निगमन श्लोकाः
॥ श्री ॥
॥ श्रीमते रामानुजाय नमः ॥
सर्वदेशदशाकालेष्वव्याहतपराक्रमा ।
रामानुजार्यदिव्याज्ञा वर्धतामभिवर्धताम् ॥ १॥
रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला ।
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥
नातः परं किमपि मे त्वयि नाथनीयं
मातर्दये ! मयि कुरुष्व तथा प्रसादम् ।
बद्धादरो वृषगिरिप्रणयी यथासौ
मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ ३॥
(श्लोकोऽयं श्रीदेशिकचरणानाम्)
मुक्तानुभूतिर्हि महीतलेऽस्मिन्
मुकुन्दपादाब्जमधुव्रतानाम् ।
मुदां प्रवाहैः मुहुराकुलानां
मुनीन्द्ररामानुजसूक्तिसेवा ॥ ४॥
श्रीमदाशुकविसार्वभौमानां)
विशुद्धविज्ञानविशेषकारणं
रजस्तमः कल्मषदोषनाशनम् ।
सदैव रामानुजपादपङ्कजं
स्मरामि नौमि प्रणमामि चादरात् ॥ ५॥
(श्रीश्रुतप्रकाशिकाचार्याणाम् ।
क्षेमाय यः करुणया क्षितिनिर्जराणां
भूमावजृम्भयत भाष्यसुधामुदारः ।
वामागमाध्वगवदावदतूलवातः
रामानुजस्स मुनिराद्रियतां मदुक्तिम् ॥ ६॥
(श्रीमदुपनिषद्भाष्यकाराणाम्)
जयति यतिराजसूक्तिः
जयति मुकुन्दस्य पादुकायुगली ।
तदुभयधनास्त्रिवेदीं
अवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ ७॥
(श्रीदेशिकचरणानां)
काले वर्षतु वासवः क्षितिभुजो रक्षन्तु संयक् महीं
सर्वे सन्तु निरामयाश्च कृतिनः सत्त्वोत्तराः प्राणिनः ।
पुण्या लोकमिदं पुनातु भगवद्भक्तिः चिरस्थायिनी
मालावत् यतिशेखरस्य विहरत्वाज्ञा नृणां मूर्धसु ॥ ८॥
(घटिकाशतवात्स्यवरदगुरूणां)
इति निगमनश्लोकाः सम्पूर्णाः ।
॥ श्रीमते रामानुजाय नमः ॥
Proofread by Aruna Narayanan