श्रीपार्श्वनाथस्तवनम्
अथ श्रीपार्श्वनाथस्तवनम् ।
ध्यानं
ह्रीं देवं पार्श्वनाथं धरणिपतिनुतं देवदेवेन्द्रवन्द्यं
ह्रीङ्कारं बीजमन्त्रं जगदकलिमलं सर्वोपद्रव्यहारी ।
ॐ ह्रां ह्रीं ह्रूँकारनादं अघहरति महाभक्तिरूपं जनानाम् ।
व्यालीढं पादपीठं कमठशठमतिं माह्वयं पार्श्वनाथम् ॥ १॥
ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्रावतरावतर संवौषट् स्वाहा । आह्वाननम् ।
ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्र तिष्ठ तिष्ठ
ठः ठः स्वाहा । स्थापनमन्त्रः ।
ॐ ह्रीं श्रीपार्श्वनायाय अत्र मम सन्निहितो
भव भव वषट् स्वाहा । सन्निधापनम् ।
अथाष्टकम् ।
पूजनविधिः ।
ह्रींह्रींङ्कारबीजं भूरिरूपतेजं गुणाधिकराज्यं सुराधिपपूज्यम् ।
क्षीराब्धिसुवारिभिः काश्मीरयुक्तैर्भवकल्मषहारैर्जिनमर्चयामि ॥
ॐ ह्रीं सकलमन्त्रवीजाय ह्रींङ्काराय विश्वविध्नहरणाय ॥ जलम् ॥ १॥
हुं ह्रोङ्कारनाम्नी परं स्फोटयापं जनानां सुखदायकं विघ्नहारम् ।
देवरण्यश्रीखण्डकुङ्कुमयुक्तैर्वपुस्तापहारैजिनं पूजयामि ॥ गन्धम् ॥ २॥
ॐ ह्रीं देवमन्त्रं वामादेवीसुतं अखण्डं पदं निर्मितं पार्श्वनाथम् ।
क्षीराब्धिप्रफेनैः समं तण्डुलौघैरखण्डैरक्षतैर्गतहेमपात्रैः ॥
अक्षतम् ॥ ३॥
क्षूं हूं रक्ष रक्ष भैरवातिभीमां ह्राँ ह्रूँ ह्रः
वहननस्फुटाबन्धबन्धम् ।
जपाजातिमोगरचम्पकपुष्पै रणद्गन्धलुब्धैर्भ्रमद्भमरवृन्दैः ॥
पुष्पम् ॥ ४॥
वमं हंसबाधं सुधाबीजमन्त्रं क्षुधावेदनिवारितं पार्श्वनाथम् ।
वटाखज्जकैर्मोदकैः शालिभक्तैः गतैर्हेमपात्रे बहूअन्नपाकैः ॥
नैवेद्यम् ॥ ५॥
क्ष्मां क्ष्मां बीजसारहरिद्देहवर्णं हरन्मोहध्वान्तं जिनाधिपपूज्यम् ।
ज्वलद्वीपघृतादिकर्पूरयुक्तैः शिखापिङ्गवर्णैर्यथावग्रनेत्रैः ॥
दीपम् ॥ ६॥
भ्रं भ्रं भ्रः प्रसूतं हतं शाकिनीनां महत्क्रूरकर्मं दहन् दग्धरूपम् ।
लसद्धूपधूम्रैः कृष्णागुरुधूपैः सुगन्धीकृताङ्घ्रि
जिनं पूजयामि ॥ धूपम् ॥ ७॥
स्फ्रीं स्फ्रीं वसनादं जगत्पूज्यवादं हतादुष्टदुःखं गताभीष्टरूपम् ।
फलैर्दाडिमैर्द्राक्षकैर्मातुलिङ्गैः जिनं पूजितं
श्रीफलैर्भावयुक्तैः ॥ फलम् ॥ ८॥
आपैर्गन्धैरक्षतैः पुष्पश्चारुदीपधूपैः फलैरर्घैः ।
काञ्चनपात्रैर्मङ्गलदानैर्दद्यादर्घ श्रीजिननाथम् ॥
इत्थं मन्त्रं नित्यं ध्यायन् तस्मिन् सिद्धिं च प्रदेयम् ।
वामासुतं पद्मासेव्यं भक्तिभावमर्चितं च ॥
अथ स्तोत्रम् ।
श्रीमद्देवेन्द्रवृन्दामलमणिमुकुटं ज्योतिषां चक्रवालै-
ब्र्यालीढं पादपीठं शठकमठकृतोपद्रवाबाधितस्य ।
लोकालोकावभासी श्लखरुविमलज्ञानसद्दीपकं च
प्रध्यस्तध्वान्तजालः स वितरतु सुखं संस्तुवे पार्श्वनाथम् ॥ १॥
ह्रां ह्रीं ह्रूँ ह्रौँ विभास्वन्मरकतमणिकाकान्तमूर्ते ! हिमं च
हं सं तं बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षः ।
क्षां क्षीं क्षां क्षौं समस्तक्षितितलमहिता ज्योतिरुद्योतितार्थं
क्षैं क्षां क्षौं क्षः क्षितबीजो गुरुशुभभरैः
संस्तुवे पाप्नर्वनाथम् ॥ २॥
ह्रीङ्कारे रेफयुक्तं रररररररं देवसंसं प्रयुक्तं
ॐ ह्रीं क्लीं क्लं(ह्रांह्रीं) समेतं विपदमदकलाकच्चकोद्भासि हुं हुम् ।
धुं धुं धुं धूम्रवर्णैरखिलमहिजगन्मोहिदेह्यानुकृष्टं
वैषण्यन्त्रं पतन्तं त्रिजगदधिपते ! संस्तुवे पार्श्वनाथम् ॥ ३॥
आं क्रौँ ह्रीं सर्ववश्यं कुरु कुरु सरसं क्रामणं तिष्ठ तिष्ठ
क्षूँ हूं हूं रक्ष रक्ष प्रबलतरमहाभैरवारातिभीमैः ।
ह्रां ह्रीं ह्रूं द्रावयेति द्रव हन हन फट् फट् वषट् बन्ध बन्ध
स्वाहामन्त्रं पठन्तं त्रिजगदधिपते संस्तुवे पार्श्वनाथम् ॥ ४॥
हं सं झ्वीँ क्षीं सहंसः कुवलयकलितैरचिन्ताङ्गः प्रसूनै-
इवीं भः हः घर्क्षहंस हरहरहहहं पक्षिपः पाक्षिकोपम् ।
पंवं हंसः पवम्मं सरसर सरसत्सत्सुधाबीजमन्त्रैः
स्नायस्थाने परत्नैः प्रबलति विमुखं संस्तुवे पार्श्वनाथम् ॥ ५॥
क्ष्मां क्ष्मां क्ष्मूं क्षौं क्षः रेतै..aपति विनुतं रत्नदीपैः प्रदीपैः
हाहाकारोग्रनादैर्ज्वलद्दहनशिखाकल्पदीर्घोर्ध्वकेशैः ।
पिङ्गाक्षैर्लेलिजिह्वैर्विषमविषधरालङ्कृतैस्तीक्ष्णदंष्ट्रै -
र्भूतैः प्रेतैः पिशाचैरनधकृतमहोपद्रवाद्रक्षितारम् ॥ ६॥
झ्रां झ्रीं झ्रः शाकिनीनां सपदि हरपदं त्रिविंशुद्धैर्विबुद्धैः
ग्लौं क्ष्मं डं दिव्यजिह्वागतिमतिकुपितं स्तम्भनं संविधेहि ।
फट् फट् सर्पादिरोगं ग्रहमरणभयोच्चाटनं चैव पार्श्वं
त्रायस्वाशेषदोषादमरनरवरैः संस्तुवे पार्श्वनाथम् ॥ ७॥
स्फ्रां स्फ्रीं स्फ्रूं स्फ्रोँ स्फ्रः प्रबलसुफलदं मन्त्रबीजं जिनेन्द्रं
रां रों रौं रूं रः प्रमह...महितं पार्श्वदेवाधिदेवम् ।
क्रां क्रीं क्रूं क्रौं क्रः जजजजजजरा जर्जरीकृत्य देहं
धूं धूं धूं धूं धूं धुं धुं धुं ससमदुरितहं संस्तुवे पार्श्वनाथम् ॥ ८॥
इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथं सनित्यं
विद्वेषोच्चाटनादिस्तभनजयवशं पापरोगापनोदि
प्रोत्सर्पज्जङ्गमादिस्थविरविषमुखध्वंसनं स्वायुदीर्घै-
रारोग्यैश्वर्ययुक्तो भवति यशःसुखं स्तौति तस्येष्टसिद्धिः ॥ ९॥
इति श्रीपार्श्वनाथस्तवनं सम्पूर्णम् ।
Proofread by DPD