श्रीमहापेरियवासुप्रभातम्
श्रीचन्द्रशेखरेन्द्रसरस्वती सुप्रभातम्
श्रीकाञ्च्यां भगवत्पादैरादिमैरवधारिते ।
मूलाम्नाय-महापीठे साष्ट-षष्टितमो गुरुः ॥
आदिम First
साष्ट-षष्टितमो Sixty eighth
भूत्वाऽनर्घ- स्वैस्त्रैलोक्यं मङ्गलं कुरु ।
कामाक्षी-रूपसम्पप्रभावैःन्न दिव्यमङ्गल-विग्रह ॥
अनर्घ प्रभाव Invaluable greatness
द्वितीय-भगवत्पाद-नामवैभव-विश्रुत ।
महास्वामीति विख्यात कीर्तनीय-गुणोज्ज्वल ॥
अव्याज-करुणापूर्ण दीर्घाक्ष स्वर्णभास्वर ।
जीवन्मुक्ताग्रणीर्नित्यं जगतां मङ्गलं कुरु ॥
अग्रणी Foremost
यस्याववबोद्धुमिह लौकिक-जीवतत्त्वं
सर्वेपि जाग्रति हि लोक-कथास्वकस्मात् ।
दिव्यांश-शङ्करवदेव सुलौकिकस्सन्
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १॥
अवबोद्धुम् To understand
दुर्गास्तवो रचित एव पदार्थ-पुष्टः
पित्रार्पितं लसति रिक्थमिवात्र भक्ते ।
मातेव यत् प्रतिपदं व्युषितं न आरात्
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २॥
पित्रार्पितं रिक्थम् Inheritance given by a father
व्युषितं नः Distributed to us (na: becomes na due to following vowel)
यः शोक-मोहरहितस्स हि गण्यतेऽत्र
ज्ञानीति नेषमपि शिष्यहिताय विद्यन् ।
शिष्यं च ब्रह्म गमयन्निगमान्त-मूलं
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ३॥
नेष - With supreme guidance
नीरे वसन्ननुनयैरपि मीनजीवः
किं वासमीप्सति कदापि वरिष्ठ-दुग्धे ।
एवं स्वशक्तिमनुपालयतेति सूक्त्या
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ४॥
अनुनय Persuasion
वरिष्ठ-दुग्धे - Superior milk
ऋग्वेदि-विप्रकुलमादर-सम्भृतं ते
सम्पूर्णकुम्भमुपधिं कुरुतेऽनुसन्ध्यम् ।
वेदार्थ-वाचन-कृते निधियोजनां ते
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ५॥
आदर-सम्भृतं Carried with love and gratitude
अनुसन्ध्यम् Every evening (Every day)
उपधिं Support
भक्त्या स्वमातृ-पितृ-गुर्वनुवर्त-सेवा
सर्वस्य शोभत इति श्रुतिसार-वाचम् ।
मातेव वत्सलतया ह्युपदेष्टुमस्मान्
श्रीचन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ६॥
अनुवर्त-सेवा - Obedience and serving
धूतो यदीय-महसा नु तमोनुषङ्गः
प्रज्ञान-वारिज-विकाशनमप्यकारि ।
तं मन्दहासमिह भासय भक्तवर्गे
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ७॥
यदीय-महसा - By whose brilliance
धूत: तमोनुषङ्गः Darkness is shattered
प्रज्ञान-वारिज-विकाशन - Blooming of the lotus of wisdom
भीतं न भीषयति भागवतं शरण्यो
रक्षत्यपीति करुणा-वरुणालयस्सन् ।
स्वस्यैव तैर्विशदयङ्कृतकैरुदारैः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ८॥
विशदयन् - exemplifying, making clear
कृतकैरुदारैः - with benevolent deeds
भावैः षडङ्ग-सदसामपि संहितानां
ऐक्यं फलं बहुविधं विदधान आद्यः ।
आचार्यपाद इव सद्गुरुपाद-नाम्ना
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ९॥
आब्रह्म-कीट-जननी यदि सैव गीता
वर्णाश्रमान्तर-विधायक-वाहिनीति ।
शिष्ये तदाशय-विरोध-मतिं व्यपोह्य
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १०॥
