श्रीनारदस्तोत्रम्
यो वेदगर्भस्य च गर्भजातो न गर्भजातः खलु वेदगर्भः ।
देवर्षिवर्यं हरिदासवर्यमादेशिकानां प्रवरं तमीडे ॥ १॥
गुरोः पुरारेश्चरणाब्जसेवया अवाप यो मन्त्रवरं मुरारेः ।
कृष्णाय योऽनुग्रहतो ददौ तमादेशिकानां प्रवरं तमीडे ॥ २॥
नारं तमो यो द्यति नारदोऽतो देवर्षिवर्योऽभिमतः सुराणाम् ।
राजर्षिविप्रर्षिमहर्षिवन्द्यः आदेशिकनां प्रवरं तमीडे ॥ ३॥
नारायणो येन प्रसादितोऽद्धा पारायणं कर्तुमना जनानाम् ।
जगौ निजं नारदपञ्चरात्रमादेशिकानां प्रवरं तमीडे ॥ ४॥
शेषादिशेषं हरेर्भक्तिकाण्डं लेभे तमाराध्यपदं प्रसाद्य ।
प्रकाशयामास हिताय लोके आदेशिकानां प्रवरं तमीडे ॥ ५॥
हरेर्मनोमूर्तिरसौ मुनीनां मनोनियन्ताखिलमूर्तिभाजाम् ।
मच्चेतसो यो मुदमातनोति आदेशिकानां प्रवरं तमीडे ॥ ६॥
सनत्कुमारैरुपशिक्षितो यो योऽशिक्षयद्दक्षकुमारमुख्यान् ।
समुद्धृता दैत्यपतेः कुमारा आदेशिकानां प्रवरं तमीडे ॥ ७॥
समागतः पीठवरे निवेशितो व्यासाय यो भागवतागमं ददौ ।
जहार यस्तत्खिलतां मनोगतामादेशिकानां प्रवरं तमीडे ॥ ८॥
इतीदं ब्रह्मरातेन सुरर्षेः कीर्तितं स्तवम् ।
अधीयानो धारयन्वा निःश्रेयसमवाप्नुयात् ॥ ९॥
(३८-४६)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे
एकादशोऽध्याये श्रीनारदस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar