श्रीमन्त्रमातृकाष्टकम्
घ्रूङ्काराङ्कितमन्त्रगं शरणदं सर्वार्थसिद्धिप्रदं
शाङ्कर्यादिरमेशलालिततनुं सङ्कीर्तनाकर्षितम् ।
कालाम्भोदसमप्रभं करतलैर्दिव्यायुधं बिभ्रतं
वन्दे श्रीहरिशङ्करात्मजमहं कारुण्यवारान्निधिम् ॥ १॥
नम्राणामखिलार्थदं मुनिजनैः संसेवितं सर्वदा
नित्यानन्दसुखाञ्चितं मणिगणेनालङ्कृतं सुन्दरम् ।
सर्वारिघ्नमशेषशोकशमनं कान्तारमध्यस्थितं
वन्दे पापनिवारणैकनिरतं पूर्णेन्दुबिम्बाननम् ॥ २॥
मत्तेभोपरिसंस्थितं त्रिनयनं कान्तद्वयालिङ्गितं
सत्त्वादित्रिगुणात्मकं कलिमलौघारण्यदावानलम् ।
वित्तेशाश्रितमम्बिकाहृदयगं भक्तौघभूतिप्रदं
वन्दे पावनभक्तकीर्तितविभुं कल्याणकल्पद्रुमम् ॥ ३॥
पद्मादुत्तमपुष्पपूजितपदं नीलाम्बरालङ्कृतं
पद्मान्तर्गतराजितं वरगणान् दातुं सदाप्युत्सुखम् ।
दिव्यैर्भूतगणैर्वृतं रिपुहरं चण्डाट्टहासप्रियं
वन्दे देवमुनीन्द्रवन्दितपदं सर्वापदं शान्तिदम् ॥ ४॥
रागद्वेषतमोविहीनसुजनैर्भक्त्या सदा सेवितं
रोगाद्युद्भटदोषसङ्घदलनं वागीश्वरीलालितम् ।
धर्माधर्मविचिन्तनैकनिरतं सर्वार्थसम्पादकं
वन्दे सुन्दरसूनुमद्भुतमहं मन्दारहारोज्वलम् ॥ ५॥
यन्त्राराधितदैवतं परपदप्राप्त्युत्सुकाभीष्टदं
मन्त्रोच्चारणतुष्टमानसमहं श्रीभूतनाथाकृतिम् ।
स्फुर्जत्पत्रसुवर्णकुण्डलधरं सन्तानवृक्षोपमं
वन्दे वन्दितलोकसर्ववरदं सन्तानसौख्यप्रदम् ॥ ६॥
गोप्तृस्थाननिवासिनं गुरुवरैराराधितं सर्वगं
दीप्यद्दिव्यविभूषणौघविमलं शोणाम्बरालङ्कृतम् ।
प्राप्यस्थाननिवासिनं नृपवरैः संसेव्यमात्तादरं
वन्दे शाश्वतधर्मरक्षणविधावृग्वेदरूपं परम् ॥ ७॥
पत्रेमन्त्रान्त्यकवर्णशोभिततनुं वेदार्थवाक्योज्ज्वलं
वामाङ्गस्थितपूर्णयेतरलसच्छ्रीसत्यकेनाश्रितम् ।
दिव्यं भक्तजनैकनिरतं सत्यस्थितं सर्वदा
वन्दे घ्रूम्पदमन्त्रवर्णसुभगं रत्नप्रभाभासुरम् ॥ ८॥
इति श्रीमन्त्रमातृकाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor