श्रीमत्पतञ्जल्यष्टोत्तरशतनामावलिः

श्रीमत्पतञ्जल्यष्टोत्तरशतनामावलिः

श्रीमत्पतञ्जलिमहामुनये नमः । ॥ अथ श्रीमद्भगवत्पतञ्जल्यष्टोत्तरशतनामावलिः ॥ ध्यानम् योगशास्त्रप्रणेतारं शब्दविद्याप्रकाशकम् । आयुर्विद्याप्रवक्तारं प्रणमामि पतञ्जलिम् ॥ चेतःशब्दशरीराणां शोधकं देशिकोत्तमम् । भक्त्या नत्वा मुनिं नाम्नामष्टोत्तरशतं ब्रुवे ॥ ॐ श्रीमत्पतञ्जलिमहामुनये नमः । ॐ योगिवर्याय नमः । ॐ योगोपदेशकाय नमः । ॐ योगपदव्याख्यात्रे नमः । ॐ वृत्तिभेदबोधकाय नमः । ॐ ईश्वरप्रणिहितचित्ताय नमः । ॐ प्रणवोपासकाय नमः । ॐ प्रणवतत्त्वदर्शिने नमः । ॐ जपविधायिने नमः । ॐ योगसाधनोपदेशकाय नमः । १० ॐ शब्दतत्त्वप्रकाशकाय नमः । ॐ शब्दविद्याफलवक्त्रे नमः । ॐ वाग्योगविदे नमः । ॐ श्रुत्यर्थानुग्राहकाय नमः । ॐ सूत्रवाक्यार्थसेतवे नमः । ॐ धर्मनियमावगमकाय नमः । ॐ शब्दोपलब्धिदर्शकाय नमः । ॐ दृष्टान्तोपकल्पकाय नमः । ॐ न्यायकदम्बाख्यात्रे नमः । ॐ सूत्राक्षरमर्मविदे नमः । २० ॐ आयुर्विद्यादेशिकाय नमः । ॐ क्लेशपञ्चकविदूराय नमः । ॐ अविद्यापदशोधकाय नमः । ॐ कर्मफलनिवृत्त्यै नमः । ॐ हेयोपादेयज्ञात्रे नमः । ॐ योगाङ्गोपदेशकाय नमः । ॐ योगाङ्गफलवक्त्रे नमः । ॐ योगसाधनसन्देशाय नमः । ॐ योगपथानुवृत्ताय नमः । ॐ योगीश्वराय नमः । ३० ॐ वाग्दोषविदे नमः । नमः ॐ पाणिन्याहितभावाय नमः । ॐ लोकभाषणविदुषे नमः । ॐ श्रुत्यर्थाभिधात्रे नमः । ॐ शब्दलक्षणवक्त्रे नमः । ॐ गुरुलाघवविदे नमः । ॐ सर्वशाखाविज्ञात्रे नमः । ॐ सूत्रविवेचकाय नमः । ॐ शब्दग्रन्तोपजीव्याय नमः । ॐ अक्षरानुव्याख्यात्रे नमः । ४० ॐ सूत्रानर्थक्यनिराकर्त्रे नमः । ॐ विशेषप्रतिपत्तिहेतुदर्शिने नमः । ॐ पदसम्बन्धज्ञाय नमः । ॐ बहुकल्पप्रदर्शकाय नमः । ॐ सर्वलक्ष्याभिज्ञाय नमः । ॐ वाक्याशयवर्णनपराय नमः । ॐ सहस्रजिह्वाय नमः । ॐ आदिशेषावतरय नमः । ॐ विचारधाराधराय नमः । ॐ शब्दार्थभेदाभेददर्शिने नमः । ५० ॐ समाधिभेदभृते नमः । ॐ प्रशान्तसिद्धिदायकाय नमः । ॐ चित्तैकाग्रतापरिणामवक्त्रे नमः । ॐ अध्यासभेदनिरूपकाय नमः । ॐ योगभेदोपबृंहकाय नमः । ॐ योगविभूतये नमः । ॐ योगसोपानकल्पकाय नमः । ॐ अणिमादिसिद्धिद्दय नमः । ॐ कैवल्यपथदर्शिने नमः । ॐ वैराग्यहेतुबोधकाय नमः । ६० ॐ मुनिश्रेष्ठाय नमः । ॐ मुनिवन्दिताय नमः । ॐ दोषत्रयापहर्त्रे नमः । ॐ गोनर्दीयाय नमः । ॐ गोणिकापुत्राय नमः । ॐ योगसूत्रकृते नमः । ॐ महाभाष्यनिर्मात्रे नमः । ॐ वैद्यशास्त्रप्रवर्तकाय नमः । ॐ व्याख्यानिपुणाय नमः । ॐ योगिगम्याय नमः । ७० ॐ अखण्डार्थविदे नमः । ॐ क्रियास्वरूपबोधकाय नमः । ॐ सङ्ख्यातत्त्वविदे नमः । ॐ कालविभागदर्शकाय नमः । ॐ सूक्ष्मकालवेदिने नमः । ॐ कारकपदव्याख्यात्रे नमः । ॐ द्रव्यपदनिर्वाचकाय नमः । ॐ स्फोटभेदाभिधायिने नमः । ॐ शब्दगुणवक्त्रे नमः । ॐ ध्वनिभेददर्शकाय नमः । ८० ॐ कुणिदर्शनाश्रिताय नमः । ॐ विधिनिपातार्थवक्त्रे नमः । ॐ सूक्ष्मविचारशीलाय नमः । ॐ लोकवाक्यविशारदाय नमः । ॐ लोकवन्दिताय नमः । ॐ ध्यानमग्नाय नमः । ॐ प्रसन्नचित्ताय नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रसन्नवपुषे नमः । ॐ पूतान्तःकरणाय नमः । ९० ॐ कैवल्यदर्शिने नमः । ॐ सिद्धिभेददर्शिने नमः । ॐ ध्यानस्वरूपाभिधायकाय नमः । ॐ चित्तसङ्करविदूराय नमः । ॐ चित्तप्रसादनदर्शकाय नमः । ॐ योगपटलाभिधात्रे नमः । ॐ क्लेशकर्मनिवर्तकाय नमः । ॐ स्वरूपस्थिताय नमः । ॐ परमकारुणिकाय नमः । ॐ विवेकख्यातये नमः । १०० ॐ महर्षये नमः । ॐ महायोगिने नमः । ॐ मोक्षपथदर्शकाय नमः । ॐ मुमुक्षुजनवन्दिताय नमः । ॐ अमोघफलदात्रे नमः । ॐ अतजनवत्सलाय नमः । ॐ त्रिकरणशुद्धिदाय नमः । ॐ महायोगीश्वरेश्वराय नमः । १०८ ॐ श्रीपातञ्जलमिदं नाम्नामष्टोत्तरशतं तु ये । भक्त्या युक्ताः पठेयुस्ते प्राप्नुवन्ति परं पदम् ॥ ॥ इति श्रीमद्भगवत्पतञ्जल्यष्टोत्तरशतनामावलिः ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : 108 Names for Patanjali Muni
% File name             : patanjaliaShTottaranAmAvali.itx
% itxtitle              : patanjalyaShTottarashatanAmAvaliH
% engtitle              : 108 Names praising Patanjali Muni
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadidot com
% Proofread by          : sunder hattangadidot com
% Indexextra            : (Translation, PDF)
% Latest update         : April 14, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org