नमः । ११०. कमलोत्पलकार्मुकधरकुञ्जरमुखसंसेविने नमः । १११. कविजनसेविताय नमः । ११२. कम्पातीरवासिकलुषशमनाय नमः । ११३. कलिमलादिवर्जिताय नमः । ११४. कल्पितजगत्-त्रयमोक्षणवीक्षणाय नमः । ११५. कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपविदे नमः । ११६. काञ्चीमण्डलमध्यस्थकामकोटिमठोद्धर्त्रे नमः । ११७. काषायपरिशोभिताय नमः । ११८. कामारिकरुणासिन्धुकल्लोलितकारुण्यास्पदाय नमः । ११९. कामाद्यरिषटकनाशकाय नमः । १२०. काञ्चीक्षेत्रतपोमूर्तये नमः । १२१. कामाक्षीमन्दस्मितजनितकुञ्जरपदध्यायकाय नमः । १२२. कामाक्षीपदाम्भोजसेवामृतरसमग्नाय नमः । १२३. कामाक्षीचरणनलिनध्यानसन्तुष्टमानसाय नमः । १२४. कुलामृतैकरसिकाय नमः । १२५. कुटिलबोधनिवारकाय नमः । १२६. कुलाकुलसमयविदे नमः । १२७. कैवल्यानन्दकन्दाय नमः । १२८. कृपारसघनीभावलसद्विग्रहाय नमः । १२९. कृष्णकीर्तनासिक्तहदयाय नमः । १३०. कृत्स्नलोकोपकारकाय नमः । १३१. खलजनसेवाविमुखधीदायिने नमः । १३२. गङ्गायमुनयोर्मध्ये सहस्रलिङ्गस्थापकाय नमः । १३३. गजमुखगतमानसाय नमः । १३४. गोवर्धनधरगोविन्दपरमानन्दरससेवामग्नचेतोभृङ्गाय नमः । १३५. गीर्वाणभाषाप्रियाय नमः । १३६. गुणिजननुताघ्रियुगाय नमः । १३७. गुणग्राहिणे नमः । १३८. गुह्यविज्ञानरूपिणे नमः । १३९. गृहदायिने नमः । १४०. ग्रहातिग्रहसंवेदिने नमः । १४१. गोपीमण्डलगोपाललीलाविग्रहगतमानसाय नमः । १४२. गोविन्दयज्ववंशोत्थाय नमः । १४३. घनचन्दनकर्दमधरकुलसहस्रदलनलिनाय नमः । १४४. घोराज्ञाननाशकाय नमः । १४५. चन्द्रांशुतुल्यप्रभाय नमः । १४६. चन्द्रमण्डलमध्यस्थश्रीचक्रसमुपासकाय नमः । १४७. चरितामृतसागराय नमः । १४८. चक्रराजार्चनोत्सुकाय नमः । १४९. चतुष्षष्टिकलायुक्तमातृकापदसेवकाय नमः । १५०. चिदानन्दरसाकृतये नमः । १५१. चिदम्बरेशपदाम्भोजविलसन्मानसाय नमः । १५२. चूततरुमूलवासिपादपल्लवाश्रिताय नमः । १५३. छन्दोमस्तकसारमग्नमानसाय नमः । १५४. जन्मव्याधिमहौषधये नमः । १५५. जपसिद्धिप्रदायकाय नमः । १५६. जगदवनवात्सल्यजलधये नमः । १५७. जीर्णवासनापूगमानसाय नमः । १५८. तपसालब्धतपोमूर्तये नमः । १५९. तमोवञ्चनचणपदपङ्केरुहप्रभाय नमः । १६०. तत्त्वमस्यादिवाक्यार्थबोधसन्तुष्टमानसाय नमः । १६१. तपःपूतमनोमन्दिरवासिने नमः । १६२. तापसाराध्यपादाब्जाय नमः । १६३. तारकब्रह्मसंसेविने नमः । १६४. तिमिरकूपकुहरमग्नजनसमुद्धर्त्रे नमः । १६५. तूष्णींशीलमनोहराय नमः । १६६. दयाचित्ताय नमः । १६७. दम्भाभिमानवर्जिताय नमः । १६८. दर्शनीययतिश्रेष्ठाय नमः । १६९. दहराकाशचक्रविदे नमः । १७०. दशोपनिषद्भाष्यविचारकोविदाय नमः । १७१. देवदृष्टिप्रसादकाय नमः । १७२. द्वादशीव्रतपालकाय नमः । १७३. द्वादशाक्षरीमन्त्रविदे नमः । १७४. दौर्भाग्यदुःखमोचकाय नमः । १७५. धरणीधरणशाश्वतधर्मगोप्रे नमः । १७६. धनधान्ययशोदायिने नमः । १७७. ध्यानपूतयतिमूर्धन्याय नमः । १७८. धर्मपीडानिरासिने नमः । १७९. धर्मप्रवचनासक्ताय