श्रीराघवेन्द्रहृद्रोगहरणस्तोत्रम्
श्रीरामे गुणधामनि विनिहित चित्तप्रभो दयापूर्ण ।
गुरुराडुदारभाव त्वं हर हृद्रोगमतितूर्णम् ॥ १॥
राजीवाक्षीकाङ्क्षापूरण सन्तापसन्तताभ्यस्तम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ २॥
घोराशाभिधभूताविष्टं भृशमस्थिरं सदा भ्रमति ।
चेतो मे गुरुराज त्वं हर हृद्रोगमततूर्णम् ॥ ३॥
वेदपुराणसुमार्गानुज्झित्वा दुष्टनीचमार्गचरम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ४॥
द्रागिष्टार्थदमीशमलब्ध्वान्यानुपास्य बहुखिन्नम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ५॥
यत्नात् कापुरुषाधिकसेवाविधिनापि नाप काम्यार्थम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ६॥
नर्तेत्वद्भुवि कञ्चन जानीतेऽन्यं कलौ सुरद्रुसमम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ७॥
महिमानं तव भूयः श्रुत्वा त्वत्पादपङ्कजं प्राप्तम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ८॥
कृष्णावधूतरचितं पथ्योपेतं मनोरोगहरम् ।
स्तोत्रं मे पठतां त्वं संहर हृद्रोगमतितूर्णम् ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
हृद्रोगहरणस्तोत्रं नाम षष्ठोऽध्यायः सम्पूर्णः ।
Proofread by Gopalakrishnan, PSA Easwaran