पतञ्जलिनवकम् अथवा पतञ्जलिताण्डवस्तोत्रम्
सदञ्चितमुदञ्चितनिकुञ्चितपदं झलज्झलज्झलितमञ्जुकटकं
पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम् ।
कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलं
चिदम्बुधिमणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भजे ॥ १॥
हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं (दयमन्दहसितं)
विरिञ्चिसुरसंहतिपुरन्दरविचिन्तितपदं तरुणचन्द्रमकुटम् ।
परम्पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं (मदनभञ्जनकरं)
चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भजे ॥ २॥
अनन्तनवरत्नविलसत्कटककिङ्किणिझलज्झलज्झलज्झलरवं
मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम् ।
शकुन्तरथबर्हिरथदन्तिमुखनन्दिमुखभृङ्गीरिटिसङ्घनिकटं
सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भजे ॥ ३॥
अचिन्त्यमलिवृन्दरुचिबन्धुरगलमन्तकभुजङ्गविहङ्गमपतिं
मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।
अकम्पमनुकम्पनरतिं गलनिषङ्गगरलं भवमदङ्गजहरिं
पतञ्जलिनुतं प्रणतसञ्चितनिधिं परचिदम्बरनटं हृदि भजे ॥ ४॥
अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलं
कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम् ।
अनन्तविभवं त्रिजगदन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरं
सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भजे ॥ ५॥
अवन्तमखिलं त्रिजगदं भगणतुङ्गमवतंसितपदं सुरसरित्-
तरङ्गनिकुरम्बधृतिलम्पटजटं शमनडम्भसुहरं भवहरम् ।
शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भजे ॥ ६॥
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलङ्कृतभुजङ्गमपतिं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रसुरवन्दितपदम् ।
शिवं करटिचर्मवसनं जलधिजन्मगरलं कबलयन्तमखिलं
दृढं प्रणयकन्दमभयङ्करपदं परचिदम्बरनटं हृदि भजे ॥ ७॥
अजं क्षितिरथं भुजङ्गपुङ्गवगुणं कनकशृङ्गधनुषं करलसत्
कुरङ्गपृथुटङ्गपरशुं रुचिरकुङ्कुमरुचिं डमरुकं च दधतम् ।
मुकुन्दविशिखं प्रणतवृन्दफलदं निगमतुङ्गतुरगं निरुपमं
सुगन्धितमहिं सपदि संहृतपुरं परचिदम्बरनटं हृदि भजे ॥ ८॥
अखण्डविधुमण्डलमुखं डमरुमण्डितकरं कनकमण्डपगृहं
स्वदण्डतलमुण्डशशिकुण्डलितमण्डनपरं जलखण्डजटिलम् ।
मृकण्डुसुतचण्डकरदण्डधरमुण्डनपदं भुजगकुण्डलधरं
शिखण्डशशिखण्डमणिमण्डनपरं परचिदम्बरनटं हृदि भजे ॥ ९॥
चिदम्बरनटस्तवमिदं पठति यः सततमन्तकरिपुप्रियतमं
परं सुकरशब्दलसदर्थबहुचित्ररुचिरं रसिकहृद्यममलम् ।
स रञ्जयति शंभुममलं जगति सत्यनयनं नटपतिं चलतरं
प्रपञ्चयति नित्यविभवं जयति पञ्चविशिखं व्रजति शङ्करपदम् ॥ १०॥
इति पतञ्जलिनवकं अथवा पतञ्जलिताण्डवस्तोत्रं समाप्तम् ॥
Proofread by PSA Easwaran