नमः । १८०. धर्मजीवनचिन्तकाय नमः । १८१. धर्मभाणकरक्षकाय नमः । १८२. धर्ममयमूर्तये नमः । १८३. धर्मलोपासहिष्णवे नमः । १८४. धन्यंमन्यजनाश्रिताय नमः । १८५. धर्माधर्मविचक्षणाय नमः । १८६. धार्मिकधनिकसेविताय नमः । १८७. नारायणस्वरूपेणलोकसञ्चारकृते नमः । १८८. नानातपोनियमनाशितपाशबन्धाय नमः । १८९. निवृत्तिमार्गनिरताय नमः । १९०. निरतिशयात्मसुखनिष्ठाय नमः । १९१. निखिलजगष्टोधजनकज्ञानशशिने नमः । १९२. नित्यानित्यविवेकादिमुक्तिसाधनमण्डिताय नमः । १९३. नित्यसन्तुष्टमानसाय नमः । १९४. परेशप्राणदयितापादपद्ममधुव्रताय नमः । १९५. पञ्चवक्त्रविघ्नराजपदपल्लवपूजकाय नमः । १९६. परमयोगिश्रीशङ्करस्थापितादिमपीठाचार्याय नमः । १९७. पञ्चीकृतमहाभूतप्रपञ्चमिथ्यात्वबोधकाय नमः । १९८. पञ्चाशन्मातृकावर्णन्यासमन्त्रार्थरहस्यविदे नमः । १९९. परमैश्वर्यकारणाय नमः । २००. पञ्चसङ्घयोपचारविदे नमः । २०१. पराभिचारशमनाय नमः । २०२. पावकोष्णतेव लब्धकामाक्षीचरणस्मृतये नमः । २०३. पातकपयोधिभयातुरभक्तभयहरणपट्वाकृतये नमः । २०४. पारम्पर्यक्रमायातवेदधर्मसुपोषकाय नमः । २०५. पाशत्रयपरिमोचकाय नमः । २०६. पुण्यश्रवणकीर्तनाय नमः । २०७. प्रणताज्ञाननाशकाय नमः । २०८. प्रमदचित्तप्रमर्दनाय नमः । २०९. बुद्धिभ्रंशनिवारकाय नमः । २१०. बुधजनलालिततरुमूलवासिने नमः । २११. भक्तजनमनःपेटीस्फुरद्दिव्यमहामणये नमः । २१२. भक्तजनमनोवेगप्रशमनमन्दगमनाय नमः । २१३. भक्तमानसराजीवविकचीकारभास्कराय नमः । २१४. भवक्षयविचक्षणाय नमः । २१५. भवाम्भोधिनाविकाय नमः । २१६. भवानीपतिपूजनतत्पराय नमः । २१७. भावुकवितरणपरापाङ्गाय नमः । २१८. भद्रप्रदपादाब्जाय नमः । २१९. भस्मभूषितसर्वाङ्गाय नमः । २२०. भावसन्तुष्टभवमोचकाय नमः । २२१. मनोहारिवपुर्धराय नमः । २२२. ममतानक्रग्रहमोक्षणाय नमः । २२३. मायामोहितमन्दानां भक्तिमार्गप्रदर्शकाय नमः । २२४. मूकाचार्यपरम्परागताय नमः । २२५. मृदुभाषिणे नमः । २२५. मृदुपल्लवपादाब्जाय नमः । २२७. मौनप्रियाय नमः । २२८. यतिकुलतिलकाय नमः । २२९. यदृच्छालाभसन्तुष्टाय नमः । २३०. यतिपूजिताय नमः । २३१. योगलिङ्गसमुपासकाय नमः । २३२. व्यसनमोक्षणवीक्षणाय नमः । २३३. व्यासपूजाग्रगण्याय नमः । २३४. दर्पसर्पपरिदष्टविनष्टजनोज्जीवनाय नमः । २३५. रविकुलतिलकपदसंसेविने नमः । २३६. रथन्तरसामगानप्रियाय नमः । २३७. रहस्यनामसाहस्रपरायणपराय नमः । २३८. रामचन तमानसाय नमः । २३९. रासक्रीडातात्पर्यविदे नमः । २४०. रामनामपीयूषरसास्वादनशीलबोधेन्द्रदेशिकसच्छिष्याय नमः । २४१. राकेन्दुप्रतिनिधिमुखपर्वतसुतापदार्चकाय नमः । २४२. राकाचन्द्रसमानकान्तियुतमुखाम्भोजाय नमः । २४३. लब्धात्मद्रुतविद्युताय नमः । २४४. लब्धदिव्यज्वलद्वपुषे नमः । २४५. लब्धसूक्ष्मधिये नमः । २४६. मन्मथजालपतितपुण्यपुंमोक्षणाय नमः । २४७. दुष्कर्मदावदहनदग्धदीनजनदुःखहन्त्रे नमः । २४८. लम्बिकायोगविचक्षणाय नमः । २४९. लीलामानुषविग्रहाय नमः । २५०. विरसभवमरुभूमिभ्रमणनिरासकाय नमः । २५१. लोकहितकामाय नमः । २५२. वशीकृतसन्द्रियाय नमः । २५३. वाग्भवबीजकुण्डलिन्यास्पष्टीकृतभणितये नमः । २५४. विलीनत्रिगुणाभासाय नमः । २५५. वेदान्तश्रुतिभूषणाय नमः । २५६. विज्ञानैकरसाकृतये नमः । २५७. वेदवेद्यप्रबोधकाय नमः । २५८. विषतप्तविष्ण्वर्चितचूतनाथप्रियाय नमः । २५९. विश्वेश्वरपदध्यायिने नमः । २६०. विकचारुणाम्भोरुहरुचिरनेत्राढ्याय नमः । २६१. विमलवनमालिप्रियतुलसीदलधारणाय नमः । २६२. विषयलहरीविमुक्तमानसाय नमः । २६३. विमलकमलचरणाय नमः । २६४. विच्छिन्नसङ्कल्पमूलाय नमः । २६५. वैराग्यभाग्यभाजे नमः । २६६. शमधनजनपूजिताय नमः । २६७. शबलीकृतचित्सुखाय नमः । २६८. शश्वन्नश्वरविश्वमिथ्यात्वबोधकाय नमः । २६९. शिशिरपीयूषवर्षकरुणाकटाक्षाय नमः । २७०. शिवशक्तिसमायुक्तकामकोटिजगद्गुरवे नमः । २७१. श्रुत्याचार्यप्रसादलब्धमोक्षधिये नमः । २७२. श्रुतिशतनिगमान्तशोधनपटवे नमः । २७३. श्रेयःसाधननिधये नमः । २७४. श्रुतिस्मृतिविरुद्धार्थद्वैतवादीभकेसरिणे नमः । २७५. श्रुतिस्मृत्यनुसन्धात्रे नमः । २७६. श्रीशङ्करपराक्रमप्रकटनकम्रस्मिताय नमः । २७७. श्रुत्यैकशरणप्रियाय नमः । २७८. श्रवणासक्तमानसाय नमः । २७९. षट्चक्रमार्गसञ्चारिणे नमः । २८०. षडक्ष नमः । २८१. षण्मुखप्रियाय नमः । २८२. षडङ्ग श्रुतिपोषकाय नमः । २८३. षण्मतस्थापनाचार्यपदपल्लवाश्रिताय नमः । २८४. सुरमन्दिरतरुमूलवासिने नमः । २८५. सर्वपरिग्रहभोगत्यागाय नमः । २८६. स्वर्णाभिषिक्तमूर्ने नमः । २८७. सर्वतन्त्रस्वतन्त्राय नमः । २८८. स्वे महिम्नि प्रतिष्ठिताय नमः । २८९. सत्यव्रतक्षेत्रवासिने नमः । २९०. सबीजनिर्बीजयोगनिश्रेण्यारूढाय नमः । २९१. समस्तार्तजनमनःसन्तापशमनोद्युताय नमः । २९२. सहस्रदलपीयूषवर्षासिक्तवपुर्धराय नमः । २९३. सर्वावगुणनाशकाय नमः । २९४. सर्वशास्त्रार्थसारग्राहिणे नमः । २९५. सदाचारप्रवर्तकाय नमः । २९६. संसारविषवृक्षबीजहन्त्रे नमः । २९७. स्तूयमानात्मवैभवाय नमः । २९८. हार्दमलहन्त्रे नमः । २९९. होतृजनरक्षकाय नमः । ३००. क्षणिकवादनिराकर्त्रे नमः । श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीसद्गुरवे नमः । इति श्रीचन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां अकारादिक्षकारान्तवर्णमाला त्रिशतीनामावलिः ।
% Text title            : MahAperiyava Trishati Namavalih
% File name             : mahAperiyAvAtrishatI.itx
% itxtitle              : mahAperiyAvAtrishatI akArAdikShakArAntavarNamAlA nAmAvaliH
% engtitle              : mahAperiyAvAtrishatI
% Category              : deities_misc, gurudev, stotra, trishatI, shatI, shatInAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Audio parts 1, 2)
% Latest update         : September 28, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org