शिवोक्तं पादुकापञ्चकम्
ब्रह्मरन्ध्रसरसीरुहोदरे
नित्यलग्नमवदातमद्भुतम् ।
कुण्डलीविवरकाण्डमण्डितं
द्वादशार्णसरसीरुहं भजे ॥ १॥
तस्य कन्दलितकर्णिकापुटे
कॢप्तरेखमकथादिरेखया ।
कोणलक्षितहलक्षमण्डली-
भावलक्ष्यमवलालयं भजे ॥ २॥
तत्पुटे पटुतडित्कडारिम-
स्पर्द्धमानमणिपाटलप्रभम् ।
चिन्तयामि हृदि चिन्मयं वपु-
र्नादबिन्दुमणिपीठमण्डलम् ॥ ३॥
ऊर्ध्वमस्य हुतभुक्शिखात्रयं
तद्विलासपरिवृंहणास्पदम् ।
विश्वघस्मरमहोच्चिदोत्कटं
व्यामृशामि युगमादिहंसयोः ॥ ४॥
तत्र नाथचरणारविन्दयोः
कुङ्कुमासवपरीमरन्दयोः ।
द्वन्द्वमिन्दुमकरन्दशीतलं
मानसं स्मरति मङ्गलास्पदम् ॥ ५॥
निसक्तमणिपादुकानियमिताघकोलाहलं
स्फुरत्किसलयारुणं नखसमुल्लसच्चन्द्रकम् ।
परामृतसरोवरोदितसरोजसद्रोचिषं
भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥ ६॥
पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् ।
षडाम्नायफलप्राप्तं प्रपञ्चे चातिदुर्लभम् ॥ ७॥
इति शिवप्रोक्तं पादुकापञ्चकं सम्पूर्णम् ॥
॥ ॐ तत् सत् ॥
Encoded and proofread by Prabha Maruvada