तदाशय-विरोध-मतिं - Mind going against Her wishes
व्यपोह्य - Refuting, removing
शास्त्रं चतुर्विधमितीह विमर्श-दृष्ट्या
व्यासीय-सूत्र-गणनेन विबोधयन्नः ।
शास्त्रार्थ-वित्तम-हृदामभिमान-जैत्रं
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ ११॥
शास्त्रार्थ-वित्तम - Best among those who know the Shastras
षष्ठी-समास-विधयेति जगद्गुरूक्तिं
व्याख्याय विस्मयवशादभिसन्दधानः ।
काशीस्थ-पण्डितगणं परतो विजेतः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १२॥
जगद्गुरूक्तिं The title “Jagadguru”
षष्ठी-समास - A type of Compound Word
काशीस्थ Residing in Kashi
अभिसन्दधानः Creating peace and friendship
धर्मस्स्थितिर्भवति हाचरणेन नित्यं
साहाय्यकं तु कुरुते भुवि तत्प्रचारः ।
इत्यादिशन्नधिकता-जितरामधर्मः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १३॥
ह Indeed
आङ्ग्लेतिहास-गणितेषु च गीतनाट्ये
षड्-दर्शनेषु च कुशाग्र-धियाऽधिवक्ता ।
सारस्वतं पदमलङ्कुरुषे गरीयान्
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १४॥
आङ्ग्ल इतिहास English Literature
कुशाग्र-धिया Intellect sharp as the tip of a Darbha grass
यद्यद्-यदीयमनिशं कुरुते मनस्तद्
रूपं च भावमभियान् भगवानिवाद्यः ।
शिष्याननीदृश-दृशा परिपालयन्नः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १५॥
अनीदृश-दृशा In dissimilar, different ways
संयुक्त-राष्ट्र-समितावभिरूप-संज्ञान्
उद्दिश्य गापित-सुगीतमुखोपदेशः ।
भूयात्स सज्जनहिताय च दीनबन्धो
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १६॥
संयुक्त-राष्ट्र-समिति United Nations
गापित Caused to be sung
वेदस्य शास्त्र-निवहस्य च देवधाम्नां
कन्या-गवां स्थविर-पूजक-दीन-नॄणाम् ।
सौहित्य-हेतु-निधि-योजनमुज्ज्वलं ते
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १७॥
स्थविर-पूजक-दीन-नॄणाम् Seniors, priests and poor people
सौहित्य-हेतु-निधि Welfare Fund
उत्थापितादिम-नटालयतः सतारा
ताराग्रहाभ-जनता-महिता बभूव ।
अद्यापि सन्निधि-वशात्तदनुग्रहार्थं
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १८॥
आदिम-नट-आलय Temple for Lord Nataraja
सतारा The town Satara
वृन्दार-तावक-कृपाभरधारया सा
द्यौरेव नूनमधरी-क्रियते सतारा ।
काञ्च्यां हि सन्ति विबुधा गुरुवार-सभ्याः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ १९॥
द्यौ: सतारा The sky with stars
अधरी-क्रियते Made inferior
धर्म्यं च सामयिकमेव यतीश्वरस्तत्
कर्तुं न कर्तुमभिपूर्वतयाऽपि कर्तुम् ।
विस्मापयन्नखिल-साधुजनान् स्ववृत्तैः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २०॥
अभिपूर्वतया In regular order
विस्मापयन् Causing wonder
पादक्रमो लसति भारत-पुण्य-भूमौ
आवर्तितस्तव हि पावित-पांसुधामा ।
भूयोऽपि काङ्क्षित-फलान्युपनेतुमस्मान्
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २१॥
पादक्रम Footsteps
पावित-पांसुधामा Purified by the dust
काञ्चीपुरे गुरुवरैर्भृत-पीठ-भक्ताः
दीना नदीन-मध्य-शिथिला न मग्नाः ।
भीता न भीति-विवशा न रुदन्त्यनाथाः
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २२॥
नदीन Ocean
साम्राज्यं आस्तिक-दृशानमिदंयुगीनं
बाभास्ति सर्वमतिदीर्घ-मठाधिपत्ये ।
इत्येव गीतयशसस्तव सुप्रभातं
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २३॥
दृशान Lighting (the path)
इदंयुगीनं Particular to this Yuga
सत्यव्रतस्त्वमसि तत्सुलभोपसेव्यं
मार्गं प्रदर्श्य महनीय-दशोपदेशैः ।
अस्मादृशानपि समुत्सुकयन्महात्मन्
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २४॥
अस्मादृशानपि Even those like us
श्रीमज्जयेन्द्र-विजयेन्द्र-विनेय-मुख्यैः
आराधितः सदसि काञ्चन-विल्व-पत्रैः ।
उद्दीपयन्नमितमात्म-बलं जनानां
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २५॥
उद्धृत्य पाणिमभयैक-परायणं तं
संयोज्य दत्त-सुवरेण परेण भावम् ।
अद्वैत-मुद्रमुदितः कनकाभिषेके
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २६॥
त्वं योऽसि सोऽसि कथमात्मबलस्य लोपात्
जानीमहे तदथवा नु तव प्रसादात् ।
जानीम एव महनीय गुरो प्रसीद
दोषान् क्षमस्व कलितानविमृश्य तत्त्वम् ॥ २७॥
आत्मबलस्य लोपात् Due to lack of spiritual strength
श्रीकामकोटि-मठ-कार्यमशीतिमब्दान्
सप्तोत्तरं दधदहो यदवैमि धत्से ।
वैराजमात्मनि गुरो भगवत्स्वरूपं
श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ २८॥
सप्तोत्तरं अशीतिमब्दान् Eighty seven years
जाने न शास्त्रमुत वेदपुराण-गाथाः
वाग्मी न चाहमिह यत्तव तोषकारी ।
वात्सल्यमेकमवलम्ब्य तव स्वकीयं
मातेव पङ्किल-शिशुं कृपया क्षमस्व ॥ २९॥
वाग्मी Eloquent speaker
तोषकारी Causing satisfaction
क्षेमं त्वमाप्स्यसि शुभं भवितेति मह्यं
सानुग्रहं स्मितमुखो यदददाः प्रसादम् ।
मीराज-मन्दिर-महागणपस्य साक्ष्ये
सत्यापितञ्च तदहं किमु विस्मरेयम् ॥ ३०॥
यदददाः प्रसादम् The blessings which you gave
भक्त्यार्द्र-भारत-महाजन-वन्दितायै
निष्कम्प-नन्दित-मतान्तर-सेवकायै ।
निस्तारतम्य-तदनुग्रह-तत्परायै
नित्यं नमोऽस्तु कुलदैवत-पादुकायै ॥ ३१॥
भक्त्यार्द्र Melting with devotion
आबाल-वृद्धमभिजात-महोत्सवायै
श्रुत्यन्त-सुन्दर-कटाक्ष-सुवीक्षितायै ।
शिष्याग्रणी-द्वय-निषेवित-पादुकायै
श्री चन्द्रशेखरगुरोर्नम एतदस्तु ॥ ३२॥
आबाल-वृद्धम् From children to elders (everyone)
शिष्याग्रणी Foremost among disciples
मैत्री-विजेय-शुभ-दण्ड-कमण्डलायै
श्रीकामकोटि-सुमठाधिप-वाहनायै ।
अश्रान्त-भारत-परिक्रम-साक्षिदेव्यै
नित्यं नमोऽस्तु जगतां गुरुपादुकायै ॥ ३३॥
श्रीमज्जयेन्द्र-विजयेन्द्र-कृतावलम्बः
कष्टात् समुन्नतिमवाप्त-मठीय-धर्मः ।
भक्तैः स्वशिष्य-निवहैश्च समिध्यमानः
जेजीयतामिह यथापुरमायुगान्तम् ॥ ३४॥
यथापुरम् Just as before
आयुगान्तम् Till the end of this Yuga
मङ्गलं जगते भूयात् प्रसादात् जगतां गुरो ।
पठद्भ्यः सुप्रभातं च भूयादेव सुमङ्गलम् ॥ ३५॥
पठद्भ्यः To those who read
इति चन्द्रशेखरेन्द्रसरस्वतीसुप्रभातं अथवा
श्रीमहापेरियवासुप्रभातं सम्पूर्णम् ।
Encoded and proofread by Aruna Narayanan, Rajani Arjun Shankar