श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम्

श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम्

श्रितानां पादं ते सकलविधया शोकहरणः त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥ रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥ घनाघो वा दीनो वावयवविकलो वाक्षविकलः प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३॥ वदान्यात् त्वद्भूमौ दिवि सुरभिकल्पद्रुमदृषदां लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४॥ द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय त्वदन्यो दाता चेद्भवति कथमायामि वाद मे । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५॥ यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान् व्रजन् देशं देशं श्रमजनिरभूवं न च धनी । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६॥ न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे- त्यमुं मा दारिद्र्यव्यसनपरिपिण्डीकृतहृदयम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७॥ महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना जरत्काकावस्थां भृशमनुभवामीश किमिदम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८॥ गुरोः पुत्रः सुकविरवधूतः स्तवमहं चकारैकश्वासात सरलमिममादृत्य पठताम् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले दारिद्र्यमोचनस्तोत्रं नाम नवमोऽध्यायः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Daridryamochana Stotram
% File name             : rAghavendradAridryamochanastotram.itx
% itxtitle              : rAghavendradAridryamochanastotram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendradAridryamochanastotram
% Category              : deities_misc, gurudev, